श्रीभैरव उवाच
यो देवदेवो
भगवान् भास्करो महसां निधिः |
गयत्रीनायको
भास्वान् सवितेति प्रगीयते || 1 ||
तस्याहं कवचं
दिव्यं वज्रपञ्जरकाभिधम् |
सर्वमन्त्रमयं
गुह्यं मूलविद्यारहस्यकम् || 2 ||
सर्वपापापहं
देवि दुःखदारिद्र्यनाशनम् |
महाकुष्ठहरं
पुण्यं सर्वरोगनिवर्हणम् || 3 ||
सर्वशत्रुसमूहघ्नं
सम्ग्रामे विजयप्रदम् |
सर्वतेजोमयं
सर्वदेवदानवपूजितम् || 4 ||
रणे राजभये घोरे
सर्वोपद्रवनाशनम् |
मातृकावेष्टितं
वर्म भैरवानननिर्गतम् || 5 ||
ग्रहपीडाहरं
देवि सर्वसङ्कटनाशनम् |
धारणादस्य देवेशि
ब्रह्मा लोकपितामहः || 6 ||
विष्णुर्नारायणो
देवि रणे दैत्याञ्जिष्यति |
शङ्करः
सर्वलोकेशो वासवोऽपि दिवस्पतिः || 7 ||
ओषधीशः शशी देवि
शिवोऽहं भैरवेश्वरः |
मन्त्रात्मकं
परं वर्म सवितुः सारमुत्तमम् || 8 ||
यो धारयेद् भुजे
मूर्ध्नि रविवारे महेश्वरि |
स राजवल्लभो
लोके तेजस्वी वैरिमर्दनः || 9 ||
बहुनोक्तेन किं
देवि कवचस्यास्य धारणात् |
इह
लक्ष्मीधनारोग्य-वृद्धिर्भवति नान्यथा || 10 ||
परत्र परमा
मुक्तिर्देवानामपि दुर्लभा |
कवचस्यास्य
देवेशि मूलविद्यामयस्य च || 11 ||
वज्रपञ्जरकाख्यस्य
मुनिर्ब्रह्मा समीरितः |
गायत्र्यं छन्द
इत्युक्तं देवता सविता स्मृतः || 12 ||
माया बीजं शरत्
शक्तिर्नमः कीलकमीश्वरि |
सर्वार्थसाधने
देवि विनियोगः प्रकीर्तितः || 13 ||
अथ सूर्य कवचं
ॐ अं आं इं ईं
शिरः पातु ॐ सूर्यो मन्त्रविग्रहः |
उं ऊं ऋं ॠं
ललाटं मे ह्रां रविः पातु चिन्मयः || 14 ||
~लुं
~लूं एं ऐं पातु नेत्रे ह्रीं ममारुणसारथिः |
ॐ औं अं अः
श्रुती पातु सः सर्वजगदीश्वरः || 15 ||
कं खं गं घं
पातु गण्डौ सूं सूरः सुरपूजितः |
चं छं जं झं च
नासां मे पातु यारं अर्यमा प्रभुः || 16 ||
टं ठं डं ढं
मुखं पायाद् यं योगीश्वरपूजितः |
तं थं दं धं गलं
पातु नं नारायणवल्लभः || 17 ||
पं फं बं भं मम
स्कन्धौ पातु मं महसां निधिः |
यं रं लं वं
भुजौ पातु मूलं सकनायकः || 18 ||
शं षं सं हं
पातु वक्षो मूलमन्त्रमयो ध्रुवः |
लं क्षः
कुक्ष्सिं सदा पातु ग्रहाथो दिनेश्वरः || 19 ||
ङं ञं णं नं मं
मे पातु पृष्ठं दिवसनायकः |
अं आं इं ईं उं
ऊं ऋं ॠं नाभिं पातु तमोपहः || 20 ||
~लुं
~लूं एं ऐं ॐ औं अं अः लिङ्गं मेऽव्याद् ग्रहेश्वरः |
कं खं गं घं चं
छं जं झं कटिं भानुर्ममावतु || 21 ||
टं ठं डं ढं तं
थं दं धं जानू भास्वान् ममावतु |
पं फं बं भं यं
रं लं वं जङ्घे मेऽव्याद् विभाकरः || 22 ||
शं षं सं हं लं
क्षः पातु मूलं पादौ त्रयितनुः |
ङं ञं णं नं मं
मे पातु सविता सकलं वपुः || 23 ||
सोमः पूर्वे च
मां पातु भौमोऽग्नौ मां सदावतु |
बुधो मां
दक्षिणे पातु नैऋत्या गुररेव माम् || 24 ||
पश्चिमे मां
सितः पातु वायव्यां मां शनैश्चरः |
उत्तरे मां तमः
पायादैशान्यां मां शिखी तथा || 25 ||
ऊर्ध्वं मां
पातु मिहिरो मामधस्ताञ्जगत्पतिः |
प्रभाते भास्करः
पातु मध्याह्ने मां दिनेश्वरः || 26 ||
सायं वेदप्रियः
पातु निशीथे विस्फुरापतिः |
सर्वत्र सर्वदा
सूर्यः पातु मां चक्रनायकः || 27 ||
रणे राजकुले
द्यूते विदादे शत्रुसङ्कटे |
सङ्गामे च ज्वरे
रोगे पातु मां सविता प्रभुः || 28 ||
ॐ ॐ ॐ उत ॐउऔम्
ह स म यः सूरोऽवतान्मां भयाद्
ह्रां ह्रीं
ह्रुं हहहा हसौः हसहसौः हंसोऽवतात् सर्वतः |
सः सः सः सससा
नृपाद्वनचराच्चौराद्रणात् सङ्कटात्
पायान्मां
कुलनायकोऽपि सविता ॐ ह्रीं ह सौः सर्वदा || 29 ||
द्रां द्रीं
द्रूं दधनं तथा च तरणिर्भाम्भैर्भयाद् भास्करो
रां रीं रूं
रुरुरूं रविर्ज्वरभयात् कुष्ठाच्च शूलामयात् |
अं अं आं
विविवीं महामयभयं मां पातु मार्तण्डको
मूलव्याप्ततनुः
सदावतु परं हंसः सहस्रांशुमान् || 30||
अथ फलशृतिः
इति श्रीकवचं
दिव्यं वज्रपञ्जरकाभिधम् |
सर्वदेवरहस्यं च
मातृकामन्त्रवेष्टितम् || 31 ||
महारोगभयघ्नं च
पापघ्नं मन्मुखोदितम् |
गुह्यं यशस्करं
पुण्यं सर्वश्रेयस्करं शिवे || 32 ||
लिखित्वा
रविवारे तु तिष्ये वा जन्मभे प्रिये |
अष्टगन्धेन
दिव्येन सुधाक्षीरेण पार्वति || 33 ||
अर्कक्षीरेण
पुण्येन भूर्जत्वचि महेश्वरि |
कनकीकाष्ठलेखन्या
कवचं भास्करोदये || 34 ||
श्वेतसूत्रेण
रक्तेन श्यामेनावेष्टयेद् गुटीम् |
सौवर्णेनाथ
संवेष्ठ्य धारयेन्मूर्ध्नि वा भुजे || 35 ||
रणे रिपूञ्जयेद्
देवि वादे सदसि जेष्यति |
राजमान्यो
भवेन्नित्यं सर्वतेजोमयो भवेत् || 36 ||
कण्ठस्था
पुत्रदा देवि कुक्षिस्था रोगनाशिनी |
शिरःस्था गुटिका
दिव्या राकलोकवशङ्करी || 37 ||
भुजस्था धनदा
नित्यं तेजोबुद्धिविवर्धिनी |
वन्ध्या वा
काकवन्ध्या वा मृतवत्सा च याङ्गना || 38 ||
कण्ठे सा
धारयेन्नित्यं बहुपुत्रा प्रजायये |
यस्य देहे
भवेन्नित्यं गुटिकैषा महेश्वरि || 39 ||
महास्त्राणीन्द्रमुक्तानि
ब्रह्मास्त्रादीनि पार्वति |
तद्देहं प्राप्य
व्यर्थानि भविष्यन्ति न संशयः || 40 ||
त्रिकालं यः
पठेन्नित्यं कवचं वज्रपञ्जरम् |
तस्य सद्यो
महादेवि सविता वरदो भवेत् || 41 ||
अज्ञात्वा कवचं
देवि पूजयेद् यस्त्रयीतनुम् |
तस्य पूजार्जितं
पुण्यं जन्मकोटिषु निष्फलम् || 42 ||
शतावर्तं
पठेद्वर्म सप्तम्यां रविवासरे |
महाकुष्ठार्दितो
देवि मुच्यते नात्र संशयः || 43 ||
निरोगो यः
पठेद्वर्म दरिद्रो वज्रपञ्जरम् |
लक्ष्मीवाञ्जायते
देवि सद्यः सूर्यप्रसादतः || 44 ||
भक्त्या यः
प्रपठेद् देवि कवचं प्रत्यहं प्रिये |
इह लोके श्रियं
भुक्त्वा देहान्ते मुक्तिमाप्नुयात् || 45 ||
इति
श्रीरुद्रयामले तन्त्रे श्रीदेविरहस्ये
वज्रपञ्जराख्यसूर्यकवचनिरूपणं
त्रयस्त्रिंशः पटलः ||
No comments:
Post a Comment
please do not enter any spam link