शिव अष्टोत्तर सत नाम स्तोत्रं
SHIVA ASHTOTTARA SATA NAMA STOTRAM
शिव अष्टोत्तर सत नाम स्तोत्रं
SHIVA ASHTOTTARA SATA NAMA STOTRAM
शिवो
महेश्वरश्शम्भुः पिनाकी शशिशेखरः
वामदेवो
विरूपाक्षः कपर्दी नीललोहितः || 1 ||
शङ्करश्शूलपाणिश्च
खट्वाङ्गी विष्णुवल्लभः
शिपिविष्टोम्बिकानाथः
श्रीकण्ठो भक्तवत्सलः || 2 ||
भवश्शर्वस्त्रिलोकेशः
शितिकण्ठः शिवप्रियः
उग्रः कपाली
कामारी अन्धकासुरसूदनः || 3 ||
गङ्गाधरो
ललाटाक्षः कालकालः कृपानिधिः
भीमः
परशुहस्तश्च मृगपाणिर्जटाधरः || 4 ||
कैलासवासी कवची
कठोरस्त्रिपुरान्तकः
वृषाङ्को
वृषभारूढो भस्मोद्धूलितविग्रहः || 5 ||
सामप्रियस्स्वरमयस्त्रयीमूर्तिरनीश्वरः
सर्वज्ञः परमात्मा
च सोमसूर्याग्निलोचनः || 6 ||
हविर्यज्ञमयस्सोमः
पञ्चवक्त्रस्सदाशिवः
विश्वेश्वरो
वीरभद्रो गणनाथः प्रजापतिः || 7 ||
हिरण्यरेतः
दुर्धर्षः गिरीशो गिरिशोनघः
भुजङ्गभूषणो
भर्गो गिरिधन्वी गिरिप्रियः || 8 ||
कृत्तिवासः
पुरारातिर्भगवान् प्रमथाधिपः
मृत्युञ्जयस्सूक्ष्मतनुर्जगद्व्यापी
जगद्गुरुः || 9 ||
व्योमकेशो
महासेनजनकश्चारुविक्रमः
रुद्रो भूतपतिः
स्थाणुरहिर्भुध्नो दिगम्बरः || 10 ||
अष्टमूर्तिरनेकात्मा
सात्त्विकश्शुद्धविग्रहः
शाश्वतः
खण्डपरशुरजः पाशविमोचकः || 11 ||
मृडः
पशुपतिर्देवो महादेवोऽव्ययो हरिः
पूषदन्तभिदव्यग्रो
दक्षाध्वरहरो हरः || 12 ||
भगनेत्रभिदव्यक्तो
सहस्राक्षस्सहस्रपात्
अपवर्गप्रदोऽनन्तस्तारकः
परमेश्वरः || 13 ||
एवं श्री
शम्भुदेवस्य नाम्नामष्टोत्तरंशतम् ||
No comments:
Post a Comment
please do not enter any spam link