Total Pageviews

Search

देवी महात्म्यं दुर्ग सप्तासति 9 DEVI MAHATMYAM DURGA SAPTASATI 9



देवी महात्म्यं दुर्ग सप्तासति 9
DEVI MAHATMYAM DURGA SAPTASATI 9
देवी महात्म्यं दुर्ग सप्तासति 9  DEVI MAHATMYAM DURGA SAPTASATI 9

देवी महात्म्यं दुर्ग सप्तासति 9

DEVI MAHATMYAM DURGA SAPTASATI 9


निशुम्भवधोनाम नवमोध्यायः ||

ध्यानं
बन्धूक काञ्चननिभं रुचिराक्षमालां
पाशाङ्कुशौ वरदां निजबाहुदण्डैः |
बिभ्राणमिन्दु शकलाभरणां त्रिनेत्रां-
अर्धाम्बिकेशमनिशं वपुराश्रयामि ||

राजोउवाच||1||

विचित्रमिदमाख्यातं भगवन् भवता मम |
देव्याश्चरितमाहात्म्यं रक्त बीजवधाश्रितम् || 2||

भूयश्चेच्छाम्यहं श्रोतुं रक्तबीजे निपातिते |
चकार शुम्भो यत्कर्म निशुम्भश्चातिकोपनः ||3||

ऋषिरुवाच ||4||

चकार कोपमतुलं रक्तबीजे निपातिते|
शुम्भासुरो निशुम्भश्च हतेष्वन्येषु चाहवे ||5||

हन्यमानं महासैन्यं विलोक्यामर्षमुद्वहन्|
अभ्यदावन्निशुम्बोऽथ मुख्ययासुर सेनया ||6||

तस्याग्रतस्तथा पृष्ठे पार्श्वयोश्च महासुराः
सन्दष्टौष्ठपुटाः क्रुद्धा हन्तुं देवीमुपाययुः ||7||

आजगाम महावीर्यः शुम्भोऽपि स्वबलैर्वृतः|
निहन्तुं चण्डिकां कोपात्कृत्वा युद्दं तु मातृभिः ||8||

ततो युद्धमतीवासीद्देव्या शुम्भनिशुम्भयोः|
शरवर्षमतीवोग्रं मेघयोरिव वर्षतोः ||9||

चिच्छेदास्ताञ्छरांस्ताभ्यां चण्डिका स्वशरोत्करैः|
ताडयामास चाङ्गेषु शस्त्रौघैरसुरेश्वरौ ||10||

निशुम्भो निशितं खड्गं चर्म चादाय सुप्रभम्|
अताडयन्मूर्ध्नि सिंहं देव्या वाहनमुत्तमम्||11||

ताडिते वाहने देवी क्षुर प्रेणासिमुत्तमम्|
शुम्भस्याशु चिच्छेद चर्म चाप्यष्ट चन्द्रकम् ||12||

छिन्ने चर्मणि खड्गे शक्तिं चिक्षेप सोऽसुरः|
तामप्यस्य द्विधा चक्रे चक्रेणाभिमुखागताम्||13||

कोपाध्मातो निशुम्भोऽथ शूलं जग्राह दानवः|
आयातं मुष्ठिपातेन देवी तच्चाप्यचूर्णयत्||14||

आविद्ध्याथ गदां सोऽपि चिक्षेप चण्डिकां प्रति|
सापि देव्यास् त्रिशूलेन भिन्ना भस्मत्वमागता||15||

ततः परशुहस्तं तमायान्तं दैत्यपुङ्गवं|
आहत्य देवी बाणौघैरपातयत भूतले||16||

तस्मिन्नि पतिते भूमौ निशुम्भे भीमविक्रमे|
भ्रातर्यतीव सङ्क्रुद्धः प्रययौ हन्तुमम्बिकाम्||17||

रथस्थस्तथात्युच्छै र्गृहीतपरमायुधैः|
भुजैरष्टाभिरतुलै र्व्याप्या शेषं बभौ नभः||18||

तमायान्तं समालोक्य देवी शङ्खमवादयत्|
ज्याशब्दं चापि धनुष श्चकारातीव दुःसहम्||19||

पूरयामास ककुभो निजघण्टा स्वनेन |
समस्तदैत्यसैन्यानां तेजोवधविधायिना||20||

ततः सिंहो महानादै स्त्याजितेभमहामदैः|
पुरयामास गगनं गां तथैव दिशो दश||21||

ततः काली समुत्पत्य गगनं क्ष्मामताडयत्|
कराभ्यां तन्निनादेन प्राक्स्वनास्ते तिरोहिताः||22||

अट्टाट्टहासमशिवं शिवदूती चकार |
वैः शब्दैरसुरास्त्रेसुः शुम्भः कोपं परं ययौ||23||

दुरात्मं स्तिष्ट तिष्ठेति व्याज हाराम्बिका यदा|
तदा जयेत्यभिहितं देवैराकाश संस्थितैः||24||

शुम्भेनागत्य या शक्तिर्मुक्ता ज्वालातिभीषणा|
आयान्ती वह्निकूटाभा सा निरस्ता महोल्कया||25||

सिंहनादेन शुम्भस्य व्याप्तं लोकत्रयान्तरम्|
निर्घातनिःस्वनो घोरो जितवानवनीपते||26||

शुम्भमुक्ताञ्छरान्देवी शुम्भस्तत्प्रहिताञ्छरान्|
चिच्छेद स्वशरैरुग्रैः शतशोऽथ सहस्रशः||27||

ततः सा चण्डिका क्रुद्धा शूलेनाभिजघान तम्|
तदाभि हतो भूमौ मूर्छितो निपपात ||28||

ततो निशुम्भः सम्प्राप्य चेतनामात्तकार्मुकः|
आजघान शरैर्देवीं कालीं केसरिणं तथा||29||

पुनश्च कृत्वा बाहुनामयुतं दनुजेश्वरः|
चक्रायुधेन दितिजश्चादयामास चण्डिकाम्||30||

ततो भगवती क्रुद्धा दुर्गादुर्गार्ति नाशिनी|
चिच्छेद देवी चक्राणि स्वशरैः सायकांश्च तान्||31||

ततो निशुम्भो वेगेन गदामादाय चण्डिकाम्|
अभ्यधावत वै हन्तुं दैत्य सेनासमावृतः||32||

तस्यापतत एवाशु गदां चिच्छेद चण्डिका|
खड्गेन शितधारेण शूलं समाददे||33||

शूलहस्तं समायान्तं निशुम्भममरार्दनम्|
हृदि विव्याध शूलेन वेगाविद्धेन चण्डिका||34||

खिन्नस्य तस्य शूलेन हृदयान्निःसृतोऽपरः|
महाबलो महावीर्यस्तिष्ठेति पुरुषो वदन्||35||

तस्य निष्क्रामतो देवी प्रहस्य स्वनवत्ततः|
शिरश्चिच्छेद खड्गेन ततोऽसावपतद्भुवि||36||

ततः सिंहश्च खादोग्र दंष्ट्राक्षुण्णशिरोधरान्|
असुरां स्तांस्तथा काली शिवदूती तथापरान्||37||

कौमारी शक्तिनिर्भिन्नाः केचिन्नेशुर्महासुराः
ब्रह्माणी मन्त्रपूतेन तोयेनान्ये निराकृताः||38||

माहेश्वरी त्रिशूलेन भिन्नाः पेतुस्तथापरे|
वाराहीतुण्डघातेन केचिच्चूर्णी कृता भुवि||39||

खण्डं खण्डं चक्रेण वैष्णव्या दानवाः कृताः|
वज्रेण चैन्द्री हस्ताग्र विमुक्तेन तथापरे||40||

केचिद्विनेशुरसुराः केचिन्नष्टामहाहवात्|
भक्षिताश्चापरे कालीशिवधूती मृगाधिपैः||41||

|| स्वस्ति श्री मार्कण्डेय पुराणे सावर्निके मन्वन्तरे देवि महत्म्ये निशुम्भवधोनाम नवमोध्याय समाप्तं ||

आहुति
क्लीं जयन्ती साङ्गायै सशक्तिकायै सपरिवारायै सवाहनायै महाहुतिं समर्पयामि नमः स्वाहा ||

No comments:

Post a Comment

please do not enter any spam link

POPULAR POST