नवग्रह
ध्यानश्लोकम्
आदित्याय च
सोमाय मङ्गलाय बुधाय च |
गुरु शुक्र
शनिभ्यश्च राहवे केतवे नमः ||
रविः
जपाकुसुम
सङ्काशं काश्यपेयं महाद्युतिम् |
तमोरियं सर्व
पापघ्नं प्रणतोस्मि दिवाकरम् ||
चन्द्रः
दथिशज्ञ
तुषाराभं क्षीरार्णव समुद्भवम् |
नमामि शशिनं
सोमं शम्भोर्-मकुट भूषणम् ||
कुजः
धरणी गर्भ
सम्भूतं विद्युत्कान्ति समप्रभम् |
कुमारं शक्ति
हस्तं तं मङ्गलं प्रणमाम्यहम् ||
बुधः
प्रियङ्गु
कलिकाश्यामं रूपेणा प्रतिमं बुधम् |
सौम्यं सत्व
गुणोपेतं तं बुधं प्रणमाम्यहम् ||
गुरुः
देवानां च
ऋषीणां च गुरुं काञ्चन सन्निभम् |
बुद्धिमन्तं
त्रिलोकेशं तं नमामि बृहस्पतिम् ||
शुक्रः
हिमकुन्द
मृणालाभं दैत्यानं परमं गुरुम् |
सर्वशास्त्र
प्रवक्तारं भार्गवं प्रणमाम्यहम् ||
शनिः
नीलाञ्जन
समाभासं रविपुत्रं यमाग्रजम् |
छाया मार्ताण्ड
सम्भूतं तं नमामि शनैश्चरम् ||
राहुः
अर्थकायं
महावीरं चन्द्रादित्य विमर्धनम् |
सिंहिका गर्भ
सम्भूतं तं राहुं प्रणमाम्यहम् ||
केतुः
फलास पुष्प
सङ्काशं तारकाग्रहमस्तकम् |
रौद्रं
रौद्रात्मकं घोरं तं केतुं प्रणमाम्यहम् ||
फलश्रुतिः
इति व्यास मुखोद्गीतं
यः पठेत्सु समाहितः |
दिवा वा यदि वा
रात्रौ विघ्न शान्तिर्भविष्यति ||
नर नारी नृपाणां
च भवे द्दुस्वप्ननाशनम् |
ऐश्वर्यमतुलं
तेषामारोग्यं पुष्टि वर्धनम् ||
ग्रह नक्षत्रजाः
पीडा स्तस्कराग्नि समुद्भवाः |
तास्सर्वाः
प्रशमं यान्ति व्यासो ब्रूते नसंशयः ||
No comments:
Post a Comment
please do not enter any spam link