देवी महात्म्यं दुर्ग सप्तासति 8
DEVI MAHATMYAM DURGA SAPTASATI 8
देवी महात्म्यं दुर्ग सप्तासति 8
DEVI MAHATMYAM DURGA SAPTASATI 8
रक्तबीजवधो नाम अष्टमोध्याय ||
ध्यानं
अरुणां करुणा तरङ्गिताक्षीं धृतपाशाङ्कुश पुष्पबाणचापाम् |
अणिमाधिभिरावृतां मयूखै रहमित्येव विभावये भवानीम् ||
ऋषिरुवाच ||1||
चण्डे च निहते दैत्ये मुण्डे च विनिपातिते |
बहुलेषु च सैन्येषु क्षयितेष्वसुरेश्वरः || 2 ||
ततः कोपपराधीनचेताः शुम्भः प्रतापवान् |
उद्योगं सर्व सैन्यानां दैत्यानामादिदेश ह ||3||
अद्य सर्व बलैर्दैत्याः षडशीतिरुदायुधाः |
कम्बूनां चतुरशीतिर्निर्यान्तु स्वबलैर्वृताः ||4||
कोटिवीर्याणि पञ्चाशदसुराणां कुलानि वै |
शतं कुलानि धौम्राणां निर्गच्छन्तु ममाज्ञया ||5||
कालका दौर्हृदा मौर्वाः कालिकेयास्तथासुराः |
युद्धाय सज्जा निर्यान्तु आज्ञया त्वरिता मम ||6||
इत्याज्ञाप्यासुरापतिः शुम्भो भैरवशासनः |
निर्जगाम महासैन्यसहस्त्रैर्भहुभिर्वृतः ||7||
आयान्तं चण्डिका दृष्ट्वा तत्सैन्यमतिभीषणम् |
ज्यास्वनैः पूरयामास धरणीगगनान्तरम् ||8||
ततःसिंहॊ महानादमतीव कृतवान्नृप |
घण्टास्वनेन तान्नादानम्बिका चोपबृंहयत् ||9||
धनुर्ज्यासिंहघण्टानां नादापूरितदिङ्मुखा |
निनादैर्भीषणैः काली जिग्ये विस्तारितानना ||10||
तं निनादमुपश्रुत्य दैत्य सैन्यैश्चतुर्दिशम् |
देवी सिंहस्तथा काली सरोषैः परिवारिताः||11||
एतस्मिन्नन्तरे भूप विनाशाय सुरद्विषाम् |
भवायामरसिंहनामतिवीर्यबलान्विताः ||12||
ब्रह्मेशगुहविष्णूनां तथेन्द्रस्य च शक्तयः |
शरीरेभ्योविनिष्क्रम्य तद्रूपैश्चण्डिकां ययुः ||13||
यस्य देवस्य यद्रूपं यथा भूषणवाहनम् |
तद्वदेव हि तच्चक्तिरसुरान्योद्धुमायमौ ||14||
हंसयुक्तविमानाग्रे साक्षसूत्रक मण्डलुः |
आयाता ब्रह्मणः शक्तिब्रह्माणी त्यभिधीयते ||15||
महेश्वरी वृषारूढा त्रिशूलवरधारिणी |
महाहिवलया प्राप्ताचन्द्ररेखाविभूषणा ||16||
कौमारी शक्तिहस्ता च मयूरवरवाहना |
योद्धुमभ्याययौ दैत्यानम्बिका गुहरूपिणी ||17||
तथैव वैष्णवी शक्तिर्गरुडोपरि संस्थिता |
शङ्खचक्रगधाशाङ्खर् खड्गहस्ताभ्युपाययौ ||18||
यज्ञवाराहमतुलं रूपं या भिभ्रतो हरेः |
शक्तिः साप्याययौ तत्र वाराहीं बिभ्रती तनुम् ||19||
नारसिंही नृसिंहस्य बिभ्रती सदृशं वपुः |
प्राप्ता तत्र सटाक्षेपक्षिप्तनक्षत्र संहतिः ||20||
वज्र हस्ता तथैवैन्द्री गजराजो परिस्थिता |
प्राप्ता सहस्र नयना यथा शक्रस्तथैव सा ||21||
ततः परिवृत्तस्ताभिरीशानो देव शक्तिभिः |
हन्यन्तामसुराः शीघ्रं मम प्रीत्याह चण्डिकां ||22||
ततो देवी शरीरात्तु विनिष्क्रान्तातिभीषणा |
चण्डिका शक्तिरत्युग्रा शिवाशतनिनादिनी ||23||
सा चाह धूम्रजटिलं ईशानमपराजिता |
दूतत्वं गच्छ भगवन् पार्श्वं शुम्भनिशुम्भयोः ||24||
ब्रूहि शुम्भं निशुम्भं च दानवावतिगर्वितौ |
ये चान्ये दानवास्तत्र युद्धाय समुपस्थिताः ||25||
त्रैलोक्यमिन्द्रो लभतां देवाः सन्तु हविर्भुजः |
यूयं प्रयात पातालं यदि जीवितुमिच्छथ ||26||
बलावलेपादथ चेद्भवन्तो युद्धकाङ्क्षिणः |
तदा गच्छत तृप्यन्तु मच्छिवाः पिशितेन वः ||27||
यतो नियुक्तो दौत्येन तया देव्या शिवः स्वयम् |
शिवदूतीति लोकेऽस्मिंस्ततः सा ख्याति मागता ||28||
तेऽपि श्रुत्वा वचो देव्याः शर्वाख्यातं महासुराः |
अमर्षापूरिता जग्मुर्यत्र कात्यायनी स्थिता ||29||
ततः प्रथममेवाग्रे शरशक्त्यृष्टिवृष्टिभिः |
ववर्षुरुद्धतामर्षाः स्तां देवीममरारयः ||30||
सा च तान् प्रहितान् बाणान् ञ्छूलशक्तिपरश्वधान् |
चिच्छेद लीलयाध्मातधनुर्मुक्तैर्महेषुभिः ||31||
तस्याग्रतस्तथा काली शूलपातविदारितान् |
खट्वाङ्गपोथितांश्चारीन्कुर्वन्ती व्यचरत्तदा ||32||
कमण्डलुजलाक्षेपहतवीर्यान् हतौजसः |
ब्रह्माणी चाकरोच्छत्रून्येन येन स्म धावति ||33||
माहेश्वरी त्रिशूलेन तथा चक्रेण वैष्णवी |
दैत्याङ्जघान कौमारी तथा शत्याति कोपना ||34||
ऐन्द्री कुलिशपातेन शतशो दैत्यदानवाः |
पेतुर्विदारिताः पृथ्व्यां रुधिरौघप्रवर्षिणः ||35||
तुण्डप्रहारविध्वस्ता दंष्ट्रा ग्रक्षत वक्षसः |
वाराहमूर्त्या न्यपतंश्चक्रेण च विदारिताः ||36||
नखैर्विदारितांश्चान्यान् भक्षयन्ती महासुरान् |
नारसिंही चचाराजौ नादा पूर्णदिगम्बरा ||37||
चण्डाट्टहासैरसुराः शिवदूत्यभिदूषिताः |
पेतुः पृथिव्यां पतितांस्तांश्चखादाथ सा तदा ||38||
इति मातृ गणं क्रुद्धं मर्द यन्तं महासुरान् |
दृष्ट्वाभ्युपायैर्विविधैर्नेशुर्देवारिसैनिकाः ||39||
पलायनपरान्दृष्ट्वा दैत्यान्मातृगणार्दितान् |
योद्धुमभ्याययौ क्रुद्धो रक्तबीजो महासुरः ||40||
रक्तबिन्दुर्यदा भूमौ पतत्यस्य शरीरतः |
समुत्पतति मेदिन्यां तत्प्रमाणो महासुरः ||41||
युयुधे स गदापाणिरिन्द्रशक्त्या महासुरः |
ततश्चैन्द्री स्ववज्रेण रक्तबीजमताडयत् ||42||
कुलिशेनाहतस्याशु बहु सुस्राव शोणितम् |
समुत्तस्थुस्ततो योधास्तद्रपास्तत्पराक्रमाः ||43||
यावन्तः पतितास्तस्य शरीराद्रक्तबिन्दवः |
तावन्तः पुरुषा जाताः स्तद्वीर्यबलविक्रमाः ||44||
ते चापि युयुधुस्तत्र पुरुषा रक्त सम्भवाः |
समं मातृभिरत्युग्रशस्त्रपातातिभीषणं ||45||
पुनश्च वज्र पातेन क्षत मश्य शिरो यदा |
ववाह रक्तं पुरुषास्ततो जाताः सहस्रशः ||46||
वैष्णवी समरे चैनं चक्रेणाभिजघान ह |
गदया ताडयामास ऐन्द्री तमसुरेश्वरम्||47||
वैष्णवी चक्रभिन्नस्य रुधिरस्राव सम्भवैः |
सहस्रशो जगद्व्याप्तं तत्प्रमाणैर्महासुरैः ||48||
शक्त्या जघान कौमारी वाराही च तथासिना |
माहेश्वरी त्रिशूलेन रक्तबीजं महासुरम् ||49||
स चापि गदया दैत्यः सर्वा एवाहनत् पृथक् |
मातॄः कोपसमाविष्टो रक्तबीजो महासुरः ||50||
तस्याहतस्य बहुधा शक्तिशूलादि भिर्भुविः |
पपात यो वै रक्तौघस्तेनासञ्चतशोऽसुराः ||51||
तैश्चासुरासृक्सम्भूतैरसुरैः सकलं जगत् |
व्याप्तमासीत्ततो देवा भयमाजग्मुरुत्तमम् ||52||
तान् विषण्णा न् सुरान् दृष्ट्वा चण्डिका प्राहसत्वरं |
उवाच कालीं चामुण्डे विस्तीर्णं वदनं कुरु ||53||
मच्छस्त्रपातसम्भूतान् रक्तबिन्दून् महासुरान् |
रक्तबिन्दोः प्रतीच्छ त्वं वक्त्रेणानेन वेगिना ||54||
भक्षयन्ती चर रणो तदुत्पन्नान्महासुरान् |
एवमेष क्षयं दैत्यः क्षेण रक्तो गमिष्यति ||55||
भक्ष्य माणा स्त्वया चोग्रा न चोत्पत्स्यन्ति चापरे |
इत्युक्त्वा तां ततो देवी शूलेनाभिजघान तम् ||56||
मुखेन काली जगृहे रक्तबीजस्य शोणितम् |
ततोऽसावाजघानाथ गदया तत्र चण्डिकां ||57||
न चास्या वेदनां चक्रे गदापातोऽल्पिकामपि |
तस्याहतस्य देहात्तु बहु सुस्राव शोणितम् ||58||
यतस्ततस्तद्वक्त्रेण चामुण्डा सम्प्रतीच्छति |
मुखे समुद्गता येऽस्या रक्तपातान्महासुराः ||59||
तांश्चखादाथ चामुण्डा पपौ तस्य च शोणितम् ||60||
देवी शूलेन वज्रेण बाणैरसिभिर् ऋष्टिभिः |
जघान रक्तबीजं तं चामुण्डा पीत शोणितम् ||61||
स पपात महीपृष्ठे शस्त्रसङ्घसमाहतः |
नीरक्तश्च महीपाल रक्तबीजो महासुरः ||62||
ततस्ते हर्ष मतुलं अवापुस्त्रिदशा नृप |
तेषां मातृगणो जातो ननर्तासृंङ्गमदोद्धतः ||63||
|| स्वस्ति श्री मार्कण्डेय पुराणे सावर्निके मन्वन्तरे देवि महत्म्ये रक्तबीजवधोनाम अष्टमोध्याय समाप्तं ||
आहुति
ॐ जयन्ती साङ्गायै सशक्तिकायै सपरिवारायै सवाहनायै रक्ताक्ष्यै अष्टमातृ सहितायै महाहुतिं समर्पयामि नमः स्वाहा ||
No comments:
Post a Comment
please do not enter any spam link