प्रातः स्मरामि ललितावदनारविन्दं
बिम्बाधरं पृथुलमौक्तिकशोभिनासम् |
आकर्णदीर्घनयनं
मणिकुण्डलाढ्यं
मन्दस्मितं
मृगमदोज्ज्वलफालदेशम् ||
1 ||
प्रातर्भजामि
ललिताभुजकल्पवल्लीं
रक्ताङ्गुलीयलसदङ्गुलिपल्लवाढ्याम् |
माणिक्यहेमवलयाङ्गदशोभमानां
पुण्ड्रेक्षुचापकुसुमेषुसृणीर्दधानाम् ||
2 ||
प्रातर्नमामि
ललिताचरणारविन्दं
भक्तेष्टदाननिरतं भवसिन्धुपोतम् |
पद्मासनादिसुरनायकपूजनीयं
पद्माङ्कुशध्वजसुदर्शनलाञ्छनाढ्यम् ||
3 ||
प्रातः स्तुवे परशिवां ललितां भवानीं
त्रय्यन्तवेद्यविभवां करुणानवद्याम् |
विश्वस्य सृष्टविलयस्थितिहेतुभूतां
विद्येश्वरीं
निगमवाङ्ममनसातिदूराम् ||
4 ||
प्रातर्वदामि
ललिते तव पुण्यनाम
कामेश्वरीति
कमलेति महेश्वरीति |
श्रीशाम्भवीति
जगतां जननी परेति
वाग्देवतेति
वचसा त्रिपुरेश्वरीति ||
5 ||
यः श्लोकपञ्चकमिदं ललिताम्बिकायाः
सौभाग्यदं सुललितं पठति प्रभाते |
तस्मै ददाति ललिता झटिति प्रसन्ना
विद्यां श्रियं विमलसौख्यमनन्तकीर्तिम् ||
No comments:
Post a Comment
please do not enter any spam link