शिव शदक्षरि स्तोत्रं
SHIVA SHADAKSHARI STOTRAM
शिव शदक्षरि स्तोत्रं
SHIVA SHADAKSHARI STOTRAM
||ॐ ॐ||
ओङ्कारबिन्दु
संयुक्तं नित्यं ध्यायन्ति योगिनः |
कामदं मोक्षदं
तस्मादोङ्काराय नमोनमः || 1 ||
||ॐ
नं||
नमन्ति मुनयः
सर्वे नमन्त्यप्सरसां गणाः |
नराणामादिदेवाय
नकाराय नमोनमः || 2 ||
||ॐ
मं||
महातत्वं महादेव
प्रियं ज्ञानप्रदं परं |
महापापहरं
तस्मान्मकाराय नमोनमः || 3 ||
||ॐ
शिं||
शिवं शान्तं
शिवाकारं शिवानुग्रहकारणं |
महापापहरं
तस्माच्छिकाराय नमोनमः || 4 ||
||ॐ
वां||
वाहनं वृषभोयस्य
वासुकिः कण्ठभूषणं |
वामे शक्तिधरं
देवं वकाराय नमोनमः || 5 ||
||ॐ
यं||
यकारे संस्थितो
देवो यकारं परमं शुभं |
यं नित्यं
परमानन्दं यकाराय नमोनमः || 6 ||
षडक्षरमिदं
स्तोत्रं यः पठेच्छिव सन्निधौ |
तस्य मृत्युभयं
नास्ति ह्यपमृत्युभयं कुतः ||
शिवशिवेति
शिवेति शिवेति वा
भवभवेति भवेति
भवेति वा |
हरहरेति हरेति
हरेति वा
भुजमनश्शिवमेव
निरन्तरम् ||
इति
श्रीमत्परमहंस परिव्राजकाचार्य
श्रीमच्छङ्करभगवत्पादपूज्यकृत
शिवषडक्षरीस्तोत्रं सम्पूर्णम् |
No comments:
Post a Comment
please do not enter any spam link