श्रीपातञ्जलयोगदर्शनम्
|
अथ विभूतिपादः |
देशबन्धश्चित्तस्य
धारणा ||1||
तत्र
प्रत्ययैकतानता ध्यानम् ||2||
तदेवार्थमात्रनिर्भासं
स्वरूपशून्यमिव समाधिः ||3||
त्रयमेकत्र
संयमः ||4||
तज्जयात्
प्रज्ञालोकः ||5||
तस्य भूमिषु
विनियोगः ||6||
त्रयमन्तरङ्गं
पूर्वेभ्यः ||7||
तदपि बहिरङ्गं
निर्बीजस्य ||8||
व्युत्थाननिरोधसंस्कारयोरभिभवप्रादुर्भावौ
निरोधक्षणचित्तान्वयो निरोधपरिणामः ||9||
तस्य
प्रशान्तवाहिता संस्कारात् ||10||
सर्वार्थतैकाग्रातयोः
क्षयोदयौ चित्तस्य समाधिपरिणामः ||11||
ततः पुनः शान्तोदितौ
तुल्यप्रत्ययौ चित्तस्यैकाग्रता परिणामः ||12||
एतेन
भूतेन्द्रियेषु धर्मलक्षणावस्थापरिणामा व्याख्याताः ||13||
शान्तोदिताव्यपदेश्यधर्मानुपाती
धर्मी ||14||
क्रमान्यत्वं
परिणामान्यत्वे हेतुः ||15||
परिणामत्रयसंयमादतीतानागतज्ञानम्
||16||
शब्दार्थप्रत्ययानामितरेतराध्यासात्
सङ्करस्तत्प्रविभागसंयमात् सर्वभूतरुतज्ञानम् ||17||
संस्कारसाक्षात्करणात्
पूर्वजातिज्ञानम् ||18||
प्रत्ययस्य
परचित्तज्ञानम् ||19||
न च तत्
सालम्बनं तस्याविषयीभूतत्वात् ||20||
कायरूपसंयमात्
तद्ग्राह्यशक्तिस्तम्भे चक्षुः प्रकाशासम्प्रयोगेऽन्तर्धानम् ||21||
सोपक्रमं
निरुपक्रमं च कर्म तत्संयमादपरान्तज्ञानमरिष्टेभ्यो वा ||22||
मैत्र्यादिषु
बलानि ||23||
बलेषु
हस्तिबलादीनी ||24||
प्रवृत्त्यालोकन्यासात्
सूक्ष्मव्यवहितविप्रकृष्टज्ञानम् ||25||
भुवनज्ञानं
सूर्ये संयमात् ||26||
चन्द्रे
ताराव्यूहज्ञानम् ||27||
ध्रुवे
तद्गतिज्ञानम् ||28||
नाभिचक्रे
कायव्यूहज्ञानम् ||29||
कण्ठकूपे
क्षुत्पिपासानिवृत्तिः ||30||
कूर्मनाड्यां
स्थैर्यम् ||31||
मूर्धज्योतिषि
सिद्धदर्शनम् ||32||
प्रातिभाद्वा
सर्वम् ||33||
हृदये
चित्तसंवित् ||34||
सत्त्वपुरुषयोरत्यन्तासङ्कीर्णयोः
प्रत्ययाविशेषो भोगः परार्थत्वात् स्वार्थसंयमात् पुरुषज्ञानम् ||35||
ततः
प्रातिभश्रावणवेदनादर्शास्वादवार्ता जायन्ते ||36||
ते
समाधावुपसर्गाव्युत्थाने सिद्धयः ||37||
बन्धकारणशैथिल्यात्
प्रचारसंवेदनाच्च चित्तस्य परशरीरावेशः ||38||
उदानजयाज्जलपङ्ककण्टकादिष्वसङ्ग
उत्क्रान्तिश्च ||39||
समानजयाज्ज्वलनम्
||40||
श्रोत्राकाशयोः
सम्बन्धसंयमात् दिव्यं श्रोत्रम् ||41||
कायाकाशयोः
सम्बन्धसंयमात् लघुतूलसमापत्तेश्च आकाशगमनम् ||42||
बहिरकल्पिता
वृत्तिर्महाविदेहा ततः प्रकाशावरणक्षयः ||43||
स्थूलस्वरूपसूक्ष्मान्वयार्थवत्त्वसंयमात्
भूतजयः ||44||
ततोऽणिमादिप्रादुर्भावः
कायसम्पत् तद्धर्मानभिघातश्च ||45||
रूपलावण्यबलवज्रसंहननत्वानि
कायसम्पत् ||46||
ग्रहणस्वरूपास्मितान्वयार्थवत्त्वसंयमादिन्द्रियजयः
||47||
ततो मनोजवित्वं
विकरणभावः प्रधानजयश्च ||48||
सत्त्वपुरुषान्यताख्यातिमात्रस्य
सर्वभावाधिष्ठातृत्वं सर्वज्ञातृत्वञ्च ||49||
तद्वैराग्यादपि
दोषबीजक्षये कैवल्यम् ||50||
स्थान्युपनिमन्त्रणे
सङ्गस्मयाकरणं पुनरनिष्टप्रसङ्गात् ||51||
क्षणतत्क्रमयोः
संयमाद्विवेकजं ज्ञानम् ||52||
जातिलक्षणदेशैरन्यतानवच्छेदात्
तुल्ययोस्ततः प्रतिपत्तिः ||53||
तारकं सर्वविषयं
सर्वथाविषयमक्रमं चेति विवेकजं ज्ञानम् ||54||
सत्त्वपुरुषयोः
शुद्धिसाम्ये कैवल्यम् ||55||
इति
श्रीपातञ्जलयोगदर्शने विभूतिपादो नाम तृतीयः पादः |
No comments:
Post a Comment
please do not enter any spam link