Total Pageviews

Search

नारायण कवचं NARAYANA KAVACHAM



नारायण  कवचं
NARAYANA KAVACHAM

   नारायण  कवचं  NARAYANA KAVACHAM


नारायण  कवचं
NARAYANA KAVACHAM


अङ्गन्यासः
ॐ ॐ पादयोः नमः |ॐ नं जानुनोः नमः |ॐ मों ऊर्वोः नमः |ॐ नां उदरे नमः |
                   ॐ रां हृदि नमः |ॐ यं उरसि नमः |ॐ णां मुखे नमः |ॐ यं शिरसि नमः |

करन्यासः
ॐ ॐ दक्षिणतर्जन्याम् नमः |
ॐ नं दक्षिणमध्यमायाम् नमः |
ॐ मों दक्षिणानामिकायाम् नमः |
ॐ भं दक्षिणकनिष्ठिकायाम् नमः |
ॐ गं वामकनिष्ठिकायाम् नमः |
ॐ वं वामानिकायाम् नमः |
ॐ तें वाममध्यमायाम् नमः |
ॐ वां वामतर्जन्याम् नमः |
ॐ सुं दक्षिणाङ्गुष्ठोर्ध्वपर्वणि नमः |
ॐ दें दक्षिणाङ्गुष्ठाधः पर्वणि नमः |
ॐ वां वामाङ्गुष्ठोर्ध्वपर्वणि नमः |
ॐ यं वामाङ्गुष्ठाधः पर्वणि नमः |

विष्णुषडक्षरन्यासः%
ॐ ॐ हृदये नमः |
ॐ विं मूर्ध्नै नमः |
ॐ षं भ्रुर्वोर्मध्ये नमः |
ॐ णं शिखायाम् नमः |
ॐ वें नेत्रयोः नमः |
ॐ नं सर्वसन्धिषु नमः |
ॐ मः प्राच्याम् अस्त्राय फट् |
ॐ मः आग्नेय्याम् अस्त्राय फट् |
ॐ मः दक्षिणस्याम् अस्त्राय फट् |
ॐ मः नैऋत्ये अस्त्राय फट् |
ॐ मः प्रतीच्याम् अस्त्राय फट् |
ॐ मः वायव्ये अस्त्राय फट् |
ॐ मः उदीच्याम् अस्त्राय फट् |
ॐ मः ऐशान्याम् अस्त्राय फट् |
ॐ मः ऊर्ध्वायाम् अस्त्राय फट् |
ॐ मः अधरायाम् अस्त्राय फट् |

श्री हरिः

अथ श्रीनारायणकवच

||राजोवाच||
यया गुप्तः सहस्त्राक्षः सवाहान् रिपुसैनिकान्|
क्रीडन्निव विनिर्जित्य त्रिलोक्या बुभुजे श्रियम्||1||

भगवंस्तन्ममाख्याहि वर्म नारायणात्मकम्|
यथास्स्ततायिनः शत्रून् येन गुप्तोस्जयन्मृधे||2||

||श्रीशुक उवाच||
वृतः पुरोहितोस्त्वाष्ट्रो महेन्द्रायानुपृच्छते|
नारायणाख्यं वर्माह तदिहैकमनाः शृणु||3||

विश्वरूप उवाचधौताङ्घ्रिपाणिराचम्य सपवित्र उदङ् मुखः|
कृतस्वाङ्गकरन्यासो मन्त्राभ्यां वाग्यतः शुचिः||4||

नारायणमयं वर्म संनह्येद् भय आगते|
पादयोर्जानुनोरूर्वोरूदरे हृद्यथोरसि||5||

मुखे शिरस्यानुपूर्व्यादोङ्कारादीनि विन्यसेत्|
ॐ नमो नारायणायेति विपर्ययमथापि वा||6||

करन्यासं ततः कुर्याद् द्वादशाक्षरविद्यया|
प्रणवादियकारन्तमङ्गुल्यङ्गुष्ठपर्वसु||7||

न्यसेद् हृदय ओङ्कारं विकारमनु मूर्धनि|
षकारं तु भ्रुवोर्मध्ये णकारं शिखया दिशेत्||8||

वेकारं नेत्रयोर्युञ्ज्यान्नकारं सर्वसन्धिषु|
मकारमस्त्रमुद्दिश्य मन्त्रमूर्तिर्भवेद् बुधः||9||

सविसर्गं फडन्तं तत् सर्वदिक्षु विनिर्दिशेत्|
ॐ विष्णवे नम इति ||10||

आत्मानं परमं ध्यायेद ध्येयं षट्शक्तिभिर्युतम्|
विद्यातेजस्तपोमूर्तिमिमं मन्त्रमुदाहरेत ||11||

ॐ हरिर्विदध्यान्मम सर्वरक्षां न्यस्ताङ्घ्रिपद्मः पतगेन्द्रपृष्ठे|
दरारिचर्मासिगदेषुचापाशान् दधानोस्ष्टगुणोस्ष्टबाहुः ||12||

जलेषु मां रक्षतु मत्स्यमूर्तिर्यादोगणेभ्यो वरूणस्य पाशात्|
स्थलेषु मायावटुवामनोस्व्यात् त्रिविक्रमः खेऽवतु विश्वरूपः ||13||

दुर्गेष्वटव्याजिमुखादिषु प्रभुः पायान्नृसिंहोऽसुरयुथपारिः|
विमुञ्चतो यस्य महाट्टहासं दिशो विनेदुर्न्यपतंश्च गर्भाः ||14||

रक्षत्वसौ माध्वनि यज्ञकल्पः स्वदंष्ट्रयोन्नीतधरो वराहः|
रामोऽद्रिकूटेष्वथ विप्रवासे सलक्ष्मणोस्व्याद् भरताग्रजोस्स्मान् ||15||

मामुग्रधर्मादखिलात् प्रमादान्नारायणः पातु नरश्च हासात्|
दत्तस्त्वयोगादथ योगनाथः पायाद् गुणेशः कपिलः कर्मबन्धात् ||16||

सनत्कुमारो वतु कामदेवाद्धयशीर्षा मां पथि देवहेलनात्|
देवर्षिवर्यः पुरूषार्चनान्तरात् कूर्मो हरिर्मां निरयादशेषात् ||17||

धन्वन्तरिर्भगवान् पात्वपथ्याद् द्वन्द्वाद् भयादृषभो निर्जितात्मा|
यज्ञश्च लोकादवताज्जनान्ताद् बलो गणात् क्रोधवशादहीन्द्रः ||18||

द्वैपायनो भगवानप्रबोधाद् बुद्धस्तु पाखण्डगणात् प्रमादात्|
कल्किः कले कालमलात् प्रपातु धर्मावनायोरूकृतावतारः ||19||

मां केशवो गदया प्रातरव्याद् गोविन्द आसङ्गवमात्तवेणुः|
नारायण प्राह्ण उदात्तशक्तिर्मध्यन्दिने विष्णुररीन्द्रपाणिः ||20||

देवोस्पराह्णे मधुहोग्रधन्वा सायं त्रिधामावतु माधवो माम्|
दोषे हृषीकेश उतार्धरात्रे निशीथ एकोस्वतु पद्मनाभः ||21||

श्रीवत्सधामापररात्र ईशः प्रत्यूष ईशोऽसिधरो जनार्दनः|
दामोदरोऽव्यादनुसन्ध्यं प्रभाते विश्वेश्वरो भगवान् कालमूर्तिः ||22||

चक्रं युगान्तानलतिग्मनेमि भ्रमत् समन्ताद् भगवत्प्रयुक्तम्|
दन्दग्धि दन्दग्ध्यरिसैन्यमासु कक्षं यथा वातसखो हुताशः ||23||

गदेऽशनिस्पर्शनविस्फुलिङ्गे निष्पिण्ढि निष्पिण्ढ्यजितप्रियासि|
कूष्माण्डवैनायकयक्षरक्षोभूतग्रहांश्चूर्णय चूर्णयारीन् ||24||

त्वं यातुधानप्रमथप्रेतमातृपिशाचविप्रग्रहघोरदृष्टीन्|
दरेन्द्र विद्रावय कृष्णपूरितो भीमस्वनोऽरेर्हृदयानि कम्पयन् ||25||

त्वं तिग्मधारासिवरारिसैन्यमीशप्रयुक्तो मम छिन्धि छिन्धि|
चर्मञ्छतचन्द्र छादय द्विषामघोनां हर पापचक्षुषाम् ||26||

यन्नो भयं ग्रहेभ्यो भूत् केतुभ्यो नृभ्य एव च|
सरीसृपेभ्यो दंष्ट्रिभ्यो भूतेभ्योंऽहोभ्य एव वा ||27||

सर्वाण्येतानि भगन्नामरूपास्त्रकीर्तनात्|
प्रयान्तु सङ्क्षयं सद्यो ये नः श्रेयः प्रतीपकाः ||28||

गरूड्क्षो भगवान् स्तोत्रस्तोभश्छन्दोमयः प्रभुः|
रक्षत्वशेषकृच्छ्रेभ्यो विष्वक्सेनः स्वनामभिः ||29||

सर्वापद्भ्यो हरेर्नामरूपयानायुधानि नः|
बुद्धिन्द्रियमनः प्राणान् पान्तु पार्षदभूषणाः ||30||

यथा हि भगवानेव वस्तुतः सद्सच्च यत्|
सत्यनानेन नः सर्वे यान्तु नाशमुपाद्रवाः ||31||

यथैकात्म्यानुभावानां विकल्परहितः स्वयम्|
भूषणायुद्धलिङ्गाख्या धत्ते शक्तीः स्वमायया ||32||

तेनैव सत्यमानेन सर्वज्ञो भगवान् हरिः|
पातु सर्वैः स्वरूपैर्नः सदा सर्वत्र सर्वगः ||33

विदिक्षु दिक्षूर्ध्वमधः समन्तादन्तर्बहिर्भगवान् नारसिंहः|
प्रहापयंल्लोकभयं स्वनेन ग्रस्तसमस्ततेजाः ||34||

मघवन्निदमाख्यातं वर्म नारयणात्मकम्|
विजेष्यस्यञ्जसा येन दंशितोऽसुरयूथपान् ||35||

एतद् धारयमाणस्तु यं यं पश्यति चक्षुषा|
पदा वा संस्पृशेत् सद्यः साध्वसात् स विमुच्यते ||36||

न कुतश्चित भयं तस्य विद्यां धारयतो भवेत्|
राजदस्युग्रहादिभ्यो व्याघ्रादिभ्यश्च कर्हिचित् ||37||

इमां विद्यां पुरा कश्चित् कौशिको धारयन् द्विजः|
योगधारणया स्वाङ्गं जहौ स मरूधन्वनि ||38||

तस्योपरि विमानेन गन्धर्वपतिरेकदा|
ययौ चित्ररथः स्त्रीर्भिवृतो यत्र द्विजक्षयः ||39||

गगनान्न्यपतत् सद्यः सविमानो ह्यवाक् शिराः|
स वालखिल्यवचनादस्थीन्यादाय विस्मितः|
प्रास्य प्राचीसरस्वत्यां स्नात्वा धाम स्वमन्वगात् ||40||

||श्रीशुक उवाच||
य इदं शृणुयात् काले यो धारयति चादृतः|
तं नमस्यन्ति भूतानि मुच्यते सर्वतो भयात् ||41||

एतां विद्यामधिगतो विश्वरूपाच्छतक्रतुः|
त्रैलोक्यलक्ष्मीं बुभुजे विनिर्जित्यऽमृधेसुरान् ||42||

||इति श्रीनारायणकवचं सम्पूर्णम्||
( श्रीमद्भागवत स्कन्ध 6,| 8 )


No comments:

Post a Comment

please do not enter any spam link

POPULAR POST