नीलाम्बरो
नीलवपुः किरीटी
गृध्रस्थितास्त्रकरो
धनुष्मान् |
चतुर्भुजः
सूर्यसुतः प्रसन्नः
सदा
ममस्याद्वरदः प्रशान्तः ||
ब्रह्मा उवाच |
शृणुध्वं ऋषयः
सर्वे शनि पीडाहरं महत् |
कवचं शनिराजस्य
सौरैरिदमनुत्तमं ||
कवचं देवतावासं
वज्र पञ्जर संङ्गकम् |
शनैश्चर प्रीतिकरं
सर्वसौभाग्यदायकम् ||
अथ श्री शनि
वज्र पञ्जर कवचम् |
ॐ श्री शनैश्चरः
पातु भालं मे सूर्यनन्दनः |
नेत्रे
छायात्मजः पातु पातु कर्णौ यमानुजः || 1 ||
नासां वैवस्वतः
पातु मुखं मे भास्करः सदा |
स्निग्धकण्ठश्च
मे कण्ठं भुजौ पातु महाभुजः || 2 ||
स्कन्धौ पातु
शनिश्चैव करौ पातु शुभप्रदः |
वक्षः पातु
यमभ्राता कुक्षिं पात्वसितस्तथा || 3 ||
नाभिं ग्रहपतिः
पातु मन्दः पातु कटिं तथा |
ऊरू ममान्तकः
पातु यमो जानुयुगं तथा || 4 ||
पादौ मन्दगतिः
पातु सर्वाङ्गं पातु पिप्पलः |
अङ्गोपाङ्गानि
सर्वाणि रक्षेन् मे सूर्यनन्दनः || 5 ||
फलश्रुतिः
इत्येतत्कवचम्
दिव्यं पठेत्सूर्यसुतस्य यः |
न तस्य जायते
पीडा प्रीतो भवति सूर्यजः ||
व्ययजन्मद्वितीयस्थो
मृत्युस्थानगतोपिवा |
कलत्रस्थो
गतोवापि सुप्रीतस्तु सदा शनिः ||
अष्टमस्थो
सूर्यसुते व्यये जन्मद्वितीयगे |
कवचं पठते नित्यं
न पीडा जायते क्वचित् ||
इत्येतत्कवचं
दिव्यं सौरेर्यन्निर्मितं पुरा |
द्वादशाष्टमजन्मस्थदोषान्नाशयते
सदा |
जन्मलग्नस्थितान्
दोषान् सर्वान्नाशयते प्रभुः ||
इति श्री
ब्रह्माण्डपुराणे ब्रह्मनारदसंवादे शनिवज्रपञ्जर कवचं सम्पूर्णम् ||
No comments:
Post a Comment
please do not enter any spam link