शुक्लाम्बरधरं
विष्णुं शशिवर्णं चतुर्भुजं |
प्रसन्नवदनं
ध्यायेत्सर्वविघ्नोपशान्तयेः || 1 ||
अभीप्सितार्थ
सिध्यर्थं पूजितो यः सुरासुरैः |
सर्वविघ्नहरस्तस्मै
गणाधिपतये नमः || 2 ||
गणानामधिपश्चण्डो
गजवक्त्रस्त्रिलोचनः |
प्रसन्नो भव मे
नित्यं वरदातर्विनायक || 3 ||
सुमुखश्चैकदन्तश्च
कपिलो गजकर्णकः |
लम्बोदरश्च
विकटो विघ्ननाशो विनायकः || 4 ||
धूम्रकेतुर्गणाध्यक्षो
फालचन्द्रो गजाननः |
द्वादशैतानि
नामानि गणेशस्य तु यः पठेत् || 5 ||
विद्यार्थी लभते
विद्यां धनार्थी विपुलं धनम् |
इष्टकामं तु
कामार्थी धर्मार्थी मोक्षमक्षयम् || 6 ||
विध्यारम्भे
विवाहे च प्रवेशे निर्गमे तथा |
सङ्ग्रामे
सङ्कटे चैव विघ्नस्तस्य न जायते || 7 ||
|| इति
मुद्गलपुराणोक्तं श्रीगणेशद्वादशनामस्तोत्रं सम्पूर्णम् ||
No comments:
Post a Comment
please do not enter any spam link