करारविन्देन
पदारविन्दं मुखारविन्दे विनिवेशयन्तम् |
वटस्य पत्रस्य
पुटे शयानं बालं मुकुन्दं मनसा स्मरामि || 1 ||
संहृत्य
लोकान्वटपत्रमध्ये शयानमाद्यन्तविहीनरूपम् |
सर्वेश्वरं
सर्वहितावतारं बालं मुकुन्दं मनसा स्मरामि || 2 ||
इन्दीवरश्यामलकोमलाङ्गं
इन्द्रादिदेवार्चितपादपद्मम् |
सन्तानकल्पद्रुममाश्रितानां
बालं मुकुन्दं मनसा स्मरामि || 3 ||
लम्बालकं
लम्बितहारयष्टिं शृङ्गारलीलाङ्कितदन्तपङ्क्तिम् |
बिम्बाधरं
चारुविशालनेत्रं बालं मुकुन्दं मनसा स्मरामि || 4 ||
शिक्ये
निधायाद्यपयोदधीनि बहिर्गतायां व्रजनायिकायाम् |
भुक्त्वा
यथेष्टं कपटेन सुप्तं बालं मुकुन्दं मनसा स्मरामि || 5 ||
कलिन्दजान्तस्थितकालियस्य
फणाग्ररङ्गेनटनप्रियन्तम् |
तत्पुच्छहस्तं
शरदिन्दुवक्त्रं बालं मुकुन्दं मनसा स्मरामि || 6 ||
उलूखले
बद्धमुदारशौर्यं उत्तुङ्गयुग्मार्जुन भङ्गलीलम् |
उत्फुल्लपद्मायत
चारुनेत्रं बालं मुकुन्दं मनसा स्मरामि || 7 ||
आलोक्य
मातुर्मुखमादरेण स्तन्यं पिबन्तं सरसीरुहाक्षम् |
सच्चिन्मयं
देवमनन्तरूपं बालं मुकुन्दं मनसा स्मरामि || 8 ||
No comments:
Post a Comment
please do not enter any spam link