शिव भुजङ्गं
SHIVA BHUJANGAM
शिव भुजङ्गं
SHIVA BHUJANGAM
गलद्दानगण्डं
मिलद्भृङ्गषण्डं
चलच्चारुशुण्डं
जगत्त्राणशौण्डम् |
कनद्दन्तकाण्डं
विपद्भङ्गचण्डं
शिवप्रेमपिण्डं
भजे वक्रतुण्डम् || 1 ||
अनाद्यन्तमाद्यं
परं तत्त्वमर्थं
चिदाकारमेकं
तुरीयं त्वमेयम् |
हरिब्रह्ममृग्यं
परब्रह्मरूपं
मनोवागतीतं
महःशैवमीडे || 2 ||
स्वशक्त्यादि
शक्त्यन्त सिंहासनस्थं
मनोहारि
सर्वाङ्गरत्नोरुभूषम् |
जटाहीन्दुगङ्गास्थिशम्याकमौलिं
पराशक्तिमित्रं
नमः पञ्चवक्त्रम् || 3 ||
शिवेशानतत्पूरुषाघोरवामादिभिः
पञ्चभिर्हृन्मुखैः
षड्भिरङ्गैः |
अनौपम्य
षट्त्रिंशतं तत्त्वविद्यामतीतं
परं त्वां कथं
वेत्ति को वा || 4 ||
प्रवालप्रवाहप्रभाशोणमर्धं
मरुत्वन्मणि
श्रीमहः श्याममर्धम् |
गुणस्यूतमेतद्वपुः
शैवमन्तः
स्मरामि
स्मरापत्तिसम्पत्तिहेतोः || 5 ||
स्वसेवासमायातदेवासुरेन्द्रा
नमन्मौलिमन्दारमालाभिषिक्तम्
|
नमस्यामि शम्भो
पदाम्भोरुहं ते
भवाम्भोधिपोतं
भवानी विभाव्यम् || 6 ||
जगन्नाथ मन्नाथ
गौरीसनाथ
प्रपन्नानुकम्पिन्विपन्नार्तिहारिन्
|
महःस्तोममूर्ते
समस्तैकबन्धो
नमस्ते नमस्ते
पुनस्ते नमोऽस्तु || 7 ||
विरूपाक्ष
विश्वेश विश्वादिदेव
त्रयी मूल शम्भो
शिव त्र्यम्बक त्वम् |
प्रसीद स्मर
त्राहि पश्यावमुक्त्यै
क्षमां
प्राप्नुहि त्र्यक्ष मां रक्ष मोदात् || 8 ||
महादेव देवेश
देवादिदेव
स्मरारे पुरारे
यमारे हरेति |
ब्रुवाणः
स्मरिष्यामि भक्त्या \लिनॆ भवन्तं ततो मे दयाशील देव प्रसीद || 9 ||
त्वदन्यः शरण्यः
प्रपन्नस्य नेति
प्रसीद
स्मरन्नेव हन्यास्तु दैन्यम् |
न चेत्ते
भवेद्भक्तवात्सल्यहानिस्ततो
मे दयालो सदा
सन्निधेहि || 10 ||
अयं
दानकालस्त्वहं दानपात्रं
भवानेव दाता
त्वदन्यं न याचे |
भवद्भक्तिमेव
स्थिरां देहि मह्यं
कृपाशील शम्भो
कृतार्थोऽस्मि तस्मात् || 11 ||
पशुं वेत्सि
चेन्मां तमेवाधिरूढः
कलङ्कीति वा
मूर्ध्नि धत्से तमेव |
द्विजिह्वः पुनः
सोऽपि ते कण्ठभूषा
त्वदङ्गीकृताः
शर्व सर्वेऽपि धन्याः || 12 ||
न शक्नोमि
कर्तुं परद्रोहलेशं
कथं प्रीयसे
त्वं न जाने गिरीश |
तथाहि
प्रसन्नोऽसि कस्यापि
कान्तासुतद्रोहिणो
वा पितृद्रोहिणो वा || 13 ||
स्तुतिं
ध्यानमर्चां यथावद्विधातुं
भजन्नप्यजानन्महेशावलम्बे
|
त्रसन्तं सुतं
त्रातुमग्रे
मृकण्डोर्यमप्राणनिर्वापणं
त्वत्पदाब्जम् || 14 ||
शिरो दृष्टि
हृद्रोग शूल प्रमेहज्वरार्शो जरायक्ष्महिक्काविषार्तान् |
त्वमाद्यो
भिषग्भेषजं भस्म शम्भो
त्वमुल्लाघयास्मान्वपुर्लाघवाय
|| 15 ||
दरिद्रोऽस्म्यभद्रोऽस्मि
भग्नोऽस्मि दूये
विषण्णोऽस्मि
सन्नोऽस्मि खिन्नोऽस्मि चाहम् |
भवान्प्राणिनामन्तरात्मासि
शम्भो
ममाधिं न वेत्सि
प्रभो रक्ष मां त्वम् || 16 ||
त्वदक्ष्णोः
कटाक्षः पतेत्त्र्यक्ष यत्र
क्षणं क्ष्मा च
लक्ष्मीः स्वयं तं वृणाते |
किरीटस्फुरच्चामरच्छत्रमालाकलाचीगजक्षौमभूषाविशेषैः
|| 17 ||
भवान्यै भवायापि
मात्रे च पित्रे
मृडान्यै
मृडायाप्यघघ्न्यै मखघ्ने |
शिवाङ्ग्यै
शिवाङ्गाय कुर्मः शिवायै
शिवायाम्बिकायै
नमस्त्र्यम्बकाय || 18 ||
भवद्गौरवं
मल्लघुत्वं विदित्वा
प्रभो रक्ष
कारुण्यदृष्ट्यानुगं माम् |
शिवात्मानुभावस्तुतावक्षमोऽहं
स्वशक्त्या कृतं
मेऽपराधं क्षमस्व || 19 ||
यदा कर्णरन्ध्रं
व्रजेत्कालवाहद्विषत्कण्ठघण्टा घणात्कारनादः |
वृषाधीशमारुह्य
देवौपवाह्यन्तदा
वत्स मा भीरिति
प्रीणय त्वम् || 20 ||
यदा दारुणाभाषणा
भीषणा मे
भविष्यन्त्युपान्ते
कृतान्तस्य दूताः |
तदा
मन्मनस्त्वत्पदाम्भोरुहस्थं
कथं निश्चलं
स्यान्नमस्तेऽस्तु शम्भो || 21 ||
यदा
दुर्निवारव्यथोऽहं शयानो
लुठन्निःश्वसन्निःसृताव्यक्तवाणिः
|
तदा
जह्नुकन्याजलालङ्कृतं ते
जटामण्डलं
मन्मनोमन्दिरे स्यात् || 22 ||
यदा
पुत्रमित्रादयो मत्सकाशे
रुदन्त्यस्य हा
कीदृशीयं दशेति |
तदा देवदेवेश
गौरीश शम्भो
नमस्ते
शिवायेत्यजस्रं ब्रवाणि || 23 ||
यदा पश्यतां
मामसौ वेत्ति
नास्मानयं श्वास
एवेति वाचो भवेयुः |
तदा भूतिभूषं
भुजङ्गावनद्धं
पुरारे भवन्तं
स्फुटं भावयेयम् || 24 ||
यदा
यातनादेहसन्देहवाही
भवेदात्मदेहे न
मोहो महान्मे |
तदा
काशशीतांशुसङ्काशमीश
स्मरारे वपुस्ते
नमस्ते स्मरामि || 25 ||
यदापारमच्छायमस्थानमद्भिर्जनैर्वा
विहीनं गमिष्यामि मार्गम् |
तदा तं
निरुन्धङ्कृतान्तस्य मार्गं
महादेव मह्यं
मनोज्ञं प्रयच्छ || 26 ||
यदा रौरवादि
स्मरन्नेव भीत्या
व्रजाम्यत्र
मोहं महादेव घोरम् |
तदा मामहो नाथ
कस्तारयिष्यत्यनाथं पराधीनमर्धेन्दुमौले || 27 ||
यदा
श्वेतपत्रायतालङ्घ्यशक्तेः
कृतान्ताद्भयं
भक्तिवात्सल्यभावात् |
तदा पाहि मां
पार्वतीवल्लभान्यं
न पश्यामि
पातारमेतादृशं मे || 28 ||
इदानीमिदानीं
मृतिर्मे भवित्रीत्यहो सन्ततं चिन्तया पीडितोऽस्मि |
कथं नाम मा
भून्मृतौ भीतिरेषा
नमस्ते गतीनां
गते नीलकण्ठ || 29 ||
अमर्यादमेवाहमाबालवृद्धं
हरन्तं कृतान्तं
समीक्ष्यास्मि भीतः |
मृतौ
तावकाङ्घ्र्यब्जदिव्यप्रसादाद्भवानीपते निर्भयोऽहं भवानि || 30 ||
जराजन्मगर्भाधिवासादिदुःखान्यसह्यानि
जह्यां जगन्नाथ देव |
भवन्तं विना मे
गतिर्नैव शम्भो
दयालो न जागर्ति
किं वा दया ते || 31 ||
शिवायेति शब्दो
नमःपूर्व एष
स्मरन्मुक्तिकृन्मृत्युहा
तत्त्ववाची |
महेशान मा
गान्मनस्तो वचस्तः
सदा
मह्यमेतत्प्रदानं प्रयच्छ || 32 ||
त्वमप्यम्ब मां
पश्य शीतांशुमौलिप्रिये भेषजं त्वं भवव्याधिशान्तौ
बहुक्लेशभाजं
पदाम्भोजपोते
भवाब्धौ निमग्नं
नयस्वाद्य पारम् || 33 ||
अनुद्यल्ललाटाक्षि
वह्नि प्ररोहैरवामस्फुरच्चारुवामोरुशोभैः |
अनङ्गभ्रमद्भोगिभूषाविशेषैरचन्द्रार्धचूडैरलं
दैवतैर्नः || 34 ||
अकण्ठेकलङ्कादनङ्गेभुजङ्गादपाणौकपालादफालेऽनलाक्षात्
|
अमौलौशशाङ्कादवामेकलत्रादहं
देवमन्यं न मन्ये न मन्ये || 35 ||
महादेव शम्भो
गिरीश त्रिशूलिंस्त्वदीयं समस्तं विभातीति यस्मात् |
शिवादन्यथा
दैवतं नाभिजाने
शिवोऽहं शिवोऽहं
शिवोऽहं शिवोऽहम् || 36 ||
यतोऽजायतेदं
प्रपञ्चं विचित्रं
स्थितिं याति
यस्मिन्यदेकान्तमन्ते |
स कर्मादिहीनः
स्वयञ्ज्योतिरात्मा
शिवोऽहं शिवोऽहं
शिवोऽहं शिवोऽहम् || 37 ||
किरीटे निशेशो
ललाटे हुताशो
भुजे भोगिराजो
गले कालिमा च |
तनौ कामिनी यस्य
तत्तुल्यदेवं
न जाने न जाने न
जाने न जाने || 38 ||
अनेन
स्तवेनादरादम्बिकेशं
परां
भक्तिमासाद्य यं ये नमन्ति |
मृतौ
निर्भयास्ते जनास्तं भजन्ते
हृदम्भोजमध्ये
सदासीनमीशम् || 39 ||
भुजङ्गप्रियाकल्प
शम्भो मयैवं
भुजङ्गप्रयातेन
वृत्तेन क्लृप्तम् |
नरः
स्तोत्रमेतत्पठित्वोरुभक्त्या
सुपुत्रायुरारोग्यमैश्वर्यमेति
|| 40 ||
No comments:
Post a Comment
please do not enter any spam link