देवी महात्म्यं दुर्ग सप्तासति 11
DEVI MAHATMYAM DURGA SAPTASATI 11
देवी महात्म्यं दुर्ग सप्तासति 11
DEVI MAHATMYAM DURGA SAPTASATI 11
नारायणीस्तुतिर्नाम एकादशोऽध्यायः ||
ध्यानं
ॐ बालार्कविद्युतिं इन्दुकिरीटां तुङ्गकुचां नयनत्रययुक्ताम् |
स्मेरमुखीं वरदाङ्कुशपाशभीतिकरां प्रभजे भुवनेशीम् ||
ऋषिरुवाच||1||
देव्या हते तत्र महासुरेन्द्रे
सेन्द्राः सुरा वह्निपुरोगमास्ताम्|
कात्यायनीं तुष्टुवुरिष्टलाभा-
द्विकासिवक्त्राब्ज विकासिताशाः || 2 ||
देवि प्रपन्नार्तिहरे प्रसीद
प्रसीद मातर्जगतोऽभिलस्य|
प्रसीदविश्वेश्वरि पाहिविश्वं
त्वमीश्वरी देवि चराचरस्य ||3||
आधार भूता जगतस्त्वमेका
महीस्वरूपेण यतः स्थितासि
अपां स्वरूप स्थितया त्वयैत
दाप्यायते कृत्स्नमलङ्घ्य वीर्ये ||4||
त्वं वैष्णवीशक्तिरनन्तवीर्या
विश्वस्य बीजं परमासि माया|
सम्मोहितं देविसमस्त मेतत्-
त्त्वं वै प्रसन्ना भुवि मुक्तिहेतुः ||5||
विद्याः समस्तास्तव देवि भेदाः|
स्त्रियः समस्ताः सकला जगत्सु|
त्वयैकया पूरितमम्बयैतत्
काते स्तुतिः स्तव्यपरापरोक्तिः ||6||
सर्व भूता यदा देवी भुक्ति मुक्तिप्रदायिनी|
त्वं स्तुता स्तुतये का वा भवन्तु परमोक्तयः ||7||
सर्वस्य बुद्धिरूपेण जनस्य हृदि संस्थिते|
स्वर्गापवर्गदे देवि नारायणि नमोऽस्तुते ||8||
कलाकाष्ठादिरूपेण परिणाम प्रदायिनि|
विश्वस्योपरतौ शक्ते नारायणि नमोस्तुते ||9||
सर्व मङ्गल माङ्गल्ये शिवे सर्वार्थ साधिके|
शरण्ये त्रयम्बके गौरी नारायणि नमोऽस्तुते ||10||
सृष्टिस्थितिविनाशानां शक्तिभूते सनातनि|
गुणाश्रये गुणमये नारायणि नमोऽस्तुते ||11||
शरणागत दीनार्त परित्राणपरायणे|
सर्वस्यार्तिहरे देवि नारायणि नमोऽस्तुते ||12||
हंसयुक्त विमानस्थे ब्रह्माणी रूपधारिणी|
कौशाम्भः क्षरिके देवि नारायणि नमोऽस्तुते||13||
त्रिशूलचन्द्राहिधरे महावृषभवाहिनि|
माहेश्वरी स्वरूपेण नारायणि नमोऽस्तुते||14||
मयूर कुक्कुटवृते महाशक्तिधरेऽनघे|
कौमारीरूपसंस्थाने नारायणि नमोस्तुते||15||
शङ्खचक्रगदाशार्ङ्गगृहीतपरमायुधे|
प्रसीद वैष्णवीरूपेनारायणि नमोऽस्तुते||16||
गृहीतोग्रमहाचक्रे दंष्त्रोद्धृतवसुन्धरे|
वराहरूपिणि शिवे नारायणि नमोस्तुते||17||
नृसिंहरूपेणोग्रेण हन्तुं दैत्यान् कृतोद्यमे|
त्रैलोक्यत्राणसहिते नारायणि नमोऽस्तुते||18||
किरीटिनि महावज्रे सहस्रनयनोज्ज्वले|
वृत्रप्राणहारे चैन्द्रि नारायणि नमोऽस्तुते||19||
शिवदूतीस्वरूपेण हतदैत्य महाबले|
घोररूपे महारावे नारायणि नमोऽस्तुते||20||
दंष्त्राकराल वदने शिरोमालाविभूषणे|
चामुण्डे मुण्डमथने नारायणि नमोऽस्तुते||21||
लक्ष्मी लज्जे महाविध्ये श्रद्धे पुष्टि स्वधे ध्रुवे|
महारात्रि महामाये नारायणि नमोऽस्तुते||22||
मेधे सरस्वति वरे भूति बाभ्रवि तामसि|
नियते त्वं प्रसीदेशे नारायणि नमोऽस्तुते||23||
सर्वस्वरूपे सर्वेशे सर्वशक्तिसमन्विते|
भयेभ्यस्त्राहि नो देवि दुर्गे देवि नमोऽस्तुते||24||
एतत्ते वदनं सौम्यं लोचनत्रयभूषितम्|
पातु नः सर्वभूतेभ्यः कात्यायिनि नमोऽस्तुते||25||
ज्वालाकरालमत्युग्रमशेषासुरसूदनम्|
त्रिशूलं पातु नो भीतिर्भद्रकालि नमोऽस्तुते||26||
हिनस्ति दैत्यतेजांसि स्वनेनापूर्य या जगत्|
सा घण्टा पातु नो देवि पापेभ्यो नः सुतानिव||27||
असुरासृग्वसापङ्कचर्चितस्ते करोज्वलः|
शुभाय खड्गो भवतु चण्डिके त्वां नता वयम्||28||
रोगानशेषानपहंसि तुष्टा
रुष्टा तु कामा सकलानभीष्टान्
त्वामाश्रितानां न विपन्नराणां|
त्वामाश्रिता श्रयतां प्रयान्ति||29||
एतत्कृतं यत्कदनं त्वयाद्य
दर्मद्विषां देवि महासुराणाम्|
रूपैरनेकैर्भहुधात्ममूर्तिं
कृत्वाम्भिके तत्प्रकरोति कान्या||30||
विद्यासु शास्त्रेषु विवेक दीपे
ष्वाद्येषु वाक्येषु च का त्वदन्या
ममत्वगर्तेऽति महान्धकारे
विभ्रामयत्येतदतीव विश्वम्||31||
रक्षांसि यत्रो ग्रविषाश्च नागा
यत्रारयो दस्युबलानि यत्र|
दवानलो यत्र तथाब्धिमध्ये
तत्र स्थिता त्वं परिपासि विश्वम्||32||
विश्वेश्वरि त्वं परिपासि विश्वं
विश्वात्मिका धारयसीति विश्वम्|
विश्वेशवन्ध्या भवती भवन्ति
विश्वाश्रया येत्वयि भक्तिनम्राः||33||
देवि प्रसीद परिपालय नोऽरि
भीतेर्नित्यं यथासुरवदादधुनैव सद्यः|
पापानि सर्व जगतां प्रशमं नयाशु
उत्पातपाकजनितांश्च महोपसर्गान्||34||
प्रणतानां प्रसीद त्वं देवि विश्वार्ति हारिणि|
त्रैलोक्यवासिनामीड्ये लोकानां वरदा भव||35||
देव्युवाच||36||
वरदाहं सुरगणा परं यन्मनसेच्चथ|
तं वृणुध्वं प्रयच्छामि जगतामुपकारकम्||37||
देवा ऊचुः||38||
सर्वबाधा प्रशमनं त्रैलोक्यस्याखिलेश्वरि|
एवमेव त्वयाकार्य मस्मद्वैरि विनाशनम्||39||
देव्युवाच||40||
वैवस्वतेऽन्तरे प्राप्ते अष्टाविंशतिमे युगे|
शुम्भो निशुम्भश्चैवान्यावुत्पत्स्येते महासुरौ||41||
नन्दगोपगृहे जाता यशोदागर्भ सम्भवा|
ततस्तौनाशयिष्यामि विन्ध्याचलनिवासिनी||42||
पुनरप्यतिरौद्रेण रूपेण पृथिवीतले|
अवतीर्य हविष्यामि वैप्रचित्तांस्तु दानवान्||43||
भक्ष्य यन्त्याश्च तानुग्रान् वैप्रचित्तान् महासुरान्|
रक्तदन्ता भविष्यन्ति दाडिमीकुसुमोपमाः||44||
ततो मां देवताः स्वर्गे मर्त्यलोके च मानवाः|
स्तुवन्तो व्याहरिष्यन्ति सततं रक्तदन्तिकाम्||45||
भूयश्च शतवार्षिक्यां अनावृष्ट्यामनम्भसि|
मुनिभिः संस्तुता भूमौ सम्भविष्याम्ययोनिजा||46||
ततः शतेन नेत्राणां निरीक्षिष्याम्यहं मुनीन्
कीर्तियिष्यन्ति मनुजाः शताक्षीमिति मां ततः||47||
ततोऽ हमखिलं लोकमात्मदेहसमुद्भवैः|
भरिष्यामि सुराः शाकैरावृष्टेः प्राण धारकैः||48||
शाकम्भरीति विख्यातिं तदा यास्याम्यहं भुवि|
तत्रैव च वधिष्यामि दुर्गमाख्यं महासुरम्||49||
दुर्गादेवीति विख्यातं तन्मे नाम भविष्यति|
पुनश्चाहं यदाभीमं रूपं कृत्वा हिमाचले||50||
रक्षांसि क्षययिष्यामि मुनीनां त्राण कारणात्|
तदा मां मुनयः सर्वे स्तोष्यन्त्यान म्रमूर्तयः||51||
भीमादेवीति विख्यातं तन्मे नाम भविष्यति|
यदारुणाख्यस्त्रैलॊक्ये महाबाधां करिष्यति||52||
तदाहं भ्रामरं रूपं कृत्वासज्ख्येयषट्पदम्|
त्रैलोक्यस्य हितार्थाय वधिष्यामि महासुरम्||53||
भ्रामरीतिच मां लोका स्तदास्तोष्यन्ति सर्वतः|
इत्थं यदा यदा बाधा दानवोत्था भविष्यति||54||
तदा तदावतीर्याहं करिष्याम्यरिसङ्क्षयम् ||55||
|| स्वस्ति श्री मार्कण्डेय पुराणे सावर्निके मन्वन्तरे देवि महत्म्ये नारायणीस्तुतिर्नाम एकादशोऽध्यायः समाप्तं ||
आहुति
ॐ क्लीं जयन्ती साङ्गायै सशक्तिकायै सपरिवारायै सवाहनायै लक्ष्मीबीजाधिष्तायै गरुडवाहन्यै नारयणी देव्यै-महाहुतिं समर्पयामि नमः स्वाहा ||
No comments:
Post a Comment
please do not enter any spam link