दिक्कालाद्यनवच्छिन्नानन्तचिन्मात्रमूर्तये
|
स्वानुभूत्येकमानाय
नमः शान्ताय तेजसे || 1।1 ||
बोद्धारो
मत्सरग्रस्ताः
प्रभवः
स्मयदूषिताः |
अबोधोपहताः
चान्ये
जीर्णं अङ्गे
सुभाषितं || 1।2 ||
अज्ञः सुखं
आराध्यः
सुखतरं आराध्यते
विशेषज्ञः |
ज्ञानलवदुर्विदग्धं
ब्रह्मापि तं
नरं न रञ्जयति || 1।3 ||
प्रसह्य मणिं
उद्धरेन्मकरवक्त्रदंष्ट्रान्तरात्
समुद्रं अपि
सन्तरेत्प्रचलदूर्मिमालाकुलं |
भुजङ्गं अपि
कोपितं शिरसि पुष्पवद्धारयेत्
न तु
प्रतिनिविष्टमूऋखजनचित्तं आराधयेथ् || 1।4 ||
लभेत सिकतासु
तैलं अपि यत्नतः पीडयन्
पिबेच्च
मृगतृष्णिकासु सलिलं पिपासार्दितः |
क्वचिदपि
पर्यटन्शशविषाणं आसादयेत्
न तु
प्रतिनिविष्टमूर्खचित्तं आराधयेथ् || 1।5 ||
व्यालं
बालमृणालतन्तुभिरसौ रोद्धुं समुज्जृम्भते
छेत्तुं
वज्रमणिं शिरीषकुसुमप्रान्तेन सन्नह्यति |
माधुर्यं
मधुबिन्दुना रचयितुं क्षारामुधेरीहते
नेतुं वाञ्छन्ति
यः खलान्पथि सतां सूक्तैः सुधास्यन्दिभिः || 1।6 ||
स्वायत्तं
एकान्तगुणं विधात्रा
विनिर्मितं
छादनं अज्ञतायाः |
विशेषाअतः
सर्वविदां समाजे
विभूषणं मौनं
अपण्डितानां || 1।7 ||
यदा
किञ्चिज्ज्ञोऽहं द्विप इव मदान्धः समभवं
तदा
सर्वज्ञोऽस्मीत्यभवदवलिप्तं मम मनः
यदा
किञ्चित्किञ्चिद्बुधजनसकाशादवगतं
तदा
मूर्खोऽस्मीति ज्वर इव मदो मे व्यपगतः || 1।8 ||
कृमिकुलचित्तं लालाक्लिन्नं
विगन्धिजुगुप्सितं
निरुपमरसं
प्रीत्या खादन्नरास्थि निरामिषं |
सुरपतिं अपि
श्वा पार्श्वस्थं विलोक्य न शङ्कते
न हि गणयति
क्षुद्रो जन्तुः परिग्रहफल्गुतां || 1।9 ||
शिरः शार्वं
स्वर्गात्पशुपतिशिरस्तः क्षितिधरं
म्हीध्रादुत्तुङ्गादवनिं
अवनेश्चापि जलधिं |
अधोऽधो गङ्गेयं
पदं उपगता स्तोकम्
अथवाविवेकभ्रष्टानां
भवति विनिपातः शतमुखः || 1।10 ||
शक्यो वारयितुं
जलेन हुतभुक्च्छत्रेण सूर्यातपो
नागेन्द्रो
निशिताग्कुशेन समदो दण्डेन गोगर्दभौ |
व्याधिर्भेषजसङ्ग्रहैश्च
विविधैर्मन्त्रप्रयोगैर्विषं
सर्वस्यौषधं
अस्ति शास्त्रविहितं मूर्खस्य नस्त्यौषधिं || 1।11 ||
साहित्यसङ्गीतकलाविहीनः
साक्षात्पशुः
पुच्छविषाणहीनः |
तृणं न खादन्नपि
जीवमानस्
तद्भागधेयं परमं
पशूनां || 1।12 ||
येषां न विद्या
न तपो न दानं
ज्ञानं न शीलं न
गुणो न धर्मः |
ते मर्त्यलोके
भुवि भारभूता
मनुष्यरूपेण
मृगाश्चरन्ति || 1।13 ||
वरं
पर्वतदुर्गेषु
भ्रान्तं वनचरैः
सह
न
मूर्खजनसम्पर्कः
सुरेन्द्रभवनेष्वपि
|| 1।14 ||
शास्त्रोपस्कृतशब्दसुन्दरगिरः
शिष्यप्रदेयागमा
विख्याताः कवयो
वसन्ति विषये यस्य प्रभोर्निर्धनाः |
तज्जाड्यं
वसुधादिपस्य कवयस्त्वर्थं विनापीश्वराः
कुत्स्याः स्युः
कुपरीक्षका हि मणयो यैरर्घतः पातिताः || 1।15 ||
हर्तुर्याति न
गोचरं किं अपि शं पुष्णाति यत्सर्वदाऽप्य्
अर्थिभ्यः
प्रतिपाद्यमानं अनिशं प्राप्नोति वृद्धिं परां |
कल्पान्तेष्वपि
न प्रयाति निधनं विद्याख्यं अन्तर्धनं
येषां तान्प्रति
मानं उज्झत नृपाः कस्तैः सह स्पर्धते || 1।16 ||
अधिगतपरमार्थान्पण्डितान्मावमंस्थास्
तृणं इव लघु
लक्ष्मीर्नैव तान्संरुणद्धि |
अभिनवमदलेखाश्यामगण्डस्थलानां
न भवति
बिसतन्तुर्वारणं वारणानां || 1।17 ||
अम्भोजिनीवनविहारविलासं
एव
हंसस्य हन्ति
नितरां कुपितो विधाता |
न त्वस्य
दुग्धजलभेदविधौ प्रसिद्धां
वैदग्धीकीर्तिं
अपहर्तुं असौ समर्थः || 1।18 ||
केयूराणि न
भूषयन्ति पुरुषं हारा न चन्द्रोज्ज्वला
न स्नानं न
विलेपनं न कुसुमं नालङ्कृता मूर्धजाः |
वाण्येका
समलङ्करोति पुरुषं या संस्कृता धार्यते
क्षीयन्ते खलु
भूषणानि सततं वाग्भूषणं भूषणं || 1।19 ||
विद्या नाम
नरस्य रूपं अधिकं प्रच्छन्नगुप्तं धनं
विद्या भोगकरी
यशःसुखकरी विद्या गुरूणां गुरुः |
विद्या बन्धुजनो
विदेशगमने विद्या परा देवता
विद्या राजसु
पूज्यते न तु धनं विद्याविहीनः पशुः || 1।20 ||
क्षान्तिश्चेत्कवचेन
किं किं अरिभिः क्रोधोऽस्ति चेद्देहिनां
ज्ञातिश्चेदनलेन
किं यदि सुहृद्दिव्यौषधं किं फलं |
किं सर्पैर्यदि
दुर्जनाः किं उ धनैर्विद्याऽनवद्या यदि
व्रीडा चेत्किं
उ भूषणैः सुकविता यद्यस्ति राज्येन किं || 1।21 ||
दाक्षिण्यं
स्वजने दया परिजने शाठ्यं सदा दुर्जने
प्रीतिः साधुजने
नयो नृपजने विद्वज्जने चार्जवं |
शौर्यं शत्रुजने
क्षमा गुरुजने कान्ताजने धृष्टता
ये चैवं पुरुषाः
कलासु कुशलास्तेष्वेव लोकस्थितिः || 1।22 ||
जाड्यं धियो
हरति सिञ्चति वाचि सत्यं
मानोन्नतिं
दिशति पापं अपाकरोति |
चेतः प्रसादयति
दिक्षु तनोति कीर्तिं
सत्सङ्गतिः कथय
किं न करोति पुंसां || 1।23 ||
जयन्ति ते
सुकृतिनो
रससिद्धाः
कवीश्वराः |
नास्ति येषां
यशःकाये
जरामरणजं भयं || 1।24 ||
सूनुः सच्चरितः
सती प्रियतमा स्वामी प्रसादोन्मुखः
स्निग्धं मित्रं
अवञ्चकः परिजनो निःक्लेशलेशं मनः |
आकारो रुचिरः
स्थिरश्च विभवो विद्यावदातं मुखं
तुष्टे
विष्टपकष्टहारिणि हरौ सम्प्राप्यते देहिना || 1।25 ||
प्राणाघातान्निवृत्तिः
परधनहरणे संयमः सत्यवाक्यं
काले शक्त्या
प्रदानं युवतिजनकथामूकभावः परेषां |
तृष्णास्रोतो
विभङ्गो गुरुषु च विनयः सर्वभूतानुकम्पा
सामान्यः
सर्वशास्त्रेष्वनुपहतविधिः श्रेयसां एष पन्थाः || 1।26 ||
प्रारभ्यते न
खलु विघ्नभयेन नीचैः
प्रारभ्य
विघ्नविहता विरमन्ति मध्याः |
विघ्नैः पुनः
पुनरपि प्रतिहन्यमानाः
प्रारब्धं
उत्तमजना न परित्यजन्ति || 1।27 ||
असन्तो
नाभ्यर्थ्याः सुहृदपि न याच्यः कृशधनः
प्रिया न्याय्या
वृत्तिर्मलिनं असुभङ्गेऽप्यसुकरं |
विपद्युच्चैः
स्थेयं पदं अनुविधेयं च महतां
सतां
केनोद्दिष्टं विषमं असिधाराव्रतं इदं || 1।28 ||
क्षुत्क्षामोऽपि
जराकृशोऽपि शिथिलप्राणोऽपि कष्टां दशाम्
आपन्नोऽपि विपन्नदीधितिरिति
प्राणेषु नश्यत्स्वपि |
मत्तेभेन्द्रविभिन्नकुम्भपिशितग्रासैकबद्धस्पृहः
किं जीर्णं तृणं
अत्ति मानमहतां अग्रेसरः केसरी || 1।29 ||
स्वल्पस्नायुवसावशेषमलिनं
निर्मांसं अप्यस्थि गोः
श्वा लब्ध्वा
परितोषं एति न तु तत्तस्य क्षुधाशान्तये |
सिंहो जम्बुकं
अङ्कं आगतं अपि त्यक्त्वा निहन्ति द्विपं
सर्वः
कृच्छ्रगतोऽपि वाञ्छन्ति जनः सत्त्वानुरूपं फलं || 1।30 ||
लाङ्गूलचालनं
अधश्चरणावपातं
भूमौ निपत्य
वदनोदरदर्शनं च |
श्वा पिण्डदस्य
कुरुते गजपुङ्गवस्तु
धीरं विलोकयति
चाटुशतैश्च भुङ्क्ते || 1।31 ||
परिवर्तिनि संसारे
मृतः को वा न
जायते |
स जातो येन
जातेन
याति वंशः
समुन्नतिं || 1।32 ||
कुसुमस्तवकस्येव
द्वयी
वृत्तिर्मनस्विनः |
मूर्ध्नि वा
सर्वलोकस्य
शीर्यते वन एव
वा || 1।33 ||
सन्त्यन्येऽपि
बृहस्पतिप्रभृतयः सम्भाविताः पञ्चषास्
तान्प्रत्येष
विशेषविक्रमरुची राहुर्न वैरायते |
द्वावेव ग्रसते
दिवाकरनिशाप्राणेश्वरौ भास्करौ
भ्रातः पर्वणि
पश्य दानवपतिः शीर्षावशेषाकृतिः || 1।34 ||
वहति
भुवनश्रेणिं शेषः फणाफलकस्थितां
कमठपतिना
मध्येपृष्ठं सदा स च धार्यते |
तं अपि कुरुते
क्रोडाधीनं पयोधिरनादराद्
अहह महतां
निःसीमानश्चरित्रविभूतयः || 1।35 ||
वरं पक्षच्छेदः
समदमघवन्मुक्तकुलिशप्रहारैर्
उद्गच्छद्बहुलदहनोद्गारगुरुभिः
|
तुषाराद्रेः
सूनोरहह पितरि क्लेशविवशे
न चासौ सम्पातः
पयसि पयसां पत्युरुचितः || 1।36 ||
सिंहः शिशुरपि
निपतति
मदमलिनकपोलभित्तिषु
गजेषु |
प्रकृतिरियं
सत्त्ववतां
न खलु वयस्तेजसो
हेतुः || 1।37 ||
जातिर्यातु
रसातलं गुणगणैस्तत्राप्यधो गम्यतां
शीलं
शैलतटात्पतत्वभिजनः सन्दह्यतां वह्निना |
शौर्ये वैरिणि
वज्रं आशु निपतत्वर्थोऽस्तु नः केवलं
येनैकेन विना
गुणस्तृणलवप्रायाः समस्ता इमे || 1।38 ||
धनं अर्जय
काकुत्स्थ
धनमूलं इदं जगत्
|
अन्तरं
नाभिजानामि
निर्धनस्य
मृतस्य च || 1।39 ||
तानीन्द्रियाण्यविकलानि
तदेव नाम
सा
बुद्धिरप्रतिहता वचनं तदेव |
अर्थोष्मणा
विरहितः पुरुषः क्षणेन
सोऽप्यन्य एव
भवतीति विचित्रं एतथ् || 1।40 ||
यस्यास्ति
वित्तं स नरः कुलीनः
स पण्डितः स
श्रुतवान्गुणज्ञः |
स एव वक्ता स च
दर्शनीयः
सर्वे गुणाः
काञ्चनं आश्रयन्ति || 1।41 ||
दौर्मन्त्र्यान्नृपतिर्विनश्यति
यतिः सङ्गात्सुतो लालनात्
विप्रोऽनध्ययनात्कुलं
कुतनयाच्छीलं खलोपासनात् |
ह्रीर्मद्यादनवेक्षणादपि
कृषिः स्नेहः प्रवासाश्रयान्
मैत्री
चाप्रणयात्समृद्धिरनयात्त्यागप्रमादाद्धनं || 1।42 ||
दानं भोगो
नाशस्तिस्रो
गतयो भवन्ति
वित्तस्य |
यो न ददाति न
भुङ्क्ते
तस्य तृतीया
गतिर्भवति || 1।43 ||
मणिः शाणोल्लीढः
समरविजयी हेतिदलितो
मदक्षीणो नागः
शरदि सरितः श्यानपुलिनाः |
कलाशेषश्चन्द्रः
सुरतमृदिता बालवनिता
तन्निम्ना
शोभन्ते गलितविभवाश्चार्थिषु नराः || 1।44 ||
परिक्षीणः
कश्चित्स्पृहयति यवानां प्रसृतये
स
पश्चात्सम्पूर्णः कलयति धरित्रीं तृणसमां |
अतश्चानैकान्त्याद्गुरुलघुतयाऽर्थेषु
धनिनाम्
अवस्था वस्तूनि
प्रथयति च सङ्कोचयति च || 1।45 ||
राजन्दुधुक्षसि
यदि क्षितिधेनुं एतां
तेनाद्य वत्सं
इव लोकं अमुं पुषाण
तस्मिंश्च
सम्यगनिशं परिपोष्यमाणे
नानाफलैः फलति
कल्पलतेव भूमिः || 1।46 ||
सत्यानृता च
परुषा प्रियवादिनी च
हिंस्रा
दयालुरपि चार्थपरा वदान्या |
नित्यव्यया
प्रचुरनित्यधनागमा च
वाराङ्गनेव
नृपनीतिरनेकरूपा || 1।47 ||
आज्ञा कीर्तिः
पालनं ब्राह्मणानां
दानं भोगो
मित्रसंरक्षणं च
येषां एते
षड्गुणा न प्रवृत्ताः
कोऽर्थस्तेषां
पार्थिवोपाश्रयेण || 1।48 ||
यद्धात्रा
निजभालपट्टलिखितं स्तोकं महद्वा धनं
तत्प्राप्नोति
मरुस्थलेऽपि नितरां मेरौ ततो नाधिकं |
तद्धीरो भव
वित्तवत्सु कृपणां वृत्तिं वृथा सा कृथाः
कूपे पश्य
पयोनिधावपि घटो गृह्णाति तुल्यं जलं || 1।49 ||
त्वं एव
चातकाधारोऽ
सीति केषां न
गोचरः |
किं
अम्भोदवरास्माकं
कार्पण्योक्तं
प्रतीक्षसे || 1।50 ||
रे रे चातक
सावधानमनसा मित्र क्षणं श्रूयताम्
अम्भोदा बहवो
वसन्ति गगने सर्वेऽपि नैतादृशाः |
केचिद्वृष्टिभिरार्द्रयन्ति
वसुधां गर्जन्ति केचिद्वृथा
यं यं पश्यसि
तस्य तस्य पुरतो मा ब्रूहि दीनं वचः || 1।51 ||
अकरुणत्वं
अकारणविग्रहः
परधने परयोषिति
च स्पृहा |
सुजनबन्धुजनेष्वसहिष्णुता
प्रकृतिसिद्धं
इदं हि दुरात्मनां || 1।52 ||
दुर्जनः
परिहर्तव्यो
विद्ययाऽलकृतोऽपि
सन् |
मणिना भूषितः
सर्पः
किं असौ न
भयङ्करः || 1।53 ||
जाड्यं ह्रीमति
गण्यते व्रतरुचौ दम्भः शुचौ कैतवं
शूरे निर्घृणता
मुनौ विमतिता दैन्यं प्रियालापिनि |
तेजस्विन्यवलिप्तता
मुखरता वक्तर्यशक्तिः स्थिरे
तत्को नाम गुणो
भवेत्स गुणिनां यो दुर्जनैर्नाङ्कितः || 1।54 ||
लोभश्चेदगुणेन
किं पिशुनता यद्यस्ति किं पातकैः
सत्यं चेत्तपसा
च किं शुचि मनो यद्यस्ति तीर्थेन किं |
सौजन्यं यदि किं
गुणैः सुमहिमा यद्यस्ति किं मण्डनैः
सद्विद्या यदि
किं धनैरपयशो यद्यस्ति किं मृत्युना || 1।55 ||
शशी दिवसधूसरो
गलितयौवना कामिनी
सरो विगतवारिजं
मुखं अनक्षरं स्वाकृतेः |
प्रभुर्धनपरायणः
सततदुर्गतः सज्जनो
नृपाङ्गणगतः खलो
मनसि सप्त शल्यानि मे || 1।56 ||
न
कश्चिच्चण्डकोपानाम्
आत्मीयो नाम
भूभुजां |
होतारं अपि
जुह्वानं
स्पृष्टो वहति
पावकः || 1।57 ||
मौनोउमूकः
प्रवचनपटुर्बाटुलो जल्पको वा
धृष्टः पार्श्वे
वसति च सदा दूरतश्चाप्रगल्भः |
क्षान्त्या
भीरुर्यदि न सहते प्रायशो नाभिजातः
सेवाधर्मः
परमगहनो योगिनां अप्यगम्यः || 1।58 ||
उद्भासिताखिलखलस्य
विशृङ्खलस्य
प्राग्जातविस्तृतनिजाधमकर्मवृत्तेः
|
दैवादवाप्तविभवस्य
गुणद्विषोऽस्य
नीचस्य गोचरगतैः
सुखं आप्यते || 1।59 ||
आरम्भगुर्वी
क्षयिणी क्रमेण
लघ्वी पुरा
वृद्धिमती च पश्चात् |
दिनस्य
पूर्वार्धपरार्धभिन्ना
छायेव मैत्री
खलसज्जनानां || 1।60 ||
मृगमीनसज्जनानां
तृणजलसन्तोषविहितवृत्तीनां |
लुब्धकधीवरपिशुना
निष्कारणवैरिणो जगति || 1।61 ||
वाञ्छा
सज्जनसङ्गमे परगुणे प्रीतिर्गुरौ नम्रता
विद्यायां
व्यसनं स्वयोषिति रतिर्लोकापवादाद्भयं |
भक्तिः शूलिनि
शक्तिरात्मदमने संसर्गमुक्तिः खले
येष्वेते
निवसन्ति निर्मलगुणास्तेभ्यो नरेभ्यो नमः || 1।62 ||
विपदि धैर्यं
अथाभ्युदये क्षमा
सदसि वाक्यपटुता
युधि विक्रमः |
यशसि
चाभिरुचिर्व्यसनं श्रुतौ
प्रकृतिसिद्धं
इदं हि महात्मनां || 1।63 ||
प्रदानं
प्रच्छन्नं गृहं उपगते सम्भ्रमविधिः
प्रियं कृत्वा
मौनं सदसि कथनं चाप्युपकृतेः |
अनुत्सेको
लक्ष्म्यां अनभिभवगन्धाः परकथाः
सतां
केनोद्दिष्टं विषमं असिधाराव्रतं इदं || 1।64 ||
करे
श्लाघ्यस्त्यागः शिरसि गुरुपादप्रणयिता
मुखे सत्या वाणी
विजयि भुजयोर्वीर्यं अतुलं |
हृदि स्वच्छा
वृत्तिः श्रुतिं अधिगतं च श्रवणयोर्
विनाप्यैश्वर्येण
प्रकृतिमहतां मण्डनं इदं || 1।65 ||
सम्पत्सु महतां
चित्तं
भवत्युत्पलकोउमलं
|आपत्सु च महाशैलशिला
सङ्घातकर्कशं || 1।66 ||
सन्तप्तायसि
संस्थितस्य पयसो नामापि न ज्ञायते
मुक्ताकारतया
तदेव नलिनीपत्रस्थितं राजते |
स्वात्यां सागरशुक्तिमध्यपतितं
तन्मौक्तिकं जायते
प्रायेणाधममध्यमोत्तमगुणः
संसर्गतो जायते || 1।67 ||
प्रीणाति यः
सुचरितैः पितरं स पुत्रो
यद्भर्तुरेव
हितं इच्छति तत्कलत्रं |
तन्मित्रं आपदि
सुखे च समक्रियं यद्
एतत्त्रयं जगति
पुण्यकृतो लभन्ते || 1।68 ||
एको देवः केशवो
वा शिवो वा
ह्येकं मित्रं
भूपतिर्वा यतिर्वा |
एको वासः पत्तने
वा वने वा
ह्येका भार्या
सुन्दरी वा दरी वा || 1।69 ||
नम्रत्वेनोन्नमन्तः
परगुणकथनैः स्वान्गुणान्ख्यापयन्तः
स्वार्थान्सम्पादयन्तो
विततपृथुतरारम्भयत्नाः परार्थे |
क्षान्त्यैवाक्षेपरुक्षाक्षरमुखरमुखान्दुर्जनान्दूषयन्तः
सन्तः
साश्चर्यचर्या जगति बहुमताः कस्य नाभ्यर्चनीयाः || 1।70 ||
भवन्ति
नम्रास्तरवः फलोद्गमैर्
नवाम्बुभिर्दूरावलम्बिनो
घनाः |
अनुद्धताः
सत्पुरुषाः समृद्धिभिः
स्वभाव एष
परोपकारिणां || 1।71 ||
श्रोत्रं श्रुतेनैव
न कुण्डलेन
दानेन पाणिर्न
तु कङ्कणेन |
विभाति कायः
करुणपराणां
परोपकारैर्न तु
चन्दनेन || 1।72 ||
पापान्निवारयति
योजयते हिताय
गुह्यं निगूहति
गुणान्प्रकटीकरोति |
आपद्गतं च न
जहाति ददाति काले
सन्मित्रलक्षणं
इदं प्रवदन्ति सन्तः || 1।73 ||
पद्माकरं दिनकरो
विकचीकरोति
चम्द्र्प्वोलासयति
कैरवचक्रवालं |
नाभ्यर्थितो
जलधरोऽपि जलं ददाति
सन्तः स्वयं
परहिते विहिताभियोगाः || 1।74 ||
एके सत्पुरुषाः
परार्थघटकाः स्वार्थं परित्यजन्ति ये
सामान्यास्तु
परार्थं उद्यमभृतः स्वार्थाविरोधेन ये |
तेऽमी
मानुषराक्षसाः परहितं स्वार्थाय निघ्नन्ति ये
ये तु घ्नन्ति
निरर्थकं परहितं ते के न जानीमहे || 1।75 ||
क्षीरेणात्मगतोदकाय
हि गुणा दत्ता पुरा तेऽखिला
क्षीरोत्तापं
अवेक्ष्य तेन पयसा स्वात्मा कृशानौ हुतः |
गन्तुं पावकं
उन्मनस्तदभवद्दृष्ट्वा तु मित्रापदं
युक्तं तेन जलेन
शाम्यति सतां मैत्री पुनस्त्वीदृशी || 1।76 ||
इतः स्वपिति
केशवः कुलं इतस्तदीयद्विषाम्
इतश्च
शरणार्थिनां शिखरिणां गणाः शेरते |
इतोऽपि बडवानलः
सह समस्तसंवर्तकैऋ
अहो विततं
ऊर्जितं भरसहं सिन्धोर्वपुः || 1।77 ||
तृष्णां छिन्धि
भज क्षमां जहि मदं पापे रतिं मा कृथाः
सत्यं
ब्रूह्यनुयाहि साधुपदवीं सेवस्व विद्वज्जनं |
मान्यान्मानय
विद्विषोऽप्यनुनय प्रख्यापय प्रश्रयं
कीर्तिं पालय
दुःखिते कुरु दयां एतत्सतां चेष्टितं || 1।78 ||
मनसि वचसि काये
पुण्यपीयूषपूर्णास्
त्रिभुवनं
उपकारश्रेणिभिः प्रीणयन्तः |
परगुणपरमाणून्पर्वतीकृत्य
नित्यं
निजहृदि
विकसन्तः सन्त सन्तः कियन्तः || 1।79 ||
किं तेन
हेमगिरिणा रजताद्रिणा वा
यत्राश्रिताश्च
तरवस्तरवस्त एव |
मन्यामहे मलयं
एव यदाश्रयेण
कङ्कोलनिम्बकटुजा
अपि चन्दनाः स्युः || 1।80 ||
रत्नैर्महार्हैस्तुतुषुर्न
देवा
न भेजिरे
भीमविषेण भीतिं |
सुधां विना न
परयुर्विरामं
न
निश्चितार्थाद्विरमन्ति धीराः || 1।81 ||
क्वचित्पृथ्वीशय्यः
क्वचिदपि च परङ्कशयनः
क्वचिच्छाकाहारः
क्वचिदपि च शाल्योदनरुचिः |
क्वचित्कन्थाधारी
क्वचिदपि च दिव्याम्बरधरो
मनस्वी
कार्यार्थी न गणयति दुःखं न च सुखं || 1।82 ||
ऐश्वर्यस्य
विभूषणं सुजनता शौर्यस्य वाक्संयमो
ज्ञानस्योपशमः
श्रुतस्य विनयो वित्तस्य पात्रे व्ययः |
अक्रोधस्तपसः
क्षमा प्रभवितुर्धर्मस्य निर्वाजता
सर्वेषां अपि
सर्वकारणं इदं शीलं परं भूषणं || 1।83 ||
निन्दन्तु
नीतिनिपुणा यदि वा स्तुवन्तु
लक्ष्मीः
समाविशतु गच्छतु वा यथेष्ठं |
अद्यैव वा मरणं
अस्तु युगान्तरे वा
न्याय्यात्पथः
प्रविचलन्ति पदं न धीराः || 1।84 ||
भग्नाशस्य
करण्डपिण्डिततनोर्म्लानेन्द्रियस्य क्षुधा
कृत्वाखुर्विवरं
स्वयं निपतितो नक्तं मुखे भोगिनः |
तृप्तस्तत्पिशितेन
सत्वरं असौ तेनैव यातः यथा
लोकाः पश्यत
दैवं एव हि नृणां वृद्धौ क्षये कारणं || 1।85 ||
आलस्यं हि
मनुष्याणां
शरीरस्थो
महान्रिपुः |
नास्त्युद्यमसमो
बन्धुः
कुर्वाणो
नावसीदति || 1।86 ||
छिन्नोऽपि रोहति
तर्क्षीणोऽप्युपचीयते पुनश्चन्द्रः |
इति विमृशन्तः
सन्तः सन्तप्यन्ते न दुःखेषु || 1।87 ||
नेता यस्य
बृहस्पतिः प्रहरणं वज्रं सुराः सैनिकाः
स्वर्गो दुर्गं
अनुग्रहः किल हरेरैरावतो वारणः |
इत्यैश्वर्यबलान्वितोऽपि
बलभिद्भग्नः परैः सङ्गरे
तद्व्यक्तं ननु
दैवं एव शरणं धिग्धिग्वृथा पौरुषं || 1।88 ||
कर्मायत्तं फलं
पुंसां
बुद्धिः
कर्मानुसारिणी |
तथापि सुधिया
भाव्यं
सुविचार्यैव
कुर्वता || 1।89 ||
खल्वातो
दिवसेश्वरस्य किरणैः सन्ताडितो मस्तके
वाञ्छन्देशं
अनातपं विधिवशात्तालस्य मूलं गतः |
तत्राप्यस्य
महाफलेन पतता भग्नं सशब्दं शिरः
प्रायो गच्छति
यत्र भाग्यरहितस्तत्रैव यान्त्यापदः || 1।90 ||
रविनिशाकरयोर्ग्रहपीडनं
गजभुजङ्गमयोरपि
बन्धनं |
मतिमतां च
विलोक्य दरिद्रतां
विधिरहो
बलवानिति मे मतिः || 1।91 ||
सृजति
तावदशेषगुणकरं
पुरुषरत्नं
अलङ्करणं भुवः |
तदपि
तत्क्षणभङ्गि करोति
चेदहह कष्टं
अपण्डितता विधेः || 1।92 ||
पत्रं नैव यदा
करीरविटपे दोषो वसन्तस्य किम्
नोलूकोऽप्यवओकते
यदि दिवा सूर्यस्य किं दूषणं |
धारा नैव पतन्ति
चातकमुखे मेघस्य किं दूषणम्
यत्पूर्वं
विधिना ललाटलिखितं तन्मार्जितुं कः क्षमः || 1।93 ||
नमस्यामो
देवान्ननु हतविधेस्तेऽपि वशगा
विधिर्वन्द्यः
सोऽपि प्रतिनियतकर्मैकफलदः |
फलं कर्मायत्तं
यदि किं अमरैः किं च विधिना
नमस्तत्कर्मभ्यो
विधिरपि न येभ्यः प्रभवति || 1।94 ||
ब्रह्मा येन
कुलालवन्नियमितो ब्रह्माडभाण्डोदरे
विष्णुर्येन
दशावतारगहने क्षिप्तो महासङ्कटे |
रुद्रो येन
कपालपाणिपुटके भिक्षाटनं कारितः
सूर्यो
भ्राम्यति नित्यं एव गगने तस्मै नमः कर्मणे || 1।95 ||
नैवाकृतिः फलति
नैवा कुलं न शीलं
विद्यापि नैव न
च यत्नकृतापि सेवा |
भाग्यानि
पूर्वतपसा खलु सञ्चितानि
काले फलन्ति
पुरुषस्य यथैव वृक्षाः || 1।96 ||
वने रणे
शत्रुजलाग्निमध्ये
महार्णवे पर्वतमस्तके
वा |
सुप्तं प्रमत्तं
विषमस्थितं वा
रक्षन्ति
पुण्यानि पुराकृतानि || 1।97 ||
या साधूंश्च
खलान्करोति विदुषो मूर्खान्हितान्द्वेषिणः
प्रत्यक्षं
कुरुते परीक्षं अमृतं हालाहलं तत्क्षणात् |
तां आराधय
सत्क्रियां भगवतीं भोक्तुं फलं वाञ्छितं
हे साधो
व्यसनैर्गुणेषु विपुलेष्वास्थां वृथा मा कृथाः || 1।98 ||
गुणवदगुणवद्वा
कुर्वता कार्यजातं
परिणतिरवधार्या
यत्नतः पण्डितेन |
अतिरभसकृतानां
कर्मणां आविपत्तेर्
भवति हृदयदाही
शल्यतुल्यो विपाकः || 1।99 ||
स्थाल्यां
वैदूर्यमय्यां पचति तिलकणांश्चन्दनैरिन्धनौघैः
सौवर्णैर्लाङ्गलाग्रैर्विलिखति
वसुधां अर्कमूलस्य हेतोः |
कृत्वा
कर्पूरखण्डान्वृत्तिं इह कुरुते कोद्रवाणां समन्तात्
प्राप्येमां
कर्म्भूमिं न चरति मनुजो यस्तोप मन्दभाग्यः || 1।100 ||
मज्जत्वम्भसि
यातु मेरुशिखरं शत्रुं जयत्वाहवे
वाणिज्यं
कृषिसेवने च सकला विद्याः कलाः शिक्षतां |
आकाशं विपुलं
प्रयातु खगवत्कृत्वा प्रयत्नं परं
नाभाव्यं भवतीह
कर्मवशतो भाव्यस्य नाशः कुतः || 1।101 ||
भीमं वनं भवति
तस्य पुरं प्रधानं
सर्वो जनः
स्वजनतां उपयाति तस्य |
कृत्स्ना च
भूर्भवति सन्निधिरत्नपूर्णा
यस्यास्ति
पूर्वसुकृतं विपुलं नरस्य || 1।102 ||
को लाभो
गुणिसङ्गमः किं असुखं प्राज्ञेतरैः सङ्गतिः
का हानिः
समयच्युतिर्निपुणता का धर्मतत्त्वे रतिः |
कः शूरो
विजितेन्द्रियः प्रियतमा काऽनुव्रता किं धनं
विद्या किं सुखं
अप्रवासगमनं राज्यं किं आज्ञाफलं || 1।103 ||
अप्रियवचनदरिद्रैः
प्रियवचनधनाढ्यैः स्वदारपरितुष्टैः |
परपरिवादनिवृत्तैः
क्वचित्क्वचिन्मण्डिता वसुधा || 1।104 ||
कदर्थितस्यापि
हि धैर्यवृत्तेर्
न शक्यते
धैर्यगुणः प्रमार्ष्टुं |
अधोउमुखस्यापि
कृतस्य वह्नेर्
नाधः शिखा याति
कदाचिदेव || 1।105 ||
कान्ताकटाक्षविशिखा
न लुनन्ति यस्य
चित्तं न
निर्दहति किपकृशानुतापः |
कर्षन्ति
भूरिविषयाश्च न लोभपाशैर्
लोकत्रयं जयति
कृत्स्नं इदं स धीरः || 1।106 ||
एकेनापि हि
शूरेण
पादाक्रान्तं
महीतलं |
क्रियते
भास्करेणैव
स्फारस्फुरिततेजसा
|| 1।107 ||
वह्निस्तस्य
जलायते जलनिधिः कुल्यायते तत्क्षणान्
मेरुः
स्वल्पशिलायते मृगपतिः सद्यः कुरङ्गायते |
व्यालो
माल्यगुणायते विषरसः पीयूषवर्षायते
यस्याङ्गेऽखिललोकवल्लभतमं
शीलं समुन्मीलति || 1।108 ||
लज्जागुणौघजननीं
जननीं इव स्वाम्
अत्यन्तशुद्धहृदयां
अनुवर्तमानां |
तेजस्विनः सुखं
असूनपि सन्त्यजनति
सत्यव्रतव्यसनिनो
न पुनः प्रतिज्ञां || 1।109 ||
No comments:
Post a Comment
please do not enter any spam link