Total Pageviews

Search

देवी महात्म्यं दुर्ग सप्तासति 7 DEVI MAHATMYAM DURGA SAPTASATI 7



देवी महात्म्यं दुर्ग सप्तासति 7
DEVI MAHATMYAM DURGA SAPTASATI 7

देवी महात्म्यं दुर्ग सप्तासति 7  DEVI MAHATMYAM DURGA SAPTASATI 7

देवी महात्म्यं दुर्ग सप्तासति 7

DEVI MAHATMYAM DURGA SAPTASATI 7


चण्डमुण्ड वधो नाम सप्तमोध्यायः ||

ध्यानं
ध्यायें रत्न पीठे शुककल पठितं श्रुण्वतीं श्यामलाङ्गीं|
न्यस्तैकाङ्घ्रिं सरोजे शशि शकल धरां वल्लकीं वाद यन्तीं
कहलाराबद्ध मालां नियमित विलसच्चोलिकां रक्त वस्त्रां|
मातङ्गीं शङ्ख पात्रां मधुर मधुमदां चित्रकोद्भासि भालां|

ऋषिरुवाच|

आज्ञप्तास्ते ततोदैत्याश्चण्डमुण्डपुरोगमाः|
चतुरङ्गबलोपेता ययुरभ्युद्यतायुधाः||1||

ददृशुस्ते ततो देवीमीषद्धासां व्यवस्थिताम्|
सिंहस्योपरि शैलेन्द्रशृङ्गे महतिकाञ्चने||2||

तेदृष्ट्वातांसमादातुमुद्यमं ञ्चक्रुरुद्यताः
आकृष्टचापासिधरास्तथाऽन्ये तत्समीपगाः||3||

ततः कोपं चकारोच्चैरम्भिका तानरीन्प्रति|
कोपेन चास्या वदनं मषीवर्णमभूत्तदा||4||

भ्रुकुटीकुटिलात्तस्या ललाटफलकाद्द्रुतम्|
काली कराल वदना विनिष्क्रान्तासिपाशिनी ||5||

विचित्रखट्वाङ्गधरा नरमालाविभूषणा|
द्वीपिचर्मपरीधाना शुष्कमांसातिभैरवा||6||

अतिविस्तारवदना जिह्वाललनभीषणा|
निमग्नारक्तनयना नादापूरितदिङ्मुखा ||6||

सा वेगेनाभिपतिता घूतयन्ती महासुरान्|
सैन्ये तत्र सुरारीणामभक्षयत तद्बलम् ||8||

पार्ष्णिग्राहाङ्कुशग्राहयोधघण्टासमन्वितान्|
समादायैकहस्तेन मुखे चिक्षेप वारणान् ||9||

तथैव योधं तुरगै रथं सारथिना सह|
निक्षिप्य वक्त्रे दशनैश्चर्वयत्यतिभैरवं ||10||

एकं जग्राह केशेषु ग्रीवायामथ चापरं|
पादेनाक्रम्यचैवान्यमुरसान्यमपोथयत् ||11||

तैर्मुक्तानिच शस्त्राणि महास्त्राणि तथासुरैः|
मुखेन जग्राह रुषा दशनैर्मथितान्यपि||12||

बलिनां तद्बलं सर्वमसुराणां दुरात्मनां
ममर्दाभक्षयच्चान्यानन्यांश्चाताडयत्तथा ||13||

असिना निहताः केचित्केचित्खट्वाङ्गताडिताः|
जग्मुर्विनाशमसुरा दन्ताग्राभिहतास्तथा ||14||

क्षणेन तद्भलं सर्व मसुराणां निपातितं|
दृष्ट्वा चण्डोऽभिदुद्राव तां कालीमतिभीषणां ||15||

शरवर्षैर्महाभीमैर्भीमाक्षीं तां महासुरः|
छादयामास चक्रैश्च मुण्डः क्षिप्तैः सहस्रशः ||16||

तानिचक्राण्यनेकानि विशमानानि तन्मुखम्|
बभुर्यथार्कबिम्बानि सुबहूनि घनोदरं ||17||

ततो जहासातिरुषा भीमं भैरवनादिनी|
काली करालवदना दुर्दर्शशनोज्ज्वला ||18||

उत्थाय महासिंहं देवी चण्डमधावत|
गृहीत्वा चास्य केशेषु शिरस्तेनासिनाच्छिनत् ||19||

अथ मुण्डोऽभ्यधावत्तां दृष्ट्वा चण्डं निपातितम्|
तमप्यपात यद्भमौ सा खड्गाभिहतंरुषा ||20||

हतशेषं ततः सैन्यं दृष्ट्वा चण्डं निपातितम्|
मुण्डञ्च सुमहावीर्यं दिशो भेजे भयातुरम् ||21||

शिरश्चण्डस्य काली गृहीत्वा मुण्ड मेव |
प्राह प्रचण्डाट्टहासमिश्रमभ्येत्य चण्डिकाम् ||22||

मया तवा त्रोपहृतौ चण्डमुण्डौ महापशू|
युद्धयज्ञे स्वयं शुम्भं निशुम्भं चहनिष्यसि ||23||

ऋषिरुवाच||

तावानीतौ ततो दृष्ट्वा चण्ड मुण्डौ महासुरौ|
उवाच कालीं कल्याणी ललितं चण्डिका वचः ||24||

यस्माच्चण्डं मुण्डं गृहीत्वा त्वमुपागता|
चामुण्डेति ततो लॊके ख्याता देवी भविष्यसि ||25||

|| जय जय श्री मार्कण्डेय पुराणे सावर्निके मन्वन्तरे देवि महत्म्ये चण्डमुण्ड वधो नाम सप्तमोध्याय समाप्तं ||

आहुति
क्लीं जयन्ती साङ्गायै सशक्तिकायै सपरिवारायै सवाहनायै काली चामुण्डा देव्यै कर्पूर बीजाधिष्ठायै महाहुतिं समर्पयामि नमः स्वाहा ||

No comments:

Post a Comment

please do not enter any spam link

POPULAR POST