शिव महिम्न स्तोत्रं
SHIVA MAHIMNA STOTRAM
शिव महिम्न स्तोत्रं
SHIVA MAHIMNA STOTRAM
अथ श्री
शिवमहिम्नस्तोत्रम् ||
महिम्नः पारं ते
परमविदुषो यद्यसदृशी
स्तुतिर्ब्रह्मादीनामपि
तदवसन्नास्त्वयि गिरः |
अथाऽवाच्यः
सर्वः स्वमतिपरिणामावधि गृणन्
ममाप्येष
स्तोत्रे हर निरपवादः परिकरः || 1 ||
अतीतः पन्थानं
तव च महिमा वाङ्मनसयोः
अतद्व्यावृत्त्या
यं चकितमभिधत्ते श्रुतिरपि |
स कस्य
स्तोतव्यः कतिविधगुणः कस्य विषयः
पदे त्वर्वाचीने
पतति न मनः कस्य न वचः || 2 ||
मधुस्फीता वाचः
परमममृतं निर्मितवतः
तव ब्रह्मन् किं
वागपि सुरगुरोर्विस्मयपदम् |
मम त्वेतां
वाणीं गुणकथनपुण्येन भवतः
पुनामीत्यर्थेऽस्मिन्
पुरमथन बुद्धिर्व्यवसिता || 3 ||
तवैश्वर्यं
यत्तज्जगदुदयरक्षाप्रलयकृत्
त्रयीवस्तु
व्यस्तं तिस्रुषु गुणभिन्नासु तनुषु |
अभव्यानामस्मिन्
वरद रमणीयामरमणीं
विहन्तुं
व्याक्रोशीं विदधत इहैके जडधियः || 4 ||
किमीहः किङ्कायः
स खलु किमुपायस्त्रिभुवनं
किमाधारो धाता
सृजति किमुपादान इति च |
अतर्क्यैश्वर्ये
त्वय्यनवसर दुःस्थो हतधियः
कुतर्कोऽयं
कांश्चित् मुखरयति मोहाय जगतः || 5 ||
अजन्मानो लोकाः
किमवयववन्तोऽपि जगतां
अधिष्ठातारं किं
भवविधिरनादृत्य भवति |
अनीशो वा
कुर्याद् भुवनजनने कः परिकरो
यतो मन्दास्त्वां
प्रत्यमरवर संशेरत इमे || 6 ||
त्रयी साङ्ख्यं
योगः पशुपतिमतं वैष्णवमिति
प्रभिन्ने
प्रस्थाने परमिदमदः पथ्यमिति च |
रुचीनां
वैचित्र्यादृजुकुटिल नानापथजुषां
नृणामेको
गम्यस्त्वमसि पयसामर्णव इव || 7 ||
महोक्षः
खट्वाङ्गं परशुरजिनं भस्म फणिनः
कपालं चेतीयत्तव
वरद तन्त्रोपकरणम् |
सुरास्तां
तामृद्धिं दधति तु भवद्भूप्रणिहितां
न हि
स्वात्मारामं विषयमृगतृष्णा भ्रमयति || 8 ||
ध्रुवं कश्चित्
सर्वं सकलमपरस्त्वध्रुवमिदं
परो
ध्रौव्याऽध्रौव्ये जगति गदति व्यस्तविषये |
समस्तेऽप्येतस्मिन्
पुरमथन तैर्विस्मित इव
स्तुवन्
जिह्रेमि त्वां न खलु ननु धृष्टा मुखरता || 9 ||
तवैश्वर्यं
यत्नाद् यदुपरि विरिञ्चिर्हरिरधः
परिच्छेतुं
यातावनलमनलस्कन्धवपुषः |
ततो
भक्तिश्रद्धा-भरगुरु-गृणद्भ्यां गिरिश यत्
स्वयं तस्थे
ताभ्यां तव किमनुवृत्तिर्न फलति || 10 ||
अयत्नादासाद्य
त्रिभुवनमवैरव्यतिकरं
दशास्यो
यद्बाहूनभृत रणकण्डू-परवशान् |
शिरःपद्मश्रेणी-रचितचरणाम्भोरुह-बलेः
स्थिरायास्त्वद्भक्तेस्त्रिपुरहर
विस्फूर्जितमिदम् || 11 ||
अमुष्य
त्वत्सेवा-समधिगतसारं भुजवनं
बलात् कैलासेऽपि
त्वदधिवसतौ विक्रमयतः |
अलभ्या
पातालेऽप्यलसचलिताङ्गुष्ठशिरसि
प्रतिष्ठा
त्वय्यासीद् ध्रुवमुपचितो मुह्यति खलः || 12 ||
यदृद्धिं
सुत्राम्णो वरद परमोच्चैरपि सतीं
अधश्चक्रे बाणः
परिजनविधेयत्रिभुवनः |
न तच्चित्रं
तस्मिन् वरिवसितरि त्वच्चरणयोः
न
कस्याप्युन्नत्यै भवति शिरसस्त्वय्यवनतिः || 13 ||
अकाण्ड-ब्रह्माण्ड-क्षयचकित-देवासुरकृपा
विधेयस्याऽऽसीद्
यस्त्रिनयन विषं संहृतवतः |
स कल्माषः कण्ठे
तव न कुरुते न श्रियमहो
विकारोऽपि
श्लाघ्यो भुवन-भय- भङ्ग- व्यसनिनः || 14 ||
असिद्धार्था नैव
क्वचिदपि सदेवासुरनरे
निवर्तन्ते
नित्यं जगति जयिनो यस्य विशिखाः |
स पश्यन्नीश
त्वामितरसुरसाधारणमभूत्
स्मरः
स्मर्तव्यात्मा न हि वशिषु पथ्यः परिभवः || 15 ||
मही पादाघाताद्
व्रजति सहसा संशयपदं
पदं
विष्णोर्भ्राम्यद् भुज-परिघ-रुग्ण-ग्रह- गणम् |
मुहुर्द्यौर्दौस्थ्यं
यात्यनिभृत-जटा-ताडित-तटा
जगद्रक्षायै
त्वं नटसि ननु वामैव विभुता || 16 ||
वियद्व्यापी
तारा-गण-गुणित-फेनोद्गम-रुचिः
प्रवाहो वारां
यः पृषतलघुदृष्टः शिरसि ते |
जगद्द्वीपाकारं
जलधिवलयं तेन कृतमिति
अनेनैवोन्नेयं
धृतमहिम दिव्यं तव वपुः || 17 ||
रथः क्षोणी
यन्ता शतधृतिरगेन्द्रो धनुरथो
रथाङ्गे
चन्द्रार्कौ रथ-चरण-पाणिः शर इति |
दिधक्षोस्ते
कोऽयं त्रिपुरतृणमाडम्बर-विधिः
विधेयैः
क्रीडन्त्यो न खलु परतन्त्राः प्रभुधियः || 18 ||
हरिस्ते साहस्रं
कमल बलिमाधाय पदयोः
यदेकोने तस्मिन्
निजमुदहरन्नेत्रकमलम् |
गतो
भक्त्युद्रेकः परिणतिमसौ चक्रवपुषः
त्रयाणां
रक्षायै त्रिपुरहर जागर्ति जगताम् || 19 ||
क्रतौ सुप्ते
जाग्रत् त्वमसि फलयोगे क्रतुमतां
क्व कर्म
प्रध्वस्तं फलति पुरुषाराधनमृते |
अतस्त्वां
सम्प्रेक्ष्य क्रतुषु फलदान-प्रतिभुवं
श्रुतौ श्रद्धां
बध्वा दृढपरिकरः कर्मसु जनः || 20 ||
क्रियादक्षो
दक्षः क्रतुपतिरधीशस्तनुभृतां
ऋषीणामार्त्विज्यं
शरणद सदस्याः सुर-गणाः |
क्रतुभ्रंशस्त्वत्तः
क्रतुफल-विधान-व्यसनिनः
ध्रुवं कर्तुः
श्रद्धा-विधुरमभिचाराय हि मखाः || 21 ||
प्रजानाथं नाथ
प्रसभमभिकं स्वां दुहितरं
गतं रोहिद्
भूतां रिरमयिषुमृष्यस्य वपुषा |
धनुष्पाणेर्यातं
दिवमपि सपत्राकृतममुं
त्रसन्तं
तेऽद्यापि त्यजति न मृगव्याधरभसः || 22 ||
स्वलावण्याशंसा
धृतधनुषमह्नाय तृणवत्
पुरः प्लुष्टं
दृष्ट्वा पुरमथन पुष्पायुधमपि |
यदि स्त्रैणं
देवी यमनिरत-देहार्ध-घटनात्
अवैति त्वामद्धा
बत वरद मुग्धा युवतयः || 23 ||
श्मशानेष्वाक्रीडा
स्मरहर पिशाचाः सहचराः
चिता-भस्मालेपः
स्रगपि नृकरोटी-परिकरः |
अमङ्गल्यं शीलं
तव भवतु नामैवमखिलं
तथापि
स्मर्तॄणां वरद परमं मङ्गलमसि || 24 ||
मनः
प्रत्यक्चित्ते सविधमविधायात्त-मरुतः
प्रहृष्यद्रोमाणः
प्रमद-सलिलोत्सङ्गति-दृशः |
यदालोक्याह्लादं
ह्रद इव निमज्यामृतमये
दधत्यन्तस्तत्त्वं
किमपि यमिनस्तत् किल भवान् || 25 ||
त्वमर्कस्त्वं
सोमस्त्वमसि पवनस्त्वं हुतवहः
त्वमापस्त्वं
व्योम त्वमु धरणिरात्मा त्वमिति च |
परिच्छिन्नामेवं
त्वयि परिणता बिभ्रति गिरं
न
विद्मस्तत्तत्त्वं वयमिह तु यत् त्वं न भवसि || 26 ||
त्रयीं तिस्रो
वृत्तीस्त्रिभुवनमथो त्रीनपि सुरान्
अकाराद्यैर्वर्णैस्त्रिभिरभिदधत्
तीर्णविकृति |
तुरीयं ते धाम
ध्वनिभिरवरुन्धानमणुभिः
समस्तं व्यस्तं
त्वां शरणद गृणात्योमिति पदम् || 27 ||
भवः शर्वो
रुद्रः पशुपतिरथोग्रः सहमहान्
तथा
भीमेशानाविति यदभिधानाष्टकमिदम् |
अमुष्मिन्
प्रत्येकं प्रविचरति देव श्रुतिरपि
प्रियायास्मैधाम्ने
प्रणिहित-नमस्योऽस्मि भवते || 28 ||
नमो नेदिष्ठाय
प्रियदव दविष्ठाय च नमः
नमः क्षोदिष्ठाय
स्मरहर महिष्ठाय च नमः |
नमो वर्षिष्ठाय
त्रिनयन यविष्ठाय च नमः
नमः सर्वस्मै ते
तदिदमतिसर्वाय च नमः || 29 ||
बहुल-रजसे
विश्वोत्पत्तौ भवाय नमो नमः
प्रबल-तमसे तत्
संहारे हराय नमो नमः |
जन-सुखकृते
सत्त्वोद्रिक्तौ मृडाय नमो नमः
प्रमहसि पदे
निस्त्रैगुण्ये शिवाय नमो नमः || 30 ||
कृश-परिणति-चेतः
क्लेशवश्यं क्व चेदं क्व च तव गुण-सीमोल्लङ्घिनी शश्वदृद्धिः |
इति
चकितममन्दीकृत्य मां भक्तिराधाद् वरद चरणयोस्ते वाक्य-पुष्पोपहारम् || 31 ||
असित-गिरि-समं
स्यात् कज्जलं सिन्धु-पात्रे सुर-तरुवर-शाखा लेखनी पत्रमुर्वी |
लिखति यदि
गृहीत्वा शारदा सर्वकालं तदपि तव गुणानामीश पारं न याति || 32 ||
असुर-सुर-मुनीन्द्रैरर्चितस्येन्दु-मौलेः
ग्रथित-गुणमहिम्नो निर्गुणस्येश्वरस्य |
सकल-गण-वरिष्ठः
पुष्पदन्ताभिधानः रुचिरमलघुवृत्तैः स्तोत्रमेतच्चकार || 33 ||
अहरहरनवद्यं
धूर्जटेः स्तोत्रमेतत् पठति परमभक्त्या शुद्ध-चित्तः पुमान् यः |
स भवति शिवलोके
रुद्रतुल्यस्तथाऽत्र प्रचुरतर-धनायुः पुत्रवान् कीर्तिमांश्च || 34 ||
महेशान्नापरो
देवो महिम्नो नापरा स्तुतिः |
अघोरान्नापरो
मन्त्रो नास्ति तत्त्वं गुरोः परम् || 35 ||
दीक्षा दानं
तपस्तीर्थं ज्ञानं यागादिकाः क्रियाः |
महिम्नस्तव
पाठस्य कलां नार्हन्ति षोडशीम् || 36 ||
कुसुमदशन-नामा
सर्व-गन्धर्व-राजः
शशिधरवर-मौलेर्देवदेवस्य
दासः |
स खलु
निज-महिम्नो भ्रष्ट एवास्य रोषात्
स्तवनमिदमकार्षीद्
दिव्य-दिव्यं महिम्नः || 37 ||
सुरगुरुमभिपूज्य
स्वर्ग-मोक्षैक-हेतुं
पठति यदि
मनुष्यः प्राञ्जलिर्नान्य-चेताः |
व्रजति
शिव-समीपं किन्नरैः स्तूयमानः
स्तवनमिदममोघं
पुष्पदन्तप्रणीतम् || 38 ||
आसमाप्तमिदं
स्तोत्रं पुण्यं गन्धर्व-भाषितम् |
अनौपम्यं
मनोहारि सर्वमीश्वरवर्णनम् || 39 ||
इत्येषा वाङ्मयी
पूजा श्रीमच्छङ्कर-पादयोः |
अर्पिता तेन
देवेशः प्रीयतां मे सदाशिवः || 40 ||
तव तत्त्वं न
जानामि कीदृशोऽसि महेश्वर |
यादृशोऽसि
महादेव तादृशाय नमो नमः || 41 ||
एककालं द्विकालं
वा त्रिकालं यः पठेन्नरः |
सर्वपाप-विनिर्मुक्तः
शिव लोके महीयते || 42 ||
श्री
पुष्पदन्त-मुख-पङ्कज-निर्गतेन
स्तोत्रेण
किल्बिष-हरेण हर-प्रियेण |
कण्ठस्थितेन पठितेन
समाहितेन
सुप्रीणितो भवति
भूतपतिर्महेशः || 43 ||
|| इति
श्री पुष्पदन्त विरचितं शिवमहिम्नः स्तोत्रं समाप्तम् ||
No comments:
Post a Comment
please do not enter any spam link