गकाररूपो
गम्बीजो गणेशो गणवन्दितः |
गणनीयो गणोगण्यो
गणनातीत सद्गुणः || 1 ||
गगनादिकसृद्गङ्गासुतोगङ्गासुतार्चितः
|
गङ्गाधरप्रीतिकरोगवीशेड्योगदापहः
|| 2 ||
गदाधरनुतो
गद्यपद्यात्मककवित्वदः |
गजास्यो
गजलक्ष्मीवान् गजवाजिरथप्रदः || 3 ||
गञ्जानिरत
शिक्षाकृद्गणितज्ञो गणोत्तमः |
गण्डदानाञ्चितोगन्ता
गण्डोपल समाकृतिः || 4 ||
गगन व्यापको
गम्यो गमानादि विवर्जितः |
गण्डदोषहरो गण्ड
भ्रमद्भ्रमर कुण्डलः || 5 ||
गतागतज्ञो गतिदो
गतमृत्युर्गतोद्भवः |
गन्धप्रियो
गन्धवाहो गन्धसिन्धुरबृन्दगः || 6 ||
गन्धादि पूजितो
गव्यभोक्ता गर्गादि सन्नुतः |
गरिष्ठोगरभिद्गर्वहरो
गरलिभूषणः || 7 ||
गविष्ठोगर्जितारावो
गभीरहृदयो गदी |
गलत्कुष्ठहरो
गर्भप्रदो गर्भार्भरक्षकः || 8 ||
गर्भाधारो
गर्भवासि शिशुज्ञान प्रदायकः |
गरुत्मत्तुल्यजवनो
गरुडध्वजवन्दितः || 9 ||
गयेडितो
गयाश्राद्धफलदश्च गयाकृतिः |
गदाधरावतारीच
गन्धर्वनगरार्चितः || 10 ||
गन्धर्वगानसन्तुष्टो
गरुडाग्रजवन्दितः |
गणरात्र
समाराध्यो गर्हणस्तुति साम्यधीः || 11 ||
गर्ताभनाभिर्गव्यूतिः
दीर्घतुण्डो गभस्तिमान् |
गर्हिताचार
दूरश्च गरुडोपलभूषितः || 12 ||
गजारि विक्रमो
गन्धमूषवाजी गतश्रमः |
गवेषणीयो गमनो
गहनस्थ मुनिस्तुतः || 13 ||
गवयच्छिद्गण्डकभिद्गह्वरापथवारणः
|
गजदन्तायुधो
गर्जद्रिपुघ्नो गजकर्णिकः || 14 ||
गजचर्मामयच्छेत्ता
गणाध्यक्षोगणार्चितः |
गणिकानर्तनप्रीतोगच्छन्
गन्धफली प्रियः || 15 ||
गन्धकादि
रसाधीशो गणकानन्ददायकः |
गरभादिजनुर्हर्ता
गण्डकीगाहनोत्सुकः || 16 ||
गण्डूषीकृतवाराशिः
गरिमालघिमादिदः |
गवाक्षवत्सौधवासीगर्भितो
गर्भिणीनुतः || 17 ||
गन्धमादनशैलाभो
गण्डभेरुण्डविक्रमः |
गदितो गद्गदाराव
संस्तुतो गह्वरीपतिः || 18 ||
गजेशाय गरीयसे
गद्येड्योगतभीर्गदितागमः |
गर्हणीय
गुणाभावो गङ्गादिक शुचिप्रदः || 19 ||
गणनातीत
विद्याश्री बलायुष्यादिदायकः |
एवं
श्रीगणनाथस्य नाम्नामष्टोत्तरं शतम् || 20 ||
पठनाच्छ्रवणात्
पुंसां श्रेयः प्रेमप्रदायकम् |
पूजान्ते यः
पठेन्नित्यं प्रीतस्सन् तस्यविघ्नराट् || 21 ||
यं यं कामयते
कामं तं तं शीघ्रं प्रयच्छति |
दूर्वयाभ्यर्चयन्
देवमेकविंशतिवासरान् || 22 ||
एकविंशतिवारं यो
नित्यं स्तोत्रं पठेद्यदि |
तस्य प्रसन्नो
विघ्नेशस्सर्वान् कामान् प्रयच्छति || 23 ||
|| इति
श्री गणपति गकार अष्टोत्तर शतनामस्तोत्रम् ||
No comments:
Post a Comment
please do not enter any spam link