जयत्यतिबलो रामो
लक्ष्मणश्च महाबलः
राजा जयति
सुग्रीवो राघवेणाभिपालितः |
दासोहं
कोसलेन्द्रस्य रामस्याक्लिष्टकर्मणः
हनुमान्
शत्रुसैन्यानां निहन्ता मारुतात्मजः ||
न रावण सहस्रं
मे युद्धे प्रतिबलं भवेत्
शिलाभिस्तु
प्रहरतः पादपैश्च सहस्रशः |
अर्धयित्वा
पुरीं लङ्कामभिवाद्य च मैथिलीं
समृद्धार्धो
गमिष्यामि मिषतां सर्वरक्षसाम् ||
No comments:
Post a Comment
please do not enter any spam link