Total Pageviews

Search

Showing posts with label PATANJALI. Show all posts
Showing posts with label PATANJALI. Show all posts

पतञ्जलि योग ( कैवल्य पद ) PATANJALI YOGA (KAIVALYA PADA)




पतञ्जलि  योग ( कैवल्य  पद  )  PATANJALI YOGA  (KAIVALYA PADA)



अथ कैवल्यपादः |

जन्मौषधिमन्त्रतपस्समाधिजाः सिद्धयः ||1||

जात्यन्तरपरिणामः प्रकृत्यापूरात् ||2||

निमित्तमप्रयोजकं प्रकृतीनांवरणभेदस्तु ततः क्षेत्रिकवत् ||3||

निर्माणचित्तान्यस्मितामात्रात् ||4||

प्रवृत्तिभेदे प्रयोजकं चित्तमेकमनेकेषाम् ||5||

तत्र ध्यानजमनाशयम् ||6||

कर्माशुक्लाकृष्णं योगिनः त्रिविधमितरेषाम् ||7||

ततः तद्विपाकानुग्णानामेवाभिव्यक्तिः वासनानाम् ||8||

जाति देश काल व्यवहितानामप्यान्तर्यां स्मृतिसंस्कारयोः एकरूपत्वात् ||9||

तासामनादित्वं चाशिषो नित्यत्वात् ||10||

हेतुफलाश्रयालम्बनैःसङ्गृहीतत्वातेषामभावेतदभावः ||11||

अतीतानागतं स्वरूपतोऽस्त्यध्वभेदाद्धर्माणाम् ||12||

ते व्यक्तसूक्ष्माः गुणात्मानः ||13||

परिणामैकत्वात् वस्तुतत्त्वम् ||14||

वस्तुसाम्ये चित्तभेदात्तयोर्विभक्तः पन्थाः ||15||

न चैकचित्ततन्त्रं चेद्वस्तु तदप्रमाणकं तदा किं स्यात् ||16||

तदुपरागापेक्षित्वात् चित्तस्य वस्तुज्ञाताज्ञातं ||17||

सदाज्ञाताः चित्तव्र्त्तयः तत्प्रभोः पुरुषस्यापरिणामित्वात् ||18||

न तत्स्वाभासं दृश्यत्वात् ||19||

एक समये चोभयानवधारणम् ||20||

चित्तान्तर दृश्ये बुद्धिबुद्धेः अतिप्रसङ्गः स्मृतिसङ्करश्च ||21||

चितेरप्रतिसङ्क्रमायाः तदाकारापत्तौ स्वबुद्धि संवेदनम् ||22||

द्रष्टृदृश्योपरक्तं चित्तं सर्वार्थम् ||23||

तदसङ्ख्येय वासनाभिः चित्रमपि परार्थम् संहत्यकारित्वात् ||24||

विशेषदर्शिनः आत्मभावभावनानिवृत्तिः ||25||

तदा विवेकनिम्नं कैवल्यप्राग्भारं चित्तम् ||26||

तच्छिद्रेषु प्रत्ययान्तराणि संस्कारेभ्यः ||27||

हानमेषां क्लेशवदुक्तम् ||28||

प्रसङ्ख्यानेऽप्यकुसीदस्य सर्वथा विवेकख्यातेः धर्ममेघस्समाधिः ||29||

ततः क्लेशकर्मनिवृत्तिः ||30||

तदा सर्वावरणमलापेतस्य ज्ञानस्यानन्त्यात् ज्ञेयमल्पम् ||31||

ततः कृतार्थानं परिणामक्रमसमाप्तिर्गुणानाम् ||32||

क्षणप्रतियोगी परिणामापरान्त निर्ग्राह्यः क्रमः ||33||

पुरुषार्थशून्यानां गुणानाम्प्रतिप्रसवः कैवल्यं स्वरूपप्रतिष्ठा वा चितिशक्तिरिति ||34||

इति पातञ्जलयोगदर्शने कैवल्यपादो नाम चतुर्थः पादः |

पतञ्जलि योग ( विभूति पद ) PATANJALI YOGA (VIBHUTI PADA)



पतञ्जलि  योग ( विभूति  पद  )  PATANJALI YOGA  (VIBHUTI PADA)




श्रीपातञ्जलयोगदर्शनम् |

अथ विभूतिपादः |

देशबन्धश्चित्तस्य धारणा ||1||

तत्र प्रत्ययैकतानता ध्यानम् ||2||

तदेवार्थमात्रनिर्भासं स्वरूपशून्यमिव समाधिः ||3||

त्रयमेकत्र संयमः ||4||

तज्जयात् प्रज्ञालोकः ||5||

तस्य भूमिषु विनियोगः ||6||

त्रयमन्तरङ्गं पूर्वेभ्यः ||7||

तदपि बहिरङ्गं निर्बीजस्य ||8||

व्युत्थाननिरोधसंस्कारयोरभिभवप्रादुर्भावौ निरोधक्षणचित्तान्वयो निरोधपरिणामः ||9||

तस्य प्रशान्तवाहिता संस्कारात् ||10||

सर्वार्थतैकाग्रातयोः क्षयोदयौ चित्तस्य समाधिपरिणामः ||11||

ततः पुनः शान्तोदितौ तुल्यप्रत्ययौ चित्तस्यैकाग्रता परिणामः ||12||

एतेन भूतेन्द्रियेषु धर्मलक्षणावस्थापरिणामा व्याख्याताः ||13||

शान्तोदिताव्यपदेश्यधर्मानुपाती धर्मी ||14||

क्रमान्यत्वं परिणामान्यत्वे हेतुः ||15||

परिणामत्रयसंयमादतीतानागतज्ञानम् ||16||

शब्दार्थप्रत्ययानामितरेतराध्यासात् सङ्करस्तत्प्रविभागसंयमात् सर्वभूतरुतज्ञानम् ||17||

संस्कारसाक्षात्करणात् पूर्वजातिज्ञानम् ||18||

प्रत्ययस्य परचित्तज्ञानम् ||19||

न च तत् सालम्बनं तस्याविषयीभूतत्वात् ||20||

कायरूपसंयमात् तद्ग्राह्यशक्तिस्तम्भे चक्षुः प्रकाशासम्प्रयोगेऽन्तर्धानम् ||21||

सोपक्रमं निरुपक्रमं च कर्म तत्संयमादपरान्तज्ञानमरिष्टेभ्यो वा ||22||

मैत्र्यादिषु बलानि ||23||

बलेषु हस्तिबलादीनी ||24||

प्रवृत्त्यालोकन्यासात् सूक्ष्मव्यवहितविप्रकृष्टज्ञानम् ||25||

भुवनज्ञानं सूर्ये संयमात् ||26||

चन्द्रे ताराव्यूहज्ञानम् ||27||

ध्रुवे तद्गतिज्ञानम् ||28||

नाभिचक्रे कायव्यूहज्ञानम् ||29||

कण्ठकूपे क्षुत्पिपासानिवृत्तिः ||30||

कूर्मनाड्यां स्थैर्यम् ||31||

मूर्धज्योतिषि सिद्धदर्शनम् ||32||

प्रातिभाद्वा सर्वम् ||33||

हृदये चित्तसंवित् ||34||

सत्त्वपुरुषयोरत्यन्तासङ्कीर्णयोः प्रत्ययाविशेषो भोगः परार्थत्वात् स्वार्थसंयमात् पुरुषज्ञानम् ||35||

ततः प्रातिभश्रावणवेदनादर्शास्वादवार्ता जायन्ते ||36||

ते समाधावुपसर्गाव्युत्थाने सिद्धयः ||37||

बन्धकारणशैथिल्यात् प्रचारसंवेदनाच्च चित्तस्य परशरीरावेशः ||38||

उदानजयाज्जलपङ्ककण्टकादिष्वसङ्ग उत्क्रान्तिश्च ||39||

समानजयाज्ज्वलनम् ||40||

श्रोत्राकाशयोः सम्बन्धसंयमात् दिव्यं श्रोत्रम् ||41||

कायाकाशयोः सम्बन्धसंयमात् लघुतूलसमापत्तेश्च आकाशगमनम् ||42||

बहिरकल्पिता वृत्तिर्महाविदेहा ततः प्रकाशावरणक्षयः ||43||

स्थूलस्वरूपसूक्ष्मान्वयार्थवत्त्वसंयमात् भूतजयः ||44||

ततोऽणिमादिप्रादुर्भावः कायसम्पत् तद्धर्मानभिघातश्च ||45||

रूपलावण्यबलवज्रसंहननत्वानि कायसम्पत् ||46||

ग्रहणस्वरूपास्मितान्वयार्थवत्त्वसंयमादिन्द्रियजयः ||47||

ततो मनोजवित्वं विकरणभावः प्रधानजयश्च ||48||

सत्त्वपुरुषान्यताख्यातिमात्रस्य सर्वभावाधिष्ठातृत्वं सर्वज्ञातृत्वञ्च ||49||

तद्वैराग्यादपि दोषबीजक्षये कैवल्यम् ||50||

स्थान्युपनिमन्त्रणे सङ्गस्मयाकरणं पुनरनिष्टप्रसङ्गात् ||51||

क्षणतत्क्रमयोः संयमाद्विवेकजं ज्ञानम् ||52||

जातिलक्षणदेशैरन्यतानवच्छेदात् तुल्ययोस्ततः प्रतिपत्तिः ||53||

तारकं सर्वविषयं सर्वथाविषयमक्रमं चेति विवेकजं ज्ञानम् ||54||

सत्त्वपुरुषयोः शुद्धिसाम्ये कैवल्यम् ||55||

इति श्रीपातञ्जलयोगदर्शने विभूतिपादो नाम तृतीयः पादः |

पतञ्जलि योग ( साधन पद ) PATANJALI YOGA (SADHANA PADA)



पतञ्जलि  योग ( साधन पद )  PATANJALI YOGA  (SADHANA PADA)



अथ साधनपादः |

तपः स्वाध्यायेश्वरप्रणिधानानि क्रियायोगः ||1||

समाधिभावनार्थः क्लेशतनूकरणार्थश्च ||2||

अविद्यास्मितारागद्वेषाभिनिवेशाः क्लेशाः ||3||

अविद्या क्षेत्रमुत्तरेषां प्रसुप्ततनुविच्छिन्नोदाराणाम् ||4||

अनित्याशुचिदुःखानात्मसु नित्यशुचिसुखात्मख्यातिरविद्या ||5||

दृग्दर्शनशक्त्योरेकात्मतेवास्मिता ||6||

सुखानुशयी रागः ||7||

दुःखानुशयी द्वेषः ||8||

स्वरसवाही विदुषोऽपि तथारूढोऽभिनिवेशः ||9||

ते प्रतिप्रसवहेयाः सूक्ष्माः ||10||

ध्यानहेयास्तद्वृत्तयः ||11||

क्लेशमूलः कर्माशयो दृष्टादृष्टजन्मवेदनीयः ||12||

सति मूले तद् विपाको जात्यायुर्भोगाः ||13||

ते ह्लादपरितापफलाः पुण्यापुण्यहेतुत्वात् ||14||

परिणामतापसंस्कारदुःखैर्गुणवृत्तिविरोधाच्च दुःखमेव सर्वं विवेकिनः ||15||

हेयं दुःखमनागतम् ||16||

द्रष्ट्टदृश्ययोः संयोगो हेयहेतुः||17||

प्रकाशक्रियास्थितिशीलं भूतेन्द्रियात्मकं भोगापवर्गार्थं दृश्यम् ||18||

विशेषाविशेषलिङ्गमात्रालिङ्गानि गुणपर्वाणि ||19||

द्रष्टा दृशिमात्रः शुद्धोऽपि प्रत्ययानुपश्यः ||20||

तदर्थ एव दृश्यस्यात्मा ||21||

कृतार्थं प्रति नष्टमप्यनष्टं तदन्यसाधारणत्वात् ||22||

स्वस्वामिशक्त्योः स्वरूपोपलब्धिहेतुः संयोगः ||23||

तस्य हेतुरविद्या ||24||

तदभावात्संयोगाभावो हानं तद् दृशेः कैवल्यम् ||25||

विवेकख्यातिरविप्लवा हानोपायः ||26||

तस्य सप्तधा प्रान्तभूमिः प्रज्ञा ||27||

योगाङ्गानुष्ठानादशुद्धिक्षये ज्ञानदीप्तिराविवेकख्यातेः ||28||

यमनियमासनप्राणायामप्रत्याहारधारणाध्यानसमाधयोष्टावङ्गानि ||29||

अहिंसासत्यास्तेयब्रह्मचर्यापरिग्रहा यमाः ||30||

जातिदेशकालसमयानवच्छिनाः सार्वभौमा महाव्रतम् ||31||

शौचसन्तोषतपः स्वाध्यायेश्वरप्रणिधानानि नियमाः ||32||

वितर्कबाधने प्रतिपक्षभावनम् ||33||

वितर्काहिंसादयः कृतकारितानुमोदिता लोभक्रोधमोहपूर्वका मृदुमध्याधिमात्रा दुःखाज्ञानानन्तफला इति प्रतिपक्षभावनम् ||34||

अहिंसाप्रतिष्ठायां तत्सन्निधौ वैरत्यागः ||35||

सत्यप्रतिष्ठायां क्रियाफलाश्रयत्वम् ||36||

अस्तेयप्रतिष्ठायां सर्वरत्नोपस्थानम् ||37||

ब्रह्मचर्यप्रतिष्ठायां वीर्यलाभः ||38||

अपरिग्रहस्थैर्ये जन्मकथन्तासम्बोधः ||39||

शौचात्स्वाङ्गजुगुप्सा परैरसंसर्गः ||40||

सत्त्वशुद्धिसौमनस्यैकाग्र्येन्द्रियजयात्मदर्शनयोग्यत्वानि च ||41||

सन्तोषात् अनुत्तमःसुखलाभः ||42||

कायेन्द्रियसिद्धिरशुद्धिक्षयात् तपसः ||43||

स्वाध्यायादिष्टदेवतासम्प्रयोगः ||44||

समाधिसिद्धिरीश्वरप्रणिधानात् ||45||

स्थिरसुखमासनम् ||46||

प्रयत्नशैथिल्यानन्तसमापत्तिभ्याम् ||47||

ततो द्वन्द्वानभिघातः ||48||

तस्मिन् सति श्वासप्रश्वासयोर्गतिविच्छेदः प्राणायामः ||49||

(स तु) बाह्याभ्यन्तरस्तम्भवृत्तिर्देशकालसङ्ख्याभिः परिदृष्टो दीर्घसूक्ष्मः ||50||

बाह्याभ्यन्तरविषयाक्षेपी चतुर्थः ||51||

ततः क्षीयते प्रकाशावरणम् ||52||

धारणासु च योग्यता मनसः ||53||

स्वविषयासम्प्रयोगे चित्तस्वरूपानुकार इवेन्द्रियाणां प्रत्याहारः ||54||

ततः परमावश्यतेन्द्रियाणाम् ||55||

इति पातञ्जलयोगदर्शने साधनपादो नाम द्वितीयः पादः |

पतञ्जलि योग (समाधि पद ) PATANJALI YOGA (SAMADHI PADA)




पतञ्जलि  योग (समाधि   पद )  PATANJALI YOGA  (SAMADHI PADA)



अथ समाधिपादः |

अथ योगानुशासनम् || 1 ||

योगश्चित्तवृत्ति निरोधः || 2 ||

तदा द्रष्टुः स्वरूपेऽवस्थानम् || 3 ||

वृत्ति सारूप्यमितरत्र || 4 ||

वृत्तयः पञ्चतस्यः क्लिष्टाऽक्लिष्टाः || 5 ||

प्रमाण विपर्यय विकल्प निद्रा स्मृतयः || 6 ||

प्रत्यक्षानुमानागमाः प्रमाणानि || 7 ||

विपर्ययो मिथ्याज्ञानमतद्रूप प्रतिष्टम् || 8 ||

शब्दज्ञानानुपाती वस्तुशून्यो विकल्पः || 9 ||

अभाव प्रत्ययालम्बना वृत्तिर्निद्रा || 10 ||

अनभूत विषयासम्प्रमोषः स्मृतिः || 11 ||

अभ्यास वैराग्याभ्यां तन्निरोधः || 12 ||

तत्र स्थितौ यत्नोऽभ्यासः || 13 ||

स तु दीर्घकाल नैरन्तर्य सक्तारासेवितो दृढभूमिः || 14 ||

दृष्टानुश्रविक विषय वितृष्णस्य वशीकारसञ्ज्ञा वैराग्यम् || 15 ||

तत्परं पुरुषख्याते-र्गुणवैतृष्णाम् || 16 ||

वितर्क विचारानन्दास्मितारूपानुगमात् सम्प्रज्ञातः || 17 ||

विरामप्रत्ययाभ्यासपूर्वः संस्कारशेषोऽनयः || 18 ||

भवप्रत्ययो विदेहप्रकृतिलयानाम् || 19 ||

श्रद्धा वीर्य स्मृति समाधिप्रज्ञा पूर्वकः इतरेषाम् || 20 ||

तीव्रसंवेगानामासन्नः || 21 ||

मृदुमध्याधिमात्रत्वात्ततोऽपि विशेषः || 22 ||

ईश्वरप्रणिधानाद्वा || 23 ||

क्लेश कर्म विपाकाशयैरपरामृष्टः पुरुषविशेष ईश्वरः || 24 ||

तत्र निरतिशयं सर्वज्ञवीजम् || 25 ||

स एषः पूर्वेषामपि गुरुः कालेनानवच्छेदात् || 26 ||

तस्य वाचकः प्रणवः || 27 ||

तज्जपस्तदर्थभावनम् || 28 ||

ततः प्रत्यक्चेतनाधिगमोऽप्यन्तरायाभावश्च || 29 ||

व्याधि स्त्यान संशय प्रमादालस्याविरति भ्रान्ति
दर्शनालब्धूमिकत्वानवस्थितत्वानि चित्तविक्षेपस्तेऽन्तरायाः || 30 ||

दुःख दौर्म्मनरस्याङ्गमेजयत्व श्वासप्रश्वासा विक्षेपसहभुवः || 31 ||

तत्प्रतिषेधार्थमेकतत्त्वाभ्यासः || 32 ||

मैत्री करुणा मुदितोपेक्षाणां सुख दुःखा पुण्यापुण्य विषयाणाम्-भावनातश्चित्तप्रसादनम् || 33 ||

प्रच्छर्दृन विधारणाभ्यां वा प्रणस्य || 34 ||

विषयवती वा प्रवृत्तिरूत्पन्ना मनसः स्थिति निबन्धनी || 35 ||

विशोका वा ज्योतिष्मती || 36 ||

वीतराग विषयं वा चित्तम् || 37 ||

स्वप्न निद्रा ज्ञानालम्बनं वा || 38 ||

यथाभिमतध्यानाद्वा || 39 ||

परमाणु परम महत्त्वान्तोऽस्य वशीकारः || 40 ||

क्षीणवृत्तेरभिजातस्येव मणेर्ग्रहीतृर्गयण ग्राह्येषु तत्स्थ तदञ्जनता समापत्तिः || 41 ||

तत्र शब्दार्थ ज्ञान विकल्पैः सङ्कीर्णा सवितर्का समापत्तिः || 42 ||

स्मृति परिशुद्धौ स्वरूप शून्येवार्थ मात्रानिर्भासा निर्वितर्का || 43 ||

एतयैव सविचारा निर्विचार च सूक्ष्मविषया व्यारख्याता || 44 ||

सूक्ष्म विषयत्वं चालिङ्गपर्यवसानम् || 45 ||

ता एव सवीजः समाधिः || 46 ||

निर्विचार वैशाराध्येऽध्यात्मप्रसादः || 47 ||

ऋतम्भरा तत्र प्रज्ञा || 48 ||

श्रुतानुमान प्रज्ञाभ्यामन्यविषया विशेषार्थत्वात् || 49 ||

तज्जः संस्कारोऽन्यसंस्कार प्रतिबन्धी || 50 ||

तस्यापि निरोधे सर्वनिरोधान्निर्वाजस्समाधिः || 51 ||

इति पातञ्जलयोगदर्शने समाधिपादो नाम प्रथमः पादः |

POPULAR POST