देवी महात्म्यं दुर्ग सप्तासति 3
DEVI MAHATMYAM DURGA
SAPTASATI 3
देवी महात्म्यं दुर्ग सप्तासति 3
DEVI MAHATMYAM DURGA SAPTASATI 3
महिषासुरवधो
नाम तृतीयोऽध्यायः ||
ध्यानं
ॐ उद्यद्भानुसहस्रकान्तिं अरुणक्षौमां शिरोमालिकां
रक्तालिप्त
पयोधरां जपवटीं विद्यामभीतिं वरं |
हस्ताब्जैर्धधतीं त्रिनेत्रवक्त्रारविन्दश्रियं
देवीं बद्धहिमांशुरत्नमकुटां वन्देऽरविन्दस्थिताम् ||
ऋषिरुवाच ||1||
निहन्यमानं
तत्सैन्यं अवलोक्य महासुरः|
सेनानीश्चिक्षुरः कोपाद् ध्ययौ योद्धुमथाम्बिकाम् ||2||
स देवीं शरवर्षेण ववर्ष समरेऽसुरः|
यथा मेरुगिरेःशृङ्गं तोयवर्षेण तोयदः ||3||
तस्य छित्वा ततो देवी लीलयैव शरोत्करान्|
जघान तुरगान्बाणैर्यन्तारं चैव वाजिनाम् ||4||
चिच्छेद च
धनुःसध्यो ध्वजं चातिसमुच्छृतम्|
विव्याध चैव गात्रेषु चिन्नधन्वानमाशुगैः ||5||
सच्छिन्नधन्वा
विरथो हताश्वो हतसारथिः|
अभ्यधावत तां देवीं खड्गचर्मधरोऽसुरः ||6||
सिंहमाहत्य
खड्गेन तीक्ष्णधारेण मूर्धनि|
आजघान भुजे सव्ये देवीं अव्यतिवेगवान् ||6||
तस्याः खड्गो भुजं प्राप्य पफाल नृपनन्दन|
ततो जग्राह शूलं स कोपाद् अरुणलोचनः ||8||
चिक्षेप च
ततस्तत्तु भद्रकाल्यां महासुरः|
जाज्वल्यमानं
तेजोभी रविबिम्बमिवाम्बरात् ||9||
दृष्ट्वा तदापतच्छूलं देवी शूलममुञ्चत|
तच्छूलंशतधा
तेन नीतं शूलं स च महासुरः ||10||
हते तस्मिन्महावीर्ये महिषस्य चमूपतौ|
आजगाम गजारूडः श्चामरस्त्रिदशार्दनः ||11||
सोऽपि शक्तिंमुमोचाथ देव्यास्तां अम्बिका द्रुतम्|
हुङ्काराभिहतां
भूमौ पातयामासनिष्प्रभाम् ||12||
भग्नां शक्तिं निपतितां दृष्ट्वा क्रोधसमन्वितः
चिक्षेप चामरः शूलं बाणैस्तदपि साच्छिनत् ||13||
ततः सिंहःसमुत्पत्य गजकुन्तरे म्भान्तरेस्थितः|
बाहुयुद्धेन
युयुधे तेनोच्चैस्त्रिदशारिणा ||14||
युध्यमानॊउ
ततस्तॊउ तु तस्मान्नागान्महीं गतॊउ
युयुधातेऽतिसंरब्धौ प्रहारै अतिदारुणैः ||15||
ततो वेगात् खमुत्पत्य निपत्य च मृगारिणा|
करप्रहारेण
शिरश्चामरस्य पृथक् कृतम् ||16||
उदग्रश्च रणे देव्या शिलावृक्षादिभिर्हतः|
दन्त मुष्टितलैश्चैव करालश्च निपातितः ||17||
देवी कृद्धा गदापातैः श्चूर्णयामास चोद्धतम्|
भाष्कलं भिन्दिपालेन बाणैस्ताम्रं तथान्धकम् ||18||
उग्रास्यमुग्रवीर्यं च तथैव च महाहनुम्
त्रिनेत्रा
च त्रिशूलेन जघान परमेश्वरी ||19||
बिडालस्यासिना
कायात् पातयामास वै शिरः|
दुर्धरं दुर्मुखं चोभौ शरैर्निन्ये यमक्षयम् ||20||
एवं सङ्क्षीयमाणे तु स्वसैन्ये महिषासुरः|
माहिषेण स्वरूपेण त्रासयामासतान् गणान् ||21||
कांश्चित्तुण्डप्रहारेण खुरक्षेपैस्तथापरान्|
लाङ्गूलताडितांश्चान्यान् शृङ्गाभ्यां च विदारिता ||22||
वेगेन कांश्चिदपरान्नादेन भ्रमणेन च|
निः श्वासपवनेनान्यान् पातयामास भूतले||23||
निपात्य प्रमथानीकमभ्यधावत सोऽसुरः
सिंहं हन्तुं महादेव्याः कोपं चक्रे ततोऽम्भिका ||24||
सोऽपि कोपान्महावीर्यः खुरक्षुण्णमहीतलः|
शृङ्गाभ्यां
पर्वतानुच्चांश्चिक्षेप च ननाद च ||25||
वेग भ्रमण विक्षुण्णा मही तस्य व्यशीर्यत|
लाङ्गूलेनाहतश्चाब्धिः प्लावयामास सर्वतः ||26||
धुतशृङ्ग्विभिन्नाश्च खण्डं खण्डं ययुर्घनाः|
श्वासानिलास्ताः शतशो निपेतुर्नभसोऽचलाः ||27||
इतिक्रोधसमाध्मातमापतन्तं महासुरम्|
दृष्ट्वा सा
चण्डिका कोपं तद्वधाय तदाऽकरोत् ||28||
सा क्षित्प्वा तस्य वैपाशं तं बबन्ध महासुरम्|
तत्याजमाहिषं
रूपं सोऽपि बद्धो महामृधे ||29||
ततः सिंहोऽभवत्सध्यो यावत्तस्याम्बिका शिरः|
छिनत्ति तावत् पुरुषः खड्गपाणि रदृश्यत ||30||
तत एवाशु पुरुषं देवी चिच्छेद सायकैः|
तं खड्गचर्मणा सार्धं ततः सोऽ भून्महा गजः ||31||
करेण च
महासिंहं तं चकर्ष जगर्जच |
कर्षतस्तु करं देवी खड्गेन निरकृन्तत ||32||
ततो महासुरो भूयो माहिषं वपुरास्थितः|
तथैव क्षोभयामास त्रैलोक्यं सचराचरम् ||33||
ततः क्रुद्धा जगन्माता चण्डिका पान मुत्तमम्|
पपौ पुनः पुनश्चैव जहासारुणलोचना ||34||
ननर्द चासुरः सोऽपि बलवीर्यमदोद्धतः|
विषाणाभ्यां
च चिक्षेप चण्डिकां प्रतिभूधरान्||35||
सा च
ता न्प्रहितां स्तेन चूर्णयन्ती शरोत्करैः|
उवाच तं
मदोद्धूतमुखरागाकुलाक्षरम् ||36||
देव्यूवाच||
गर्ज गर्ज क्षणं मूढ मधु यावत्पिबाम्यहम्|
मयात्वयि हतेऽत्रैव गर्जिष्यन्त्याशु देवताः ||37||
ऋषिरुवाच||
एवमुक्त्वा
समुत्पत्य सारूढा तं महासुरम्|
पादेना क्रम्य कण्ठे च शूलेनैन मताडयत् ||38||
ततः सोऽपि पदाक्रान्तस्तया निजमुखात्ततः|
अर्ध निष्क्रान्त एवासीद्देव्या वीर्येण संवृतः ||40||
अर्ध निष्क्रान्त एवासौ युध्यमानो महासुरः |
तया महासिना देव्या शिरश्छित्त्वा निपातितः ||41||
ततो हाहाकृतं सर्वं दैत्यसैन्यं ननाश तत्|
प्रहर्षं च
परं जग्मुः सकला देवतागणाः ||42||
तुष्टु वुस्तां सुरा देवीं सहदिव्यैर्महर्षिभिः|
जगुर्गुन्धर्वपतयो ननृतुश्चाप्सरोगणाः ||43||
|| इति श्री मार्कण्डेय पुराणे सावर्निके मन्वन्तरे देवि महत्म्ये महिषासुरवधो नाम तृतीयोऽध्यायं समाप्तं ||
आहुति
ह्रीं जयन्ती साङ्गायै सायुधायै सशक्तिकायै सपरिवारायै सवाहनायै श्री महालक्ष्म्यै लक्ष्मी बीजादिष्टायै महाहुतिं समर्पयामि नमः स्वाहा ||
No comments:
Post a Comment
please do not enter any spam link