देवी महात्म्यं अपराध क्षमापन स्तोत्रं
DEVI MAHATMYAM APARAADHA KSHAMAPANA STOTRAM
देवी महात्म्यं अपराध क्षमापन स्तोत्रं
DEVI MAHATMYAM APARAADHA KSHAMAPANA STOTRAM
अपराधशतं कृत्वा जगदम्बेति चोच्चरेत्|
यां गतिं समवाप्नोति न तां ब्रह्मादयः सुराः ||1||
सापराधोऽस्मि शरणां प्राप्तस्त्वां जगदम्बिके|
इदानीमनुकम्प्योऽहं यथेच्छसि तथा कुरु ||2||
अज्ञानाद्विस्मृतेभ्रान्त्या यन्न्यूनमधिकं कृतं|
तत्सर्व क्षम्यतां देवि प्रसीद परमेश्वरी ||3||
कामेश्वरी जगन्माताः सच्चिदानन्दविग्रहे|
गृहाणार्चामिमां प्रीत्या प्रसीद परमेश्वरी ||4||
सर्वरूपमयी देवी सर्वं देवीमयं जगत्|
अतोऽहं विश्वरूपां त्वां नमामि परमेश्वरीं ||5||
पूर्णं भवतु तत् सर्वं त्वत्प्रसादान्महेश्वरी
यदत्र पाठे जगदम्बिके मया विसर्गबिन्द्वक्षरहीनमीरितम्| ||6||
तदस्तु सम्पूर्णतं प्रसादतः सङ्कल्पसिद्धिश्च सदैव जायतां||7||
भक्त्याभक्त्यानुपूर्वं प्रसभकृतिवशात् व्यक्तमव्यक्तमम्ब ||8||
तत् सर्वं साङ्गमास्तां भगवति त्वत्प्रसादात् प्रसीद ||9||
प्रसादं कुरु मे देवि दुर्गेदेवि नमोऽस्तुते ||10||
||इति अपराध क्षमापण स्तोत्रं समाप्तं||
No comments:
Post a Comment
please do not enter any spam link