देवी महात्म्यं देवी कवचं
DEVI MAHATMYAM DEVI KAVACHAM
देवी महात्म्यं देवी कवचं
DEVI MAHATMYAM DEVI KAVACHAM
ॐ नमश्चण्डिकायै
न्यासः
अस्य श्री चण्डी कवचस्य | ब्रह्मा ऋषिः | अनुष्टुप् छन्दः |
चामुण्डा देवता | अङ्गन्यासोक्त मातरो बीजम् | नवावरणो मन्त्रशक्तिः | दिग्बन्ध देवताः तत्वं | श्री जगदम्बा प्रीत्यर्थे सप्तशती पाठाङ्गत्वेन जपे विनियोगः ||
ॐ नमश्चण्डिकायै
मार्कण्डेय
उवाच |
ॐ यद्गुह्यं परमं लोके सर्वरक्षाकरं नृणाम् |
यन्न कस्यचिदाख्यातं तन्मे ब्रूहि पितामह ||
1 ||
ब्रह्मोवाच
|
अस्ति गुह्यतमं विप्र सर्वभूतोपकारकम् |
देव्यास्तु
कवचं पुण्यं तच्छृणुष्व महामुने ||
2 ||
प्रथमं शैलपुत्री च द्वितीयं ब्रह्मचारिणी |
तृतीयं चन्द्रघण्टेति कूष्माण्डेति चतुर्थकम् ||
3 ||
पञ्चमं स्कन्दमातेति षष्ठं कात्यायनीति च |
सप्तमं कालरात्रीति महागौरीति चाष्टमम् ||
4 ||
नवमं सिद्धिदात्री च नवदुर्गाः प्रकीर्तिताः |
उक्तान्येतानि
नामानि ब्रह्मणैव महात्मना ||
5 ||
अग्निना दह्यमानस्तु शत्रुमध्ये गतो रणे |
विषमे दुर्गमे चैव भयार्ताः शरणं गताः ||
6 ||
न तेषां जायते किञ्चिदशुभं रणसङ्कटे |
नापदं तस्य पश्यामि शोकदुःखभयं न हि ||
7 ||
यैस्तु भक्त्या स्मृता नूनं तेषां वृद्धिः प्रजायते |
ये त्वां स्मरन्ति देवेशि रक्षसे तान्नसंशयः ||
8 ||
प्रेतसंस्था
तु चामुण्डा वाराही महिषासना |
ऐन्द्री गजसमारूढा वैष्णवी गरुडासना ||
9 ||
माहेश्वरी वृषारूढा कौमारी शिखिवाहना |
लक्ष्मीः पद्मासना देवी पद्महस्ता हरिप्रिया ||
10 ||
श्वेतरूपधरा
देवी ईश्वरी वृषवाहना |
ब्राह्मी हंससमारूढा सर्वाभरणभूषिता ||
11 ||
इत्येता मातरः सर्वाः सर्वयोगसमन्विताः |
नानाभरणाशोभाढ्या नानारत्नोपशोभिताः ||
12 ||
दृश्यन्ते रथमारूढा देव्यः क्रोधसमाकुलाः |
शङ्खं चक्रं गदां शक्तिं हलं च मुसलायुधम् ||
13 ||
खेटकं तोमरं चैव परशुं पाशमेव च |
कुन्तायुधं
त्रिशूलं च शार्ङ्गमायुधमुत्तमम् ||
14 ||
दैत्यानां देहनाशाय भक्तानामभयाय च |
धारयन्त्यायुधानीत्थं देवानां च हिताय वै ||
15 ||
नमस्तेऽस्तु
महारौद्रे महाघोरपराक्रमे |
महाबले महोत्साहे महाभयविनाशिनि ||
16 ||
त्राहि मां देवि दुष्प्रेक्ष्ये शत्रूणां भयवर्धिनि |
प्राच्यां रक्षतु मामैन्द्री आग्नेय्यामग्निदेवता ||
17 ||
दक्षिणेऽवतु
वाराही नैरृत्यां खड्गधारिणी |
प्रतीच्यां
वारुणी रक्षेद्वायव्यां मृगवाहिनी ||
18 ||
उदीच्यां पातु कौमारी ऐशान्यां शूलधारिणी |
ऊर्ध्वं ब्रह्माणी मे रक्षेदधस्ताद्वैष्णवी तथा ||
19 ||
एवं दश
दिशो रक्षेच्चामुण्डा शववाहना |
जया मे
चाग्रतः पातु विजया पातु पृष्ठतः ||
20 ||
अजिता वामपार्श्वे तु दक्षिणे चापराजिता |
शिखामुद्योतिनी
रक्षेदुमा मूर्ध्नि व्यवस्थिता ||
21 ||
मालाधरी ललाटे च भ्रुवौ रक्षेद्यशस्विनी |
त्रिनेत्रा
च भ्रुवोर्मध्ये यमघण्टा च नासिके ||
22 ||
शङ्खिनी चक्षुषोर्मध्ये श्रोत्रयोर्द्वारवासिनी |
कपोलौ कालिका रक्षेत्कर्णमूले तु शाङ्करी ||
23 ||
नासिकायां सुगन्धा च उत्तरोष्ठे च चर्चिका |
अधरे चामृतकला जिह्वायां च सरस्वती ||
24 ||
दन्तान् रक्षतु कौमारी कण्ठदेशे तु चण्डिका |
घण्टिकां चित्रघण्टा च महामाया च तालुके ||
25 ||
कामाक्षी चिबुकं रक्षेद्वाचं मे सर्वमङ्गला |
ग्रीवायां भद्रकाली च पृष्ठवंशे धनुर्धरी ||
26 ||
नीलग्रीवा बहिः कण्ठे नलिकां नलकूबरी |
स्कन्धयोः खड्गिनी रक्षेद्बाहू मे वज्रधारिणी ||
27 ||
हस्तयोर्दण्डिनी रक्षेदम्बिका चाङ्गुलीषु च |
नखाञ्छूलेश्वरी
रक्षेत्कुक्षौ रक्षेत्कुलेश्वरी ||
28 ||
स्तनौ रक्षेन्महादेवी मनःशोकविनाशिनी |
हृदये ललिता देवी उदरे शूलधारिणी ||
29 ||
नाभौ च
कामिनी रक्षेद्गुह्यं गुह्येश्वरी तथा |
पूतना कामिका मेढ्रं गुदे महिषवाहिनी ||
30 ||
कट्यां भगवती रक्षेज्जानुनी विन्ध्यवासिनी |
जङ्घे महाबला रक्षेत्सर्वकामप्रदायिनी ||
31 ||
गुल्फयोर्नारसिंही च पादपृष्ठे तु तैजसी |
पादाङ्गुलीषु
श्री रक्षेत्पादाधस्तलवासिनी ||
32 ||
नखान् दंष्ट्रकराली च केशांश्चैवोर्ध्वकेशिनी |
रोमकूपेषु कौबेरी त्वचं वागीश्वरी तथा ||
33 ||
रक्तमज्जावसामांसान्यस्थिमेदांसि पार्वती |
अन्त्राणि कालरात्रिश्च पित्तं च मुकुटेश्वरी ||
34 ||
पद्मावती पद्मकोशे कफे चूडामणिस्तथा |
ज्वालामुखी
नखज्वालामभेद्या सर्वसन्धिषु ||
35 ||
शुक्रं ब्रह्माणि! मे रक्षेच्छायां छत्रेश्वरी तथा |
अहङ्कारं मनो बुद्धिं रक्षेन्मे धर्मधारिणी ||
36 ||
प्राणापानौ
तथा व्यानमुदानं च समानकम् |
वज्रहस्ता च
मे रक्षेत्प्राणं कल्याणशोभना ||
37 ||
रसे रूपे च गन्धे च शब्दे स्पर्शे च योगिनी |
सत्त्वं रजस्तमश्चैव रक्षेन्नारायणी सदा ||
38 ||
आयू रक्षतु वाराही धर्मं रक्षतु वैष्णवी |
यशः कीर्तिं च लक्ष्मीं च धनं विद्यां च चक्रिणी ||
39 ||
गोत्रमिन्द्राणि! मे रक्षेत्पशून्मे रक्ष चण्डिके |
पुत्रान् रक्षेन्महालक्ष्मीर्भार्यां रक्षतु भैरवी ||
40 ||
पन्थानं सुपथा रक्षेन्मार्गं क्षेमकरी तथा |
राजद्वारे महालक्ष्मीर्विजया सर्वतः स्थिता ||
41 ||
रक्षाहीनं तु
यत्-स्थानं वर्जितं कवचेन तु |
तत्सर्वं रक्ष मे देवि! जयन्ती पापनाशिनी ||
42 ||
पदमेकं न
गच्छेत्तु यदीच्छेच्छुभमात्मनः |
कवचेनावृतो
नित्यं यत्र यत्रैव गच्छति ||
43 ||
तत्र तत्रार्थलाभश्च विजयः सार्वकामिकः |
यं यं
चिन्तयते कामं तं तं प्राप्नोति निश्चितम् ||
44 ||
परमैश्वर्यमतुलं प्राप्स्यते भूतले पुमान् |
निर्भयो जायते मर्त्यः सङ्ग्रामेष्वपराजितः ||
45 ||
त्रैलोक्ये
तु भवेत्पूज्यः कवचेनावृतः पुमान् |
इदं तु
देव्याः कवचं देवानामपि दुर्लभम् ||
46 ||
यः पठेत्प्रयतो नित्यं त्रिसन्ध्यं श्रद्धयान्वितः |
दैवीकला भवेत्तस्य त्रैलोक्येष्वपराजितः |
47 ||
जीवेद्वर्षशतं
साग्रमपमृत्युविवर्जितः |
नश्यन्ति व्याधयः सर्वे लूताविस्फोटकादयः ||
48 ||
स्थावरं जङ्गमं चैव कृत्रिमं चैव यद्विषम् |
अभिचाराणि सर्वाणि मन्त्रयन्त्राणि भूतले ||
49 ||
भूचराः खेचराश्चैव जुलजाश्चोपदेशिकाः |
सहजा कुलजा माला डाकिनी शाकिनी तथा ||
50 ||
अन्तरिक्षचरा
घोरा डाकिन्यश्च महाबलाः |
ग्रहभूतपिशाचाश्च यक्षगन्धर्वराक्षसाः ||
51 ||
ब्रह्मराक्षसवेतालाः कूष्माण्डा भैरवादयः |
नश्यन्ति दर्शनात्तस्य कवचे हृदि संस्थिते ||
52 ||
मानोन्नतिर्भवेद्राज्ञस्तेजोवृद्धिकरं परं |
यशसा वर्धते सोऽपि कीर्तिमण्डितभूतले ||
53 ||
जपेत्सप्तशतीं
चण्डीं कृत्वा तु कवचं पुरा |
यावद्भूमण्डलं
धत्ते सशैलवनकाननम् ||
54 ||
तावत्तिष्ठति
मेदिन्यां सन्ततिः पुत्रपौत्रिकी |
देहान्ते परमं स्थानं यत्सुरैरपि दुर्लभम् ||
55 ||
प्राप्नोति
पुरुषो नित्यं महामायाप्रसादतः |
लभते परमं रूपं शिवेन सह मोदते ||
56 ||
|| इति वाराहपुराणे हरिहरब्रह्म विरचितं देव्याः कवचं सम्पूर्णम् ||
No comments:
Post a Comment
please do not enter any spam link