Total Pageviews

Search

आदित्य हृदयं ADITYA HRUDAYAM


आदित्य  हृदयं  ADITYA HRUDAYAM




ध्यानम्
नमस्सवित्रे जगदेक चक्षुसे
जगत्प्रसूति स्थिति नाशहेतवे
त्रयीमयाय त्रिगुणात्म धारिणे
विरिञ्चि नारायण शङ्करात्मने

ततो युद्ध परिश्रान्तं समरे चिन्तया स्थितम् |
रावणं चाग्रतो दृष्ट्वा युद्धाय समुपस्थितम् || 1 ||

दैवतैश्च समागम्य द्रष्टुमभ्यागतो रणम् |
उपगम्या ब्रवीद्रामम् अगस्त्यो भगवान् ऋषिः || 2 ||

राम राम महाबाहो शृणु गुह्यं सनातनम् |
येन सर्वानरीन् वत्स समरे विजयिष्यसि || 3 ||

आदित्य हृदयं पुण्यं सर्वशत्रु विनाशनम् |
जयावहं जपेन्नित्यं अक्षय्यं परमं शिवम् || 4 ||

सर्वमङ्गल माङ्गल्यं सर्व पाप प्रणाशनम् |
चिन्ताशोक प्रशमनं आयुर्वर्धन मुत्तमम् || 5 ||

रश्मिमन्तं समुद्यन्तं देवासुर नमस्कृतम् |
पूजयस्व विवस्वन्तं भास्करं भुवनेश्वरम् || 6 ||

सर्वदेवात्मको ह्येष तेजस्वी रश्मिभावनः |
एष देवासुर गणान् लोकान् पाति गभस्तिभिः || 7 ||

एष ब्रह्मा च विष्णुश्च शिवः स्कन्दः प्रजापतिः |
महेन्द्रो धनदः कालो यमः सोमो ह्यपां पतिः || 8 ||

पितरो वसवः साध्या ह्यश्विनौ मरुतो मनुः |
वायुर्वह्निः प्रजाप्राणः ऋतुकर्ता प्रभाकरः || 9 ||

आदित्यः सविता सूर्यः खगः पूषा गभस्तिमान् |
सुवर्णसदृशो भानुः हिरण्यरेता दिवाकरः || 10 ||

हरिदश्वः सहस्रार्चिः सप्तसप्ति-र्मरीचिमान् |
तिमिरोन्मथनः शम्भुः त्वष्टा मार्ताण्डकोंऽशुमान् || 11 ||

हिरण्यगर्भः शिशिरः तपनो भास्करो रविः |
अग्निगर्भोऽदितेः पुत्रः शङ्खः शिशिरनाशनः || 12 ||

व्योमनाथ स्तमोभेदी ऋग्यजुःसाम-पारगः |
घनावृष्टि रपां मित्रो विन्ध्यवीथी प्लवङ्गमः || 13 ||

आतपी मण्डली मृत्युः पिङ्गलः सर्वतापनः |
कविर्विश्वो महातेजा रक्तः सर्वभवोद्भवः || 14 ||

नक्षत्र ग्रह ताराणाम् अधिपो विश्वभावनः |
तेजसामपि तेजस्वी द्वादशात्मन्-नमोऽस्तु ते || 15 ||

नमः पूर्वाय गिरये पश्चिमायाद्रये नमः |
ज्योतिर्गणानां पतये दिनाधिपतये नमः || 16 ||

जयाय जयभद्राय हर्यश्वाय नमो नमः |
नमो नमः सहस्रांशो आदित्याय नमो नमः || 17 ||

नम उग्राय वीराय सारङ्गाय नमो नमः |
नमः पद्मप्रबोधाय मार्ताण्डाय नमो नमः || 18 ||

ब्रह्मेशानाच्युतेशाय सूर्यायादित्य-वर्चसे |
भास्वते सर्वभक्षाय रौद्राय वपुषे नमः || 19 ||

तमोघ्नाय हिमघ्नाय शत्रुघ्नाया मितात्मने |
कृतघ्नघ्नाय देवाय ज्योतिषां पतये नमः || 20 ||

तप्त चामीकराभाय वह्नये विश्वकर्मणे |
नमस्तमोऽभि निघ्नाय रुचये लोकसाक्षिणे || 21 ||

नाशयत्येष वै भूतं तदेव सृजति प्रभुः |
पायत्येष तपत्येष वर्षत्येष गभस्तिभिः || 22 ||

एष सुप्तेषु जागर्ति भूतेषु परिनिष्ठितः |
एष एवाग्निहोत्रं च फलं चैवाग्नि होत्रिणाम् || 23 ||

वेदाश्च क्रतवश्चैव क्रतूनां फलमेव च |
यानि कृत्यानि लोकेषु सर्व एष रविः प्रभुः || 24 ||

फलश्रुतिः

एन मापत्सु कृच्छ्रेषु कान्तारेषु भयेषु च |
कीर्तयन् पुरुषः कश्चिन्-नावशीदति राघव || 25 ||

पूजयस्वैन मेकाग्रो देवदेवं जगत्पतिम् |
एतत् त्रिगुणितं जप्त्वा युद्धेषु विजयिष्यसि || 26 ||

अस्मिन् क्षणे महाबाहो रावणं त्वं वधिष्यसि |
एवमुक्त्वा तदागस्त्यो जगाम च यथागतम् || 27 ||

एतच्छ्रुत्वा महातेजाः नष्टशोकोऽभवत्-तदा |
धारयामास सुप्रीतो राघवः प्रयतात्मवान् || 28 ||

आदित्यं प्रेक्ष्य जप्त्वा तु परं हर्षमवाप्तवान् |
त्रिराचम्य शुचिर्भूत्वा धनुरादाय वीर्यवान् || 29 ||

रावणं प्रेक्ष्य हृष्टात्मा युद्धाय समुपागमत् |
सर्वयत्नेन महता वधे तस्य धृतोऽभवत् || 30 ||

अध रविरवदन्-निरीक्ष्य रामं मुदितमनाः परमं प्रहृष्यमाणः |
निशिचरपति सङ्क्षयं विदित्वा सुरगण मध्यगतो वचस्त्वरेति || 31 ||

इत्यार्षे श्रीमद्रामायणे वाल्मिकीये आदिकाव्ये युद्दकाण्डे सप्तोत्तर शततमः सर्गः ||

No comments:

Post a Comment

please do not enter any spam link

POPULAR POST