Total Pageviews

Search

Showing posts with label VISHNU. Show all posts
Showing posts with label VISHNU. Show all posts

ॐ जय जगदीश हरे OM JAYA JAGDISH HARE



ॐ  जय  जगदीश  हरे  OM JAYA JAGDISH HARE




ॐ जय जगदीश हरे
स्वामी जय जगदीश हरे
भक्त जनों के सङ्कट,
दास जनों के सङ्कट,
क्षण में दूर करे,
ॐ जय जगदीश हरे || 1 ||

जो ध्यावे फल पावे,
दुख बिनसे मन का
स्वामी दुख बिनसे मन का
सुख सम्मति घर आवे,
सुख सम्मति घर आवे,
कष्ट मिटे तन का
ॐ जय जगदीश हरे || 2 ||

मात पिता तुम मेरे,
शरण गहूं मैं किसकी
स्वामी शरण गहूं मैं किसकी ।
तुम बिन और न दूजा,
तुम बिन और न दूजा,
आस करूं मैं जिसकी
ॐ जय जगदीश हरे || 3 ||

तुम पूरण परमात्मा,
तुम अन्तरयामी
स्वामी तुम अन्तरयामी
पराब्रह्म परमेश्वर,
पराब्रह्म परमेश्वर,
तुम सब के स्वामी
ॐ जय जगदीश हरे || 4 ||

तुम करुणा के सागर,
तुम पालनकर्ता
स्वामी तुम पालनकर्ता,
मैं मूरख खल कामी
मैं सेवक तुम स्वामी,
कृपा करो भर्तार
ॐ जय जगदीश हरे || 5 ||

तुम हो एक अगोचर,
सबके प्राणपति,
स्वामी सबके प्राणपति,
किस विध मिलूं दयामय,
किस विध मिलूं दयामय,
तुमको मैं कुमति
ॐ जय जगदीश हरे || 6 ||

दीनबन्धु दुखहर्ता,
ठाकुर तुम मेरे,
स्वामी तुम रमेरे
अपने हाथ उठावो,
अपनी शरण लगावो
द्वार पड्क्षा तेरे
ॐ जय जगदीश हरे || 7 ||

विषय विकार मिटावो,
पाप हरो देवा,
स्वामी पाप हरो देवा,
श्रद्धा भक्ति बढावो,
श्रद्धा भक्ति बढावो,
सन्तन की सेवा
ॐ जय जगदीश हरे || 8 ||

बल मुकुन्दाष्टकं BALA MUKUNDAASHTAKAM



बल  मुकुन्दाष्टकं
BALA MUKUNDAASHTAKAM
बल  मुकुन्दाष्टकं  BALA MUKUNDAASHTAKAM

बल  मुकुन्दाष्टकं

BALA MUKUNDAASHTAKAM



करारविन्देन पदारविन्दं मुखारविन्दे विनिवेशयन्तम् |
वटस्य पत्रस्य पुटे शयानं बालं मुकुन्दं मनसा स्मरामि || 1 ||

संहृत्य लोकान्वटपत्रमध्ये शयानमाद्यन्तविहीनरूपम् |
सर्वेश्वरं सर्वहितावतारं बालं मुकुन्दं मनसा स्मरामि || 2 ||

इन्दीवरश्यामलकोमलाङ्गं इन्द्रादिदेवार्चितपादपद्मम् |
सन्तानकल्पद्रुममाश्रितानां बालं मुकुन्दं मनसा स्मरामि || 3 ||

लम्बालकं लम्बितहारयष्टिं शृङ्गारलीलाङ्कितदन्तपङ्क्तिम् |
बिम्बाधरं चारुविशालनेत्रं बालं मुकुन्दं मनसा स्मरामि || 4 ||

शिक्ये निधायाद्यपयोदधीनि बहिर्गतायां व्रजनायिकायाम् |
भुक्त्वा यथेष्टं कपटेन सुप्तं बालं मुकुन्दं मनसा स्मरामि || 5 ||

कलिन्दजान्तस्थितकालियस्य फणाग्ररङ्गेनटनप्रियन्तम् |
तत्पुच्छहस्तं शरदिन्दुवक्त्रं बालं मुकुन्दं मनसा स्मरामि || 6 ||

उलूखले बद्धमुदारशौर्यं उत्तुङ्गयुग्मार्जुन भङ्गलीलम् |
उत्फुल्लपद्मायत चारुनेत्रं बालं मुकुन्दं मनसा स्मरामि || 7 ||

आलोक्य मातुर्मुखमादरेण स्तन्यं पिबन्तं सरसीरुहाक्षम् |
सच्चिन्मयं देवमनन्तरूपं बालं मुकुन्दं मनसा स्मरामि || 8 ||

अच्युताष्टकं ACHYUTAASHTAKAM


अच्युताष्टकं
ACHYUTAASHTAKAM

अच्युताष्टकं  ACHYUTAASHTAKAM

अच्युताष्टकं

ACHYUTAASHTAKAM


अच्युतं केशवं रामनारायणं
कृष्णदामोदरं वासुदेवं हरिम् |
श्रीधरं माधवं गोपिका वल्लभं
जानकीनायकं रामचन्द्रं भजे || 1 ||

अच्युतं केशवं सत्यभामाधवं
माधवं श्रीधरं राधिका राधितम् |
इन्दिरामन्दिरं चेतसा सुन्दरं
देवकीनन्दनं नन्दजं सन्दधे || 2 ||

विष्णवे जिष्णवे शङ्कने चक्रिणे
रुक्मिणी राहिणे जानकी जानये |
वल्लवी वल्लभायार्चिता यात्मने
कंस विध्वंसिने वंशिने ते नमः || 3 ||

कृष्ण गोविन्द हे राम नारायण
श्रीपते वासुदेवाजित श्रीनिधे |
अच्युतानन्त हे माधवाधोक्षज
द्वारकानायक द्रौपदीरक्षक || 4 ||

राक्षस क्षोभितः सीतया शोभितो
दण्डकारण्यभू पुण्यताकारणः |
लक्ष्मणोनान्वितो वानरैः सेवितो
अगस्त्य सम्पूजितो राघवः पातु माम् || 5 ||

धेनुकारिष्टकाऽनिष्टिकृद्-द्वेषिहा
केशिहा कंसहृद्-वंशिकावादकः |
पूतनाकोपकः सूरजाखेलनो
बालहोपालकः पातु मां सर्वदा || 6 ||

बिद्युदुद्-योतवत्-प्रस्फुरद्-वाससं
प्रावृडम्-भोदवत्-प्रोल्लसद्-विग्रहम् |
वान्यया मालया शोभितोरः स्थलं
लोहिताङ्-घिद्वयं वारिजाक्षं भजे || 7 ||

कुञ्चितैः कुन्तलै भ्राजमानाननं
रत्नमौलिं लसत्-कुण्डलं गण्डयोः |
हारकेयूरकं कङ्कण प्रोज्ज्वलं
किङ्किणी मञ्जुलं श्यामलं तं भजे || 8 ||

अच्युतस्याष्टकं यः पठेदिष्टदं
प्रेमतः प्रत्यहं पूरुषः सस्पृहम् |
वृत्ततः सुन्दरं कर्तृ विश्वम्भरः
तस्य वश्यो हरि र्जायते सत्वरम् ||

वेन्कतेस्वर अष्टोत्तर सत नामावल VENKATESWARA ASHTOTTARA SATA NAMAVAL


वेन्कतेस्वर  अष्टोत्तर  सत  नामावल
VENKATESWARA ASHTOTTARA SATA NAMAVAL

वेन्कतेस्वर  अष्टोत्तर  सत  नामावल  VENKATESWARA ASHTOTTARA SATA NAMAVAL

वेन्कतेस्वर  अष्टोत्तर  सत  नामावल

VENKATESWARA ASHTOTTARA SATA NAMAVAL


ॐ श्री वेङ्कटेशाय नमः
ॐ श्रीनिवासाय नमः
ॐ लक्ष्मिपतये नमः
ॐ अनानुयाय नमः
ॐ अमृतांशने नमः
ॐ माधवाय नमः
ॐ कृष्णाय नमः
ॐ श्रीहरये नमः
ॐ ज्ञानपञ्जराय नमः
ॐ श्रीवत्स वक्षसे नमः
ॐ जगद्वन्द्याय नमः
ॐ गोविन्दाय नमः
ॐ शाश्वताय नमः
ॐ प्रभवे नमः
ॐ शेशाद्रिनिलायाय नमः
ॐ देवाय नमः
ॐ केशवाय नमः
ॐ मधुसूदनाय नमः
ॐ अमृताय नमः
ॐ विष्णवे नमः
ॐ अच्युताय नमः
ॐ पद्मिनीप्रियाय नमः
ॐ सर्वेशाय नमः
ॐ गोपालाय नमः
ॐ पुरुषोत्तमाय नमः
ॐ गोपीश्वराय नमः
ॐ परञ्ज्योतिषे नमः
ॐ व्तॆकुण्ठ पतये नमः
ॐ अव्ययाय नमः
ॐ सुधातनवे नमः
ॐ याद वेन्द्राय नमः
ॐ नित्य यौवनरूपवते नमः
ॐ निरञ्जनाय नमः
ॐ विराभासाय नमः
ॐ नित्य तृप्त्ताय नमः
ॐ धरापतये नमः
ॐ सुरपतये नमः
ॐ निर्मलाय नमः
ॐ देवपूजिताय नमः
ॐ चतुर्भुजाय नमः
ॐ चक्रधराय नमः
ॐ चतुर्वेदात्मकाय नमः
ॐ त्रिधाम्ने नमः
ॐ त्रिगुणाश्रयाय नमः
ॐ निर्विकल्पाय नमः
ॐ निष्कलङ्काय नमः
ॐ निरान्तकाय नमः
ॐ आर्तलोकाभयप्रदाय नमः
ॐ निरुप्रदवाय नमः
ॐ निर्गुणाय नमः
ॐ गदाधराय नमः
ॐ शार्ञ्ङपाणये नमः
ॐ नन्दकिनी नमः
ॐ शङ्खदारकाय नमः
ॐ अनेकमूर्तये नमः
ॐ अव्यक्ताय नमः
ॐ कटिहस्ताय नमः
ॐ वरप्रदाय नमः
ॐ अनेकात्मने नमः
ॐ दीनबन्धवे नमः
ॐ जगद्व्यापिने नमः
ॐ आकाशराजवरदाय नमः
ॐ योगिहृत्पद्शमन्दिराय नमः
ॐ दामोदराय नमः
ॐ जगत्पालाय नमः
ॐ पापघ्नाय नमः
ॐ भक्तवत्सलाय नमः
ॐ त्रिविक्रमाय नमः
ॐ शिंशुमाराय नमः
ॐ जटामकुट शोभिताय नमः
ॐ शङ्ख मद्योल्ल सन्मञ्जु किङ्किण्याढ्य नमः
ॐ कारुण्डकाय नमः
ॐ नीलमोघश्याम तनवे नमः
ॐ बिल्वपत्त्रार्चन प्रियाय नमः
ॐ जगत्कर्त्रे नमः
ॐ जगत्साक्षिणे नमः
ॐ जगत्पतये नमः
ॐ चिन्तितार्ध प्रदायकाय नमः
ॐ जिष्णवे नमः
ॐ दाशार्हाय नमः
ॐ दशरूपवते नमः
ॐ देवकी नन्दनाय नमः
ॐ शौरये नमः
ॐ हयरीवाय नमः
ॐ जनार्धनाय नमः
ॐ कन्याश्रणतारेज्याय नमः
ॐ पीताम्बरधराय नमः
ॐ अनघाय नमः
ॐ वनमालिने नमः
ॐ पद्मनाभाय नमः
ॐ मृगयासक्त मानसाय नमः
ॐ अश्वरूढाय नमः
ॐ खड्गधारिणे नमः
ॐ धनार्जन समुत्सुकाय नमः
ॐ घनतारल सन्मध्यकस्तूरी तिलकोज्ज्वलाय नमः
ॐ सच्चितानन्दरूपाय नमः
ॐ जगन्मङ्गल दायकाय नमः
ॐ यज्ञभोक्रे नमः
ॐ चिन्मयाय नमः
ॐ परमेश्वराय नमः
ॐ परमार्धप्रदायकाय नमः
ॐ शान्ताय नमः
ॐ श्रीमते नमः
ॐ दोर्दण्ड विक्रमाय नमः
ॐ परब्रह्मणे नमः
ॐ श्रीविभवे नमः
ॐ जगदीश्वराय नमः
ॐ आलिवेलु मङ्गा सहित वेङ्कटेश्वराय नमः

कृष्ण अष्टकं KRISHNA ASHTAKAM


कृष्ण  अष्टकं
KRISHNA ASHTAKAM
कृष्ण  अष्टकं  KRISHNA ASHTAKAM

कृष्ण  अष्टकं

KRISHNA ASHTAKAM


वसुदेव सुतं देवं कंस चाणूर मर्दनम् |
देवकी परमानन्दं कृष्णं वन्दे जगद्गुरुम् ||

अतसी पुष्प सङ्काशं हार नूपुर शोभितम् |
रत्न कङ्कण केयूरं कृष्णं वन्दे जगद्गुरुम् ||

कुटिलालक संयुक्तं पूर्णचन्द्र निभाननम् |
विलसत् कुण्डलधरं कृष्णं वन्दे जगद्गुरम् ||

मन्दार गन्ध संयुक्तं चारुहासं चतुर्भुजम् |
बर्हि पिञ्छाव चूडाङ्गं कृष्णं वन्दे जगद्गुरुम् ||

उत्फुल्ल पद्मपत्राक्षं नील जीमूत सन्निभम् |
यादवानां शिरोरत्नं कृष्णं वन्दे जगद्गुरुम् ||

रुक्मिणी केलि संयुक्तं पीताम्बर सुशोभितम् |
अवाप्त तुलसी गन्धं कृष्णं वन्दे जगद्गुरुम् ||

गोपिकानां कुचद्वन्द कुङ्कुमाङ्कित वक्षसम् |
श्रीनिकेतं महेष्वासं कृष्णं वन्दे जगद्गुरुम् ||

श्रीवत्साङ्कं महोरस्कं वनमाला विराजितम् |
शङ्खचक्र धरं देवं कृष्णं वन्दे जगद्गुरुम् ||

कृष्णाष्टक मिदं पुण्यं प्रातरुत्थाय यः पठेत् |
कोटिजन्म कृतं पापं स्मरणेन विनश्यति ||

मधुराष्टकं MADHURASHTAKAM


मधुराष्टकं
MADHURASHTAKAM
मधुराष्टकं  MADHURASHTAKAM


मधुराष्टकं
MADHURASHTAKAM


अधरं मधुरं वदनं मधुरं
नयनं मधुरं हसितं मधुरम् |
हृदयं मधुरं गमनं मधुरं
मधुराधिपतेरखिलं मधुरम् || 1 ||

वचनं मधुरं चरितं मधुरं
वसनं मधुरं वलितं मधुरं |
चलितं मधुरं भ्रमितं मधुरं
मधुराधिपतेरखिलं मधुरम् || 2 ||

वेणु-र्मधुरो रेणु-र्मधुरः
पाणि-र्मधुरः पादौ मधुरौ |
नृत्यं मधुरं सख्यं मधुरं
मधुराधिपतेरखिलं मधुरम् || 3 ||

गीतं मधुरं पीतं मधुरं
भुक्तं मधुरं सुप्तं मधुरं |
रूपं मधुरं तिलकं मधुरं
मधुराधिपतेरखिलं मधुरम् || 4 ||

करणं मधुरं तरणं मधुरं
हरणं मधुरं स्मरणं मधुरं |
वमितं मधुरं शमितं मधुरं
मधुराधिपतेरखिलं मधुरम् || 5 ||

गुञ्जा मधुरा माला मधुरा
यमुना मधुरा वीची मधुरा |
सलिलं मधुरं कमलं मधुरं
मधुराधिपतेरखिलं मधुरम् || 6 ||

गोपी मधुरा लीला मधुरा
युक्तं मधुरं मुक्तं मधुरं |
दृष्टं मधुरं शिष्टं मधुरं
मधुराधिपतेरखिलं मधुरम् || 7 ||

गोपा मधुरा गावो मधुरा
यष्टि र्मधुरा सृष्टि र्मधुरा |
दलितं मधुरं फलितं मधुरं
मधुराधिपतेरखिलं मधुरम् || 8 ||

|| इति श्रीमद्वल्लभाचार्यविरचितं मधुराष्टकं सम्पूर्णम् ||

POPULAR POST