विष्णु
शतपदी
VISHNU SHATPADI
विष्णु शतपदी
VISHNU SHATPADI
अविनयमपनय
विष्णो दमय मनः शमय विषयमृगतृष्णाम् |
भूतदयां
विस्तारय तारय संसारसागरतः || 1 ||
दिव्यधुनीमकरन्दे
परिमलपरिभोगसच्चिदानन्दे |
श्रीपतिपदारविन्दे
भवभयखेदच्छिदे वन्दे || 2 ||
सत्यपि भेदापगमे
नाथ तवाऽहं न मामकीनस्त्वं |
सामुद्रो हि
तरङ्गः क्वचन समुद्रो न तारङ्गः || 3 ||
उद्धृतनग
नगभिदनुज दनुजकुलामित्र मित्रशशिदृष्टे |
दृष्टे भवति
प्रभवति न भवति किं भवतिरस्कारः || 4 ||
मत्स्यादिभिरवतारैरवतारवताऽवता
सदा वसुधां |
परमेश्वर
परिपाल्यो भवता भवतापभीतोऽहं || 5 ||
दामोदर गुणमन्दिर
सुन्दरवदनारविन्द गोविन्द |
भवजलधिमथनमन्दर
परमं दरमपनय त्वं मे || 6 ||
नारायण करुणामय
शरणं करवाणि तावकौ चरणौ |
इति षट्पदी
मदीये वदनसरोजे सदा वसतु ||
No comments:
Post a Comment
please do not enter any spam link