अनिर्वाच्यं
रूपं स्तवन निकरो यत्र गलितः तथा वक्ष्ये स्तोत्रं प्रथम पुरुषस्यात्र महतः |
यतो जातं
विश्वस्थितिमपि सदा यत्र विलयः सकीदृग्गीर्वाणः सुनिगम नुतः श्रीगणपतिः || 1 ||
गकारो हेरम्बः
सगुण इति पुं निर्गुणमयो द्विधाप्येकोजातः प्रकृति पुरुषो ब्रह्म हि गणः |
स
चेशश्चोत्पत्ति स्थिति लय करोयं प्रमथको यतोभूतं भव्यं भवति पतिरीशो गणपतिः || 2 ||
गकारः
कण्ठोर्ध्वं गजमुखसमो मर्त्यसदृशो णकारः कण्ठाधो जठर सदृशाकार इति च |
अधोभावः कट्यां
चरण इति हीशोस्य च तमः विभातीत्थं नाम त्रिभुवन समं भू र्भुव स्सुवः || 3 ||
गणाध्यक्षो
ज्येष्ठः कपिल अपरो मङ्गलनिधिः दयालुर्हेरम्बो वरद इति चिन्तामणि रजः |
वरानीशो ढुण्ढिर्गजवदन
नामा शिवसुतो मयूरेशो गौरीतनय इति नामानि पठति || 4 ||
महेशोयं विष्णुः
स कवि रविरिन्दुः कमलजः क्षिति स्तोयं वह्निः श्वसन इति खं त्वद्रिरुदधिः |
कुजस्तारः
शुक्रो पुरुरुडु बुधोगुच्च धनदो यमः पाशी काव्यः शनिरखिल रूपो गणपतिः ||5 ||
मुखं वह्निः
पादौ हरिरसि विधात प्रजननं रविर्नेत्रे चन्द्रो हृदय मपि कामोस्य मदन |
करौ शुक्रः
कट्यामवनिरुदरं भाति दशनं गणेशस्यासन् वै क्रतुमय वपु श्चैव सकलम् || 6 ||
सिते भाद्रे
मासे प्रतिशरदि मध्याह्न समये मृदो मूर्तिं कृत्वा गणपतितिथौ ढुण्ढि सदृशीं |
समर्चत्युत्साहः
प्रभवति महान् सर्वसदने विलोक्यानन्दस्तां प्रभवति नृणां विस्मय इति ||7 ||
गणेशदेवस्य
माहात्म्यमेतद्यः श्रावयेद्वापि पठेच्च तस्य |
क्लेशा लयं
यान्ति लभेच्च शीघ्रं श्रीपुत्त्र विद्यार्थि गृहं च मुक्तिम् || 8 ||
|| इति
श्री गणेश महिम्न स्तोत्रम् ||
No comments:
Post a Comment
please do not enter any spam link