अखण्डमण्डलाकारं व्याप्तं येन चराचरम् ।
तत्पदं दर्शितं येन तस्मै श्रीगुरुवे नमः ॥२॥
अज्ञानतिमिरान्धस्य ज्ञानाञ्जनशालाकया ।
चक्षुरुन्मीलितं येन तस्मै श्रीगुरुवे नमः ॥३॥
गुरुर्ब्रह्मा गुरुर्विष्णुर्गुरुर्देवो महेश्वरः ।
साक्षात परं ब्रह्म तस्मै श्रीगुरवे नमः ॥
स्थावरं जङ्गमं व्याप्तं यत्किनचित्स चराचरम् ।
तत्पदं दर्शितं येन तस्मै श्रीगुरुवे नमः ॥४॥
नित्यानदं व्यापि यत्सर्वं त्रैलोक्यं सचराचरम् ।
तत्पदं दर्शितं येन तस्मै श्रीगुरुवे नमः ॥५॥
सर्वश्रुतिशिरोरत्न विराजित पदांबुजः ।
वेदान्ताम्बूजसूर्याय तस्मै श्रीगुरुवे नमः ॥६॥
चैतन्यः शाश्वतः शान्तो व्योमातीतो निरञ्जनः ।
नादबिन्दूकलातीत तस्मै श्रीगुरुवे नमः ॥७॥
ज्ञानशक्तिसमारूढ तत्त्वमालाविभूषितः ।
भुक्तिमुक्तिप्रदाता च तस्मै श्रीगुरुवे नमः ॥८॥
अनेकजन्मसम्प्राप्त कर्मबन्दन विदाहिने ।
आत्मञ्जानाग्निदानेन तस्मै श्रीगुरुवे नमः ॥९॥
शोषणं भवसिन्धोश्च ज्ञापणं सारसम्पदः ।
गुरु पादोदकं सम्यक् तस्मै श्रीगुरुवे नमः ॥१०॥
न गुरोरधिकं तत्त्वं न गुरोरधिकं तपः ।
तत्त्व ज्ञानात्परं नास्ति तस्मै श्रीगुरुवे नमः ॥११॥
मन्नाथः श्रीजगन्नाथो मद्गुरुः श्रीजगद्गुरुः ।
ममात्मा सर्वभूतात्मा तस्मै श्रीगुरुवे नमः ॥१२॥
गुरुरादिरनादिश्च गुरुः परमदैवतम् ।
गुरोः परतरं नास्ति तस्मै श्रीगुरुवे नमः ॥१३॥
ब्रह्मानन्दं परमसुखदं केवलं ज्ञानमूर्तिम्
द्वन्द्वातीतं गगनसदृशं तत्त्वमस्यादिलक्ष्यम् ।
एकं नित्यं विमलमचलं सर्वधीसाक्षीभूतम्
भावातीतं त्रिगुणरहितं सद्गुरुं तं नमामि ॥१४॥
नित्यं शुदं निराभासं निराकारं निरञ्जनम्
नित्य बोधं चिदानन्दं गुरुरब्रहमा नमाहमयहम् II II
ध्यानमूलं गुरुरमुर्थि पूजामूलं गुरुरपादं
मन्त्र मूलं गुरुरवाकयं मोकष्मुलं गुरुरकृपाII II
तवमेव माता च पिता तवमेव
तवमेव बन्दुश्च सखा तवमेव
तवमेव विध्या च द्रविणं तवमेव
तवमेव सर्वं मम देवदेव
