शिव भुजङ्ग प्रयत स्तोत्रं
SHIVA BHUJANGA PRAYATA STOTRAM
शिव भुजङ्ग प्रयत स्तोत्रं
SHIVA BHUJANGA PRAYATA STOTRAM
कृपासागरायाशुकाव्यप्रदाय
प्रणम्राखिलाभीष्टसन्दायकाय
|
यतीन्द्रैरुपास्याङ्घ्रिपाथोरुहाय
प्रबोधप्रदात्रे
नमः शङ्कराय ||1||
चिदानन्दरूपाय
चिन्मुद्रिकोद्य-
त्करायेशपर्यायरूपाय
तुभ्यम् |
मुदा गीयमानाय
वेदोत्तमाङ्गैः
श्रितानन्ददात्रे
नमः शङ्कराय ||2||
जटाजूटमध्ये
पुरा या सुराणां
धुनी साद्य
कर्मन्दिरूपस्य शम्भोः
गले
मल्लिकामालिकाव्याजतस्ते
विभातीति मन्ये
गुरो किं तथैव ||3||
नखेन्दुप्रभाधूतनम्रालिहार्दा-
न्धकारव्रजायाब्जमन्दस्मिताय
|
महामोहपाथोनिधेर्बाडबाय
प्रशान्ताय
कुर्मो नमः शङ्कराय ||4||
प्रणम्रान्तरङ्गाब्जबोधप्रदात्रे
दिवारात्रमव्याहतोस्राय
कामम् |
क्षपेशाय
चित्राय लक्ष्म क्षयाभ्यां
विहीनाय कुर्मो
नमः शङ्कराय ||5||
प्रणम्रास्यपाथोजमोदप्रदात्रे
सदान्तस्तमस्तोमसंहारकर्त्रे
|
रजन्या
मपीद्धप्रकाशाय कुर्मो
ह्यपूर्वाय
पूष्णे नमः शङ्कराय ||6||
नतानां
हृदब्जानि फुल्लानि शीघ्रं
करोम्याशु
योगप्रदानेन नूनम् |
प्रबोधाय चेत्थं
सरोजानि धत्से
प्रफुल्लानि किं
भो गुरो ब्रूहि मह्यम् ||7||
प्रभाधूतचन्द्रायुतायाखिलेष्ट-
प्रदायानतानां
समूहाय शीघ्रम्|
प्रतीपाय
नम्रौघदुःखाघपङ्क्ते-
र्मुदा सर्वदा
स्यान्नमः शङ्कराय ||8||
विनिष्कासितानीश
तत्त्वावबोधा -
न्नतानां
मनोभ्यो ह्यनन्याश्रयाणि |
रजांसि
प्रपन्नानि पादाम्बुजातं
गुरो
रक्तवस्त्रापदेशाद्बिभर्षि ||9||
मतेर्वेदशीर्षाध्वसम्प्रापकाया-
नतानां जनानां
कृपार्द्रैः कटाक्षैः |
ततेः
पापबृन्दस्य शीघ्रं निहन्त्रे
स्मितास्याय
कुर्मो नमः शङ्कराय ||10||
सुपर्वोक्तिगन्धेन
हीनाय तूर्णं
पुरा
तोटकायाखिलज्ञानदात्रे|
प्रवालीयगर्वापहारस्य
कर्त्रे
पदाब्जम्रदिम्ना
नमः शङ्कराय ||11||
भवाम्भोधिमग्नान्जनान्दुःखयुक्तान्
जवादुद्दिधीर्षुर्भवानित्यहोऽहम्
|
विदित्वा हि ते
कीर्तिमन्यादृशाम्भो
सुखं
निर्विशङ्कः स्वपिम्यस्तयत्नः ||12||
||इति
श्रीशङ्कराचार्य भुजङ्गप्रयातस्तोत्रम्||
No comments:
Post a Comment
please do not enter any spam link