देवी महात्म्यं दुर्ग सप्तासति 6
DEVI MAHATMYAM DURGA SAPTASATI 6
देवी महात्म्यं दुर्ग सप्तासति 6
DEVI MAHATMYAM DURGA SAPTASATI 6
शुम्भनिशुम्भसेनानीधूम्रलोचनवधो नाम षष्टो ध्यायः ||
ध्यानं
नगाधीश्वर विष्त्रां फणि फणोत्तंसोरु रत्नावली
भास्वद् देह लतां निभॊउ नेत्रयोद्भासितां |
माला कुम्भ कपाल नीरज करां चन्द्रा अर्ध चूढाम्बरां
सर्वेश्वर भैरवाङ्ग निलयां पद्मावतीचिन्तये ||
ऋषिरुवाच ||1||
इत्याकर्ण्य वचो देव्याः स दूतोऽमर्षपूरितः |
समाचष्ट समागम्य दैत्यराजाय विस्तरात् || 2 ||
तस्य दूतस्य तद्वाक्यमाकर्ण्यासुरराट् ततः |
स क्रोधः प्राह दैत्यानामधिपं धूम्रलोचनम् ||3||
हे धूम्रलोचनाशु त्वं स्वसैन्य परिवारितः|
तामानय बल्लाद्दुष्टां केशाकर्षण विह्वलाम् ||4||
तत्परित्राणदः कश्चिद्यदि वोत्तिष्ठतेऽपरः|
स हन्तव्योऽमरोवापि यक्षो गन्धर्व एव वा ||5||
ऋषिरुवाच ||6||
तेनाज्ञप्तस्ततः शीघ्रं स दैत्यो धूम्रलोचनः|
वृतः षष्ट्या सहस्राणां असुराणान्द्रुतंयमौ ||6||
न दृष्ट्वा तां ततो देवीं तुहिनाचल संस्थितां|
जगादोच्चैः प्रयाहीति मूलं शुम्बनिशुम्भयोः ||8||
न चेत्प्रीत्याद्य भवती मद्भर्तारमुपैष्यति
ततो बलान्नयाम्येष केशाकर्षणविह्वलाम् ||9||
देव्युवाच ||10||
दैत्येश्वरेण प्रहितो बलवान्बलसंवृतः|
बलान्नयसि मामेवं ततः किं ते करोम्यहम् ||11||
ऋषिरुवाच ||12||
इत्युक्तः सोऽभ्यधावत्तां असुरो धूम्रलोचनः|
हूङ्कारेणैव तं भस्म सा चकाराम्बिका तदा||13||
अथ क्रुद्धं महासैन्यं असुराणां तथाम्बिका|
ववर्ष सायुकैस्तीक्ष्णैस्तथा शक्तिपरश्वधैः ||14||
ततो धुतसटः कोपात्कृत्वा नादं सुभैरवम्|
पपातासुर सेनायां सिंहो देव्याः स्ववाहनः ||15||
कांश्चित्करप्रहारेण दैत्यानास्येन चापारान्|
आक्रान्त्या चाधरेण्यान् जघान स महासुरान् ||16||
केषाञ्चित्पाटयामास नखैः कोष्ठानि केसरी|
तथा तलप्रहारेण शिरांसि कृतवान् पृथक् ||17||
विच्छिन्नबाहुशिरसः कृतास्तेन तथापरे|
पपौच रुधिरं कोष्ठादन्येषां धुतकेसरः ||18||
क्षणेन तद्बलं सर्वं क्षयं नीतं महात्मना|
तेन केसरिणा देव्या वाहनेनातिकोपिना ||19||
श्रुत्वा तमसुरं देव्या निहतं धूम्रलोचनम्|
बलं च क्षयितं कृत्स्नं देवी केसरिणा ततः||20||
चुकोप दैत्याधिपतिः शुम्भः प्रस्फुरिताधरः|
आज्ञापयामास च तौ चण्डमुण्डौ महासुरौ ||21||
हेचण्ड हे मुण्ड बलैर्बहुभिः परिवारितौ
तत्र गच्छत गत्वा च सा समानीयतां लघु ||22||
केशेष्वाकृष्य बद्ध्वा वा यदि वः संशयो युधि|
तदाशेषा युधैः सर्वैर् असुरैर्विनिहन्यतां ||23||
तस्यां हतायां दुष्टायां सिंहे च विनिपातिते|
शीघ्रमागम्यतां बद्वा गृहीत्वातामथाम्बिकाम् ||24||
|| स्वस्ति श्री मार्कण्डेय पुराणे सावर्निकेमन्वन्तरे देवि महत्म्ये शुम्भनिशुम्भसेनानीधूम्रलोचनवधो नाम षष्टो ध्यायः ||
आहुति
ॐ क्लीं जयन्ती साङ्गायै सशक्तिकायै सपरिवारायै सवाहनायै महाहुतिं समर्पयामि नमः स्वाहा ||
No comments:
Post a Comment
please do not enter any spam link