श्री रुद्रम लघुन्यासम
SRI RUDRAM LAGHUNYASAM
SRI RUDRAM LAGHUNYASAM
श्री रुद्रम लघुन्यासम
SRI RUDRAM LAGHUNYASAM
SRI RUDRAM LAGHUNYASAM
ॐ अथात्मानग्^म् शिवात्मानग् श्री रुद्ररूपं
ध्यायेत् ||
शुद्धस्फटिक सङ्काशं त्रिनेत्रं
पञ्च वक्त्रकं |
गङ्गाधरं दशभुजं सर्वाभरण
भूषितम् ||
नीलग्रीवं शशाङ्काङ्कं नाग
यज्ञोप वीतिनम् |
व्याघ्र चर्मोत्तरीयं च
वरेण्यमभय प्रदम् ||
कमण्डल्-वक्ष सूत्राणां धारिणं
शूलपाणिनं |
ज्वलन्तं पिङ्गलजटा शिखा
मुद्द्योत धारिणम् ||
वृष स्कन्ध समारूढं उमा देहार्थ
धारिणं |
अमृतेनाप्लुतं शान्तं दिव्यभोग
समन्वितम् ||
दिग्देवता समायुक्तं सुरासुर
नमस्कृतं |
नित्यं च शाश्वतं शुद्धं
ध्रुव-मक्षर-मव्ययम् |
सर्व व्यापिन-मीशानं रुद्रं वै
विश्वरूपिणं |
एवं ध्यात्वा द्विजः सम्यक् ततो
यजनमारभेत् ||
अथातो रुद्र स्नानार्चनाभिषेक
विधिं व्या''क्ष्यास्यामः |
आदित एव तीर्थे स्नात्वा उदेत्य शुचिः प्रयतो ब्रह्मचारी शुक्लवासा
देवाभिमुखः स्थित्वा आत्मनि देवताः स्थापयेत् ||
प्रजनने ब्रह्मा तिष्ठतु |
पादयोर्-विष्णुस्तिष्ठतु | हस्तयोर्-हरस्तिष्ठतु |
बाह्वोरिन्द्रस्तिष्टतु | जठरेऽअग्निस्तिष्ठतु |
हृद'ये शिवस्तिष्ठतु |
कण्ठे वसवस्तिष्ठन्तु | वक्त्रे सरस्वती तिष्ठतु |
नासिकयोर्-वायुस्तिष्ठतु | नयनयोश्-चन्द्रादित्यौ
तिष्टेतां | कर्णयोरश्विनौ तिष्टेतां |
ललाटे रुद्रास्तिष्ठन्तु | मूर्थ्न्यादित्यास्तिष्ठन्तु |
शिरसि महादेवस्तिष्ठतु | शिखायां वामदेवास्तिष्ठतु |
पृष्ठे पिनाकी तिष्ठतु | पुरतः शूली तिष्ठतु |
पार्श्ययोः शिवाशङ्करौ तिष्ठेतां |
सर्वतो वायुस्तिष्ठतु | ततो बहिः सर्वतोऽग्निर्-ज्वालामाला-परिवृतस्तिष्ठतु
|
सर्वेष्वङ्गेषु सर्वा देवता यथास्थानं तिष्ठन्तु |
माग्^म् रक्षन्तु |
अग्निर्मे'
वाचि श्रितः | वाग्धृद'ये |
हृद'यं मयि'
| अहममृते'' | अमृतं ब्रह्म'णि |
वायुर्मे''
प्राणे श्रितः | प्राणो हृद'ये |
हृद'यं मयि'
| अहममृते'' | अमृतं ब्रह्म'णि |
सूर्यो' मे चक्षुषि श्रितः |
चक्षुर्-हृद'ये |
हृद'यं मयि'
| अहममृते'' | अमृतं ब्रह्म'णि |
चन्द्रमा' मे मन'सि श्रितः |
मनो हृद'ये |
हृद'यं मयि'
| अहममृते'' | अमृतं ब्रह्म'णि |
दिशो' मे श्रोत्रे''
श्रिताः | श्रोत्रग्ं हृद'ये |
हृद'यं मयि'
| अहममृते'' | अमृतं ब्रह्म'णि |
आपोमे रेतसि श्रिताः | रेतो हृद'ये |
हृद'यं मयि'
| अहममृते'' | अमृतं ब्रह्म'णि |
पृथिवी मे शरी'रे श्रिताः |
शरी'रग्ं हृद'ये |
हृद'यं मयि'
| अहममृते'' | अमृतं ब्रह्म'णि |
ओषधि वनस्पतयो' मे लोम'सु श्रिताः |
लोमा'नि हृद'ये |
हृद'यं मयि'
| अहममृते'' | अमृतं ब्रह्म'णि |
इन्द्रो' मे बले''
श्रितः | बलग्ं हृद'ये |
हृद'यं मयि'
| अहममृते'' | अमृतं ब्रह्म'णि |
पर्जन्यो' मे मूर्द्नि श्रितः |
मूर्धा हृद'ये |
हृद'यं मयि'
| अहममृते'' | अमृतं ब्रह्म'णि |
ईशा'नो मे मन्यौ श्रितः |
मन्युर्-हृद'ये |
हृद'यं मयि'
| अहममृते'' | अमृतं ब्रह्म'णि |
आत्मा म' आत्मनि'
श्रितः | आत्मा हृद'ये |
हृद'यं मयि'
| अहममृते'' | अमृतं ब्रह्म'णि |
पुन'र्म आत्मा पुनरायु रागा''त् |
पुनः' प्राणः पुनराकू'तमागा''त् |
वैश्वानरो रश्मिभि'र्-वावृधानः |
अन्तस्ति'ष्ठत्वमृत'स्य गोपाः ||
अस्य श्री रुद्राध्याय प्रश्न
महामन्त्रस्य, अघोर ऋषिः,
अनुष्टुप् चन्दः, सङ्कर्षण मूर्ति स्वरूपो
योऽसावादित्यः परमपुरुषः स एष रुद्रो देवता | नमः शिवायेति बीजं |
शिवतरायेति शक्तिः | महादेवायेति कीलकं |
श्री साम्ब सदाशिव प्रसाद सिद्ध्यर्थे जपे विनियोगः ||
ॐ अग्निहोत्रात्मने
अङ्गुष्ठाभ्यां नमः | दर्शपूर्ण मासात्मने
तर्जनीभ्यां नमः | चातुर्-मास्यात्मने मध्यमाभ्यां
नमः | निरूढ पशुबन्धात्मने अनामिकाभ्यां नमः |
ज्योतिष्टोमात्मने कनिष्ठिकाभ्यां नमः |
सर्वक्रत्वात्मने करतल करपृष्ठाभ्यां नमः ||
अग्निहोत्रात्मने हृदयाय नमः |
दर्शपूर्ण मासात्मने शिरसे स्वाहा |
चातुर्-मास्यात्मने शिखायै वषट् |
निरूढ पशुबन्धात्मने कवचाय हुं |
ज्योतिष्टोमात्मने नेत्रत्रयाय वौषट् |
सर्वक्रत्वात्मने अस्त्रायफट् |
भूर्भुवस्सुवरोमिति दिग्बन्धः ||
ध्यानं%
आपाताल-नभःस्थलान्त-भुवन-ब्रह्माण्ड-माविस्फुरत्-
ज्योतिः
स्फाटिक-लिङ्ग-मौलि-विलसत्-पूर्णेन्दु-वान्तामृतैः |
अस्तोकाप्लुत-मेक-मीश-मनिशं
रुद्रानु-वाकाञ्जपन्
ध्याये-दीप्सित-सिद्धये
ध्रुवपदं विप्रोऽभिषिञ्चे-च्चिवम् ||
ब्रह्माण्ड व्याप्तदेहा भसित
हिमरुचा भासमाना भुजङ्गैः
कण्ठे कालाः कपर्दाः
कलित-शशिकला-श्चण्ड कोदण्ड हस्ताः |
त्र्यक्षा रुद्राक्षमालाः
प्रकटितविभवाः शाम्भवा मूर्तिभेदाः
रुद्राः
श्रीरुद्रसूक्त-प्रकटितविभवा नः प्रयच्चन्तु सौख्यम् ||
ॐ गणाना''म् त्वा गणप'तिग्^म् हवामहे कविं क'वीनामु'पमश्र'वस्तमं |
ज्येष्ठराजं ब्रह्म'णां ब्रह्मणस्पद आ नः'
शृण्वन्नूतिभि'स्सीद साद'नं ||
महागणपतये नमः ||
शं च'
मे मय'श्च मे प्रियं च'
मेऽनुकामश्च' मे काम'श्च मे सौमनसश्च'
मे भद्रं च' मे श्रेय'श्च मे वस्य'श्च मे यश'श्च मे भग'श्च मे द्रवि'णं च मे यन्ता च'
मे धर्ता च' मे क्षेम'श्च मे धृति'श्च मे विश्वं'
च मे मह'श्च मे संविच्च'
मे ज्ञात्रं' च मे सूश्च'
मे प्रसूश्च' मे सीरं'
च मे लयश्च' म ऋतं च'
मेऽमृतं' च मेऽयक्ष्मं च मेऽना'मयच्च मे जीवातु'श्च मे दीर्घायुत्वं च'
मेऽनमित्रं च मेऽभ'यं च मे सुगं च'
मे शय'नं च मे सूषा च'
मे सुदिनं' च मे ||
ॐ शांतिः शांतिः शान्तिः'
||
No comments:
Post a Comment
please do not enter any spam link