देवी महात्म्यं दुर्ग सप्तासति
DEVI
MAHATMYAM DURGA SAPTASATI
CHAPTER
1
देवी महात्म्यं दुर्ग सप्तासति
DEVI MAHATMYAM DURGA SAPTASATI
CHAPTER 1
|| देवी माहात्म्यम् ||
|| श्रीदुर्गायै
नमः ||
|| अथ श्रीदुर्गासप्तशती ||
|| मधुकैटभवधो
नाम प्रथमोऽध्यायः ||
अस्य श्री प्रधम चरित्रस्य ब्रह्मा ऋषिः |
महाकाली देवता |
गायत्री छन्दः |
नन्दा शक्तिः |
रक्त दन्तिका बीजम् |
अग्निस्तत्वम् |
ऋग्वेदः स्वरूपं |
श्री महाकाली प्रीत्यर्धे प्रधम चरित्र जपे विनियोगः |
ध्यानं
खड्गं चक्र गदेषुचाप परिघा शूलं भुशुण्डीं शिरः
शंङ्खं सन्दधतीं करैस्त्रिनयनां सर्वांङ्गभूषावृताम् |
यां हन्तुं मधुकैभौ जलजभूस्तुष्टाव सुप्ते हरौ
नीलाश्मद्युति
मास्यपाददशकां सेवे महाकालिकां||
ॐ नमश्चण्डिकायै
ॐ ऐं
मार्कण्डेय उवाच||1||
सावर्णिः सूर्यतनयो योमनुः कथ्यतेऽष्टमः|
निशामय तदुत्पत्तिं विस्तराद्गदतो मम ||2||
महामायानुभावेन
यथा मन्वन्तराधिपः
स बभूव महाभागः सावर्णिस्तनयो रवेः ||3||
स्वारोचिषेऽन्तरे पूर्वं चैत्रवंशसमुद्भवः|
सुरथो नाम राजाऽभूत् समस्ते क्षितिमण्डले ||4||
तस्य पालयतः सम्यक् प्रजाः पुत्रानिवौरसान्|
बभूवुः शत्रवो भूपाः कोलाविध्वंसिनस्तदा ||5||
तस्य तैरभवद्युद्धं अतिप्रबलदण्डिनः|
न्यूनैरपि स
तैर्युद्धे कोलाविध्वंसिभिर्जितः ||6||
ततः स्वपुरमायातो निजदेशाधिपोऽभवत्|
आक्रान्तः स
महाभागस्तैस्तदा प्रबलारिभिः ||7||
अमात्यैर्बलिभिर्दुष्टै र्दुर्बलस्य दुरात्मभिः|
कोशो बलं चापहृतं तत्रापि स्वपुरे ततः ||8||
ततो मृगयाव्याजेन हृतस्वाम्यः स भूपतिः|
एकाकी हयमारुह्य जगाम गहनं वनम् ||9||
सतत्राश्रममद्राक्षी द्द्विजवर्यस्य मेधसः|
प्रशान्तश्वापदाकीर्ण मुनिशिष्योपशोभितम् ||10||
तस्थौ कञ्चित्स कालं च मुनिना तेन सत्कृतः|
इतश्चेतश्च
विचरंस्तस्मिन् मुनिवराश्रमे||11||
सोऽचिन्तयत्तदा
तत्र ममत्वाकृष्टचेतनः| ||12||
मत्पूर्वैः
पालितं पूर्वं मयाहीनं पुरं हि तत्
मद्भृत्यैस्तैरसद्वृत्तैः र्धर्मतः पाल्यते न वा ||13||
न जाने स प्रधानो मे शूर हस्तीसदामदः
मम वैरिवशं यातः कान्भोगानुपलप्स्यते ||14||
ये ममानुगता नित्यं प्रसादधनभोजनैः
अनुवृत्तिं
ध्रुवं तेऽद्य कुर्वन्त्यन्यमहीभृतां ||15||
असम्यग्व्ययशीलैस्तैः कुर्वद्भिः सततं व्ययं
सञ्चितः सोऽतिदुःखेन क्षयं कोशो गमिष्यति ||16||
एतच्चान्यच्च
सततं चिन्तयामास पार्थिवः
तत्र विप्राश्रमाभ्याशे वैश्यमेकं ददर्श सः ||17||
स पृष्टस्तेन कस्त्वं भो हेतुश्च आगमनेऽत्र कः
सशोक इव
कस्मात्वं दुर्मना इव लक्ष्यसे| ||18||
इत्याकर्ण्य
वचस्तस्य भूपतेः प्रणायोदितम्
प्रत्युवाच
स तं वैश्यः प्रश्रयावनतो नृपम्||19||
वैश्य उवाच ||20||
समाधिर्नाम
वैश्योऽहमुत्पन्नो धनिनां कुले
पुत्रदारैर्निरस्तश्च धनलोभाद् असाधुभिः||21||
विहीनश्च धनैदारैः पुत्रैरादाय मे धनम्|
वनमभ्यागतो
दुःखी निरस्तश्चाप्तबन्धुभिः||22||
सोऽहं न
वेद्मि पुत्राणां कुशलाकुशलात्मिकाम्|
प्रवृत्तिं
स्वजनानां च दाराणां चात्र संस्थितः||23||
किं नु
तेषां गृहे क्षेमं अक्षेमं किंनु साम्प्रतं
कथं तेकिंनुसद्वृत्ता दुर्वृत्ता किंनुमेसुताः||24||
राजोवाच||25||
यैर्निरस्तो
भवांल्लुब्धैः पुत्रदारादिभिर्धनैः||26||
तेषु किं भवतः स्नेह मनुबध्नाति मानसम्||27||
वैश्य उवाच ||28||
एवमेतद्यथा
प्राह भवानस्मद्गतं वचः
किं करोमि न बध्नाति मम निष्टुरतां मनः||29||
ऐः सन्त्यज्य पितृस्नेहं धन लुब्धैर्निराकृतः
पतिःस्वजनहार्दं च हार्दितेष्वेव मे मनः| ||30||
किमेतन्नाभिजानामि जानन्नपि महामते
यत्प्रेम प्रवणं चित्तं विगुणेष्वपि बन्धुषु||31||
तेषां कृते मे निःश्वासो दौर्मनस्यं चजायते||32||
अरोमि किं यन्न मनस्तेष्वप्रीतिषु निष्ठुरम् ||33||
माकण्डेय उवाच ||34||
ततस्तौ सहितौ विप्र तंमुनिं समुपस्थितौ||35||
समाधिर्नाम
वैश्योऽसौ स च पार्धिव सत्तमः||36||
कृत्वा तु
तौ यथान्याय्यं यथार्हं तेन संविदम्|
उपविष्टौ कथाः काश्चित्च्चक्रतुर्वैश्यपार्धिवौ||37||
राजोउवाच ||38||
भगवंस्त्वामहं
प्रष्टुमिच्छाम्येकं वदस्वतत् ||39||
दुःखाय यन्मे मनसः स्वचित्तायत्ततां विना||40||
मआनतोऽपि यथाज्ञस्य किमेतन्मुनिसत्तमः ||41||
अयं च
इकृतः पुत्रैः दारैर्भृत्यैस्तथोज्घितः
स्वजनेन च
सन्त्यक्तः स्तेषु हार्दी तथाप्यति ||42||
एव मेष तथाहं च द्वावप्त्यन्तदुःखितौ|
दृष्टदोषेऽपि
विषये ममत्वाकृष्टमानसौ ||43||
तत्केनैतन्महाभाग यन्मोहॊ ज्ञानिनोरपि
ममास्य च
भवत्येषा विवेकान्धस्य मूढता ||44||
ऋषिरुवाच||45||
ज्ञान मस्ति समस्तस्य जन्तोर्व्षय गोचरे|
विषयश्च महाभाग यान्ति चैवं पृथक्पृथक्||46||
केचिद्दिवा
तथा रात्रौ प्राणिनः स्तुल्यदृष्टयः ||47||
ज्ञानिनो मनुजाः सत्यं किं तु ते न हि केवलम्|
यतो हि
ज्ञानिनः सर्वे पशुपक्षिमृगादयः||48||
ज्ञानं च
तन्मनुष्याणां यत्तेषां मृगपक्षिणां
मनुष्याणां
च यत्तेषां तुल्यमन्यत्तथोभयोः||49||
ज्ञानेऽपि सति पश्यैतान् पतगाञ्छाबचञ्चुषु|
कणमोक्षादृतान्
मोहात्पीड्यमानानपि क्षुधा||50||
मानुषा मनुजव्याघ्र साभिलाषाः सुतान् प्रति
लोभात् प्रत्युपकाराय नन्वेतान् किं न पश्यसि||51||
तथापि ममतावर्ते मोहगर्ते निपातिताः
महामाया प्रभावेण संसारस्थितिकारिणा||52||
तन्नात्र विस्मयः कार्यो योगनिद्रा जगत्पतेः|
महामाया हरेश्चैषा तया सम्मोह्यते जगत्||53||
ज्ङानिनामपि
चेतांसि देवी भगवती हि सा
बलादाक्ऱ्ष्यमोहाय महामाया प्रयच्छति ||54||
तया विसृज्यते विश्वं जगदेतच्चराचरम् |
सैषा प्रसन्ना वरदा नृणां भवति मुक्तये ||55||
सा विद्या परमा मुक्तेर्हेतुभूता सनातनी
संसारबन्धहेतुश्च सैव सर्वेश्वरेश्वरी||56||
राजोवाच||57||
भगवन् काहि सा देवी मामायेति यां भवान् |
ब्रवीति क्थमुत्पन्ना सा कर्मास्याश्च किं द्विज||58||
यत्प्रभावा
च सा देवी यत्स्वरूपा यदुद्भवा|
तत्सर्वं श्रोतुमिच्छामि त्वत्तो ब्रह्मविदां वर||59||
ऋषिरुवाच ||60||
नित्यैव सा
जगन्मूर्तिस्तया सर्वमिदं ततम्||61||
तथापि तत्समुत्पत्तिर्बहुधा श्रूयतां ममः||62||
देवानां कार्यसिद्ध्यर्थं आविर्भवति सा यदा|
उत्पन्नेति
तदा लोके सा नित्याप्यभिधीयते ||63||
योगनिद्रां
यदा विष्णुर्जगत्येकार्णवीकृते|
आस्तीर्य शेषमभजत् कल्पान्ते भगवान् प्रभुः||64||
तदा द्वावसुरौ घोरौ विख्यातौ मधुकैटभौ|
विष्णुकर्णमलोद्भूतौ हन्तुं ब्रह्माणमुद्यतौ||65||
स नाभि कमले विष्णोः स्थितो ब्रह्मा प्रजापतिः
दृष्ट्वा तावसुरौ चोग्रौ प्रसुप्तं च जनार्दनम्||66||
तुष्टाव योगनिद्रां तामेकाग्रहृदयः स्थितः
विबोधनार्धाय
हरेर्हरिनेत्रकृतालयाम् ||67||
विश्वेश्वरीं
जगद्धात्रीं स्थितिसंहारकारिणीम्|
निद्रां भगवतीं विष्णोरतुलां तेजसः प्रभुः ||68||
ब्रह्मोवाच
||69||
त्वं स्वाहा त्वं स्वधा त्वंहि वषट्कारः स्वरात्मिका|
सुधा त्वमक्षरे नित्ये त्रिधा मात्रात्मिका स्थिता||70||
अर्धमात्रा
स्थिता नित्या यानुच्चार्याविशेषतः
त्वमेव सा
त्वं सावित्री त्वं देव जननी परा ||71||
त्वयैतद्धार्यते विश्वं त्वयैतत् सृज्यते जगत्|
त्वयैतत् पाल्यते देवि त्वमत्स्यन्ते च सर्वदा||72||
विसृष्टौ सृष्टिरूपात्वं स्थिति रूपा च पालने|
तथा संहृतिरूपान्ते जगतोऽस्य जगन्मये ||73||
महाविद्या महामाया महामेधा महास्मृतिः|
महामोहा च
भवती महादेवी महासुरी ||74||
प्रकृतिस्त्वं
च सर्वस्य गुणत्रय विभाविनी|
कालरात्रिर्महारात्रिर्मोहरात्रिश्च दारुणा||75||
त्वं श्रीस्त्वमीश्वरी त्वं ह्रीस्त्वं बुद्धिर्भोधलक्षणा|
लज्जापुष्टिस्तथा तुष्टिस्त्वं शान्तिः क्षान्ति रेव च||76||
खड्गिनी शूलिनी घोरा गदिनी चक्रिणी तथा|
शङ्खिणी चापिनी बाणाभुशुण्डीपरिघायुधा||77||
सौम्या सौम्यतराशेषसौम्येभ्यस्त्वतिसुन्दरी
परापराणां परमा त्वमेव परमेश्वरी||78||
यच्च किञ्चित्क्वचिद्वस्तु सदसद्वाखिलात्मिके|
तस्य सर्वस्य या शक्तिः सा त्वं किं स्तूयसेमया||79||
यया त्वया जगत् स्रष्टा जगत्पातात्ति यो जगत्|
सोऽपि निद्रावशं नीतः कस्त्वां स्तोतुमिहेश्वरः||80||
विष्णुः शरीरग्रहणं अहमीशान एव च
कारितास्ते
यतोऽतस्त्वां कः स्तोतुं शक्तिमान् भवेत्||81||
सा त्वमित्थं प्रभावैः स्वैरुदारैर्देवि संस्तुता|
मोहयैतौ दुराधर्षावसुरौ मधुकैटभौ ||82||
प्रबोधं च
जगत्स्वामी नीयतामच्युता लघु ||83||
बोधश्च क्रियतामस्य हन्तुमेतौ महासुरौ ||83||
ऋषिरुवाच ||84||
एवं स्तुता तदा देवी तामसी तत्र वेधसा
विष्णोः प्रभोधनार्धाय निहन्तुं मधुकैटभौ ||85||
नेत्रास्यनासिकाबाहुहृदयेभ्यस्तथोरसः|
निर्गम्य दर्शने तस्थौ ब्रह्मणो अव्यक्तजन्मनः ||86||
उत्तस्थौ च
जगन्नाथः स्तया मुक्तो जनार्दनः|
एकार्णवे अहिशयनात्ततः स ददृशे च तौ ||87||
मधुकैटभौ दुरात्माना वतिवीर्यपराक्रमौ
क्रोधरक्तेक्षणावत्तुं ब्रह्मणां जनितोद्यमौ ||88||
समुत्थाय ततस्ताभ्यां युयुधे भगवान् हरिः
पञ्चवर्षसहस्त्राणि बाहुप्रहरणो विभुः ||89||
तावप्यतिबलोन्मत्तौ महामायाविमोहितौ ||90||
उक्तवन्तौ वरोऽस्मत्तो व्रियतामिति केशवम् ||91||
श्री भगवानुवाच ||92||
भवेतामद्य मे
तुष्टौ मम वध्यावुभावपि ||93||
किमन्येन वरेणात्र एतावृद्दि वृतं मम ||94||
ऋषिरुवाच ||95||
वञ्चिताभ्यामिति तदा सर्वमापोमयं जगत्|
विलोक्य ताभ्यां गदितो भगवान् कमलेक्षणः ||96||
आवां जहि न यत्रोर्वी सलिलेन परिप्लुता| ||97||
ऋषिरुवाच ||98||
तथेत्युक्त्वा
भगवता शङ्खचक्रगदाभृता|
कृत्वा चक्रेण वै छिन्ने जघने शिरसी तयोः ||99||
एवमेषा समुत्पन्ना ब्रह्मणा संस्तुता स्वयम्|
प्रभावमस्या
देव्यास्तु भूयः शृणु वदामि ते ||100||
|| जय जय
श्री स्वस्ति श्रीमार्कण्डेयपुराणे सावर्णिके मन्वन्तरे देवीमहात्म्ये मधुकैटभवधो नाम प्रधमोऽध्यायः ||
आहुति
ॐ एं
साङ्गायै सायुधायै सशक्तिकायै सपरिवारायै सवाहनायै एं बीजाधिष्टायै महा कालिकायै महा अहुतिं समर्पयामि नमः स्वाहा ||
No comments:
Post a Comment
please do not enter any spam link