Total Pageviews

Search

मूक पञ्च सथि 4 - कताक्ष्य सतकं MOOKA PANCHA SATHI 4 - KATAAKSHYA SATAKAM



मूक  पञ्च  सथि  4 - कताक्ष्य  सतकं  MOOKA PANCHA SATHI 4 - KATAAKSHYA SATAKAM




मोहान्धकारनिवहं विनिहन्तुमीडे
मूकात्मनामपि महाकवितावदान्यान् |
श्रीकाञ्चिदेशशिशिरीकृतिजागरूकान्
एकाम्रनाथतरुणीकरुणावलोकान् ||1||

मातर्जयन्ति ममताग्रहमोक्षणानि
माहेन्द्रनीलरुचिशिक्षणदक्षिणानि |
कामाक्षि कल्पितजगत्त्रयरक्षणानि
त्वद्वीक्षणानि वरदानविचक्षणानि ||2||

आनङ्गतन्त्रविधिदर्शितकौशलानाम्
आनन्दमन्दपरिघूर्णितमन्थराणाम् |
तारल्यमम्ब तव ताडितकर्णसीम्नां
कामाक्षि खेलति कटाक्षनिरीक्षणानाम् ||3||

कल्लोलितेन करुणारसवेल्लितेन
कल्माषितेन कमनीयमृदुस्मितेन |
मामञ्चितेन तव किञ्चन कुञ्चितेन
कामाक्षि तेन शिशिरीकुरु वीक्षितेन ||4||

साहाय्यकं गतवती मुहुरर्जनस्य
मन्दस्मितस्य परितोषितभीमचेताः |
कामाक्षि पाण्डवचमूरिव तावकीना
कर्णान्तिकं चलति हन्त कटाक्षलक्ष्मीः ||5||

अस्तं क्षणान्नयतु मे परितापसूर्यम्
आनन्दचन्द्रमसमानयतां प्रकाशम् |
कालान्धकारसुषुमां कलयन्दिगन्ते
कामाक्षि कोमलकटाक्षनिशागमस्ते ||6||

ताटाङ्कमौक्तिकरुचाङ्कुरदन्तकान्तिः
कारुण्यहस्तिपशिखामणिनाधिरूढः |
उन्मूलयत्वशुभपादपमस्मदीयं
कामाक्षि तावककटाक्षमतङ्गजेतन्द्रः ||7||

छायाभरणे जगतां परितापहारी
ताटङ्करत्नमणितल्लजपल्लवश्रीः |
कारुण्यनाम विकिरन्मकरन्दजालं
कामाक्षि राजति कटाक्षसुरद्रुमस्ते ||8||

सूर्याश्रयप्रणयिनी मणिकुण्डलांशु-
लौहित्यकोकनदकाननमाननीया |
यान्ती तव स्मरहराननकान्तिसिन्धुं
कामाक्षि राजति कटाक्षकलिन्दकन्या ||9||

प्राप्नोति यं सुकृतिनं तव पक्षपातात्
कामाक्षि वीक्षणविलासकलापुरन्ध्री |
सद्यस्तमेव किल मुक्तिवधूर्वृणीते
तस्मान्नितान्तमनयोरिदमैकमत्यम् ||10||

यान्ती सदैव मरुतामनुकूलभावं
भ्रूवल्लिशक्रधनुरुल्लसिता रसार्द्रा |
कामाक्षि कौतुकतरङ्गितनीलकण्ठा
कादम्बिनीव तव भाति कटाक्षमाला ||11||

गङ्गाम्भसि स्मितमये तपनात्मजेव
गङ्गाधरोरसि नवोत्पलमालिकेव |
वक्त्रप्रभासरसि शैवलमण्डलीव
कामाक्षि राजति कटाक्षरुचिच्छटा ते ||12||

संस्कारतः किमपि कन्दलितान् रसज्ञ-
केदारसीम्नि सुधियामुपभोगयोग्यान् |
कल्याणसूक्तिलहरीकलमाङ्कुरान्नः
कामाक्षि पक्ष्मलयतु त्वदपाङ्गमेघः ||13||

चाञ्चल्यमेव नियतं कलयन्प्रकृत्या
मालिन्यभूः श्रतिपथाक्रमजागरूकः |
कैवल्यमेव किमु कल्पयते नतानां
कामाक्षि चित्रमपि ते करुणाकटाक्षः ||14||

सञ्जीवने जननि चूतशिलीमुखस्य
संमोहने शशिकिशोरकशेखरस्य |
संस्तम्भने च ममताग्रहचेष्टितस्य
कामाक्षि वीक्षणकला परमौषधं ते ||15||

नीलोऽपि रागमधिकं जनयन्पुरारेः
लोलोऽपि भक्तिमधिकां दृढयन्नराणाम् |
वक्रोऽपि देवि नमतां समतां वितन्वन्
कामाक्षि नृत्यतु मयि त्वदपाङ्गपातः ||16||

कामद्रुहो हृदययन्त्रणजागरूका
कामाक्षि चञ्चलदृगञ्चलमेखला ते |
आश्चर्यमम्ब भजतां झटिति स्वकीय-
सम्पर्क एव विधुनोति समस्तबन्धान् ||17||

कुण्ठीकरोतु विपदं मम कुञ्चितभ्रू-
चापाञ्चितः श्रितविदेहभवानुरागः |
रक्षोपकारमनिशं जनयञ्जगत्यां
कामाक्षि राम इव ते करुणाकटाक्षः ||18||

श्रीकामकोटि शिवलोचनशोषितस्य
शृङ्गारबीजविभवस्य पुनःप्ररोहे |
प्रेमाम्भसार्द्रमचिरात्प्रचुरेण शङ्के
केदारमम्ब तव केवलदृष्टिपातम् ||19||

माहात्म्यशेवधिरसौ तव दुर्विलङ्घ्य-
संसारविन्ध्यगिरिकुण्ठनकेलिचुञ्चुः |
धैर्याम्बुधिं पशुपतेश्चुलकीकरोति
कामाक्षि वीक्षणविजृम्भणकुम्भजन्मा ||20||

पीयूषवर्षवशिशिरा स्फुटदुत्पलश्री-
मैत्री निसर्गमधुरा कृततारकाप्तिः |
कामाक्षि संश्रितवती वपुरष्टमूर्तेः
ज्योत्स्नायते भगवति त्वदपाङ्गमाला ||21||

अम्ब स्मरप्रतिभटस्य वपुर्मनोज्ञम्
अम्भोजकाननमिवाञ्चितकण्टकाभम् |
भृङ्गीव चुम्बति सदैव सपक्षपाता
कामाक्षि कोमलरुचिस्त्वदपाङ्गमाला ||22||

केशप्रभापटलनीलवितानजाले
कामाक्षि कुण्डलमणिच्छविदीपशोभे |
शङ्के कटाक्षरुचिरङ्गतले कृपाख्या
शैलूषिका नटति शङ्करवल्लभे ते ||23||

अत्यन्तशीतलमतन्द्रयतु क्षणार्धम्
अस्तोकविभ्रममनङ्गविलासकन्दम् |
अल्पस्मितादृतमपारकृपाप्रवाहम्
अक्षिप्ररोहमचिरान्मयि कामकोटि ||24||

मन्दाक्षरागतरलीकृतिपारतन्त्र्यात्
कामाक्षि मन्थरतरां त्वदपाङ्गडोलाम् |
आरुह्य मन्दमतिकौतुकशालि चक्षुः
आनन्दमेति मुहुरर्धशशाङ्कमौलेः ||25||

त्रैयम्बकं त्रिपुरसुन्दरि हर्म्यभूमि-
रङ्गं विहारसरसी करुणाप्रवाहः |
दासाश्च वासवमुखाः परिपालनीयं
कामाक्षि विश्वमपि वीक्षणभूभृतस्ते ||26||

वागीश्वरी सहचरी नियमेन लक्ष्मीः
भ्रूवल्लरीवशकरी भुवनानि गेहम् |
रूपं त्रिलोकनयनामृतमम्ब तेषां
कामाक्षि येषु तव वीक्षणपारतन्त्री ||27||

माहेश्वरं झटिति मानसमीनमम्ब
कामाक्षि धैर्यजलधौ नितरां निमग्नम् |
जालेन शृङ्खलयति त्वदपाङ्गनाम्ना
विस्तारितेन विषमायुधदाशकोऽसौ ||28||

उन्मथ्य बोधकमलाकारमम्ब जाड्य-
स्तम्बेरमं मम मनोविपिने भ्रमन्तम् |
कुण्ठीकुरुष्व तरसा कुटिलाग्रसीम्ना
कामाक्षि तावककटाक्षमहाङ्कुशेन ||29||

उद्वेल्लितस्तबकितैर्ललितैर्विलासैः
उत्थाय देवि तव गाढकटाक्षकुञ्जात् |
दूरं पलाययतु मोहमृगीकुलं मे
कामाक्षि स्तवरमनुग्रहकेसरीन्द्रः ||30||

स्नेहादृतां विदलितोत्पलकन्तिचोरां
जेतारमेव जगदीश्वरि जेतुकामः |
मानोद्धतो मकरकेतुरसौ धुनीते
कामाक्षि तावककटाक्षकृपाणवल्लीम् ||31||

श्रौतीं व्रजन्नपि सदा सरणिं मुनीनां
कामाक्षि सन्ततमपि स्मृतिमार्गगामी |
कौटिल्यमम्ब कथमस्थिरतां च धत्ते
चौर्यं च पङ्कजरुचां त्वदपाङ्गपातः ||32||

नित्यं श्रेतुः परिचितौ यतमानमेव
नीलोत्पलं निजसमीपनिवासलोलम् |
प्रीत्यैव पाठयति वीक्षणदेशिकेन्द्रः
कामाक्षी किन्तु तव कालिमसम्प्रदायम् ||33||

भ्रान्त्वा मुहुः स्तबकितस्मितफेनराशौ
कामाक्षि वक्त्ररुचिसञ्चयवारिराशौ |
आनन्दति त्रिपुरमर्दननेत्रलक्ष्मीः
आलम्ब्य देवि तव मन्दमपाङ्गसेतुम् ||34||

श्यामा तव त्रिपुरसुन्दरि लोचनश्रीः
कामाक्षि कन्दलितमेदुरतारकान्तिः |
ज्योत्स्नावती स्मितरुचापि कथं तनोति
स्पर्धामहो कुवलयैश्च तथा चकोरैः ||35||

कालाञ्जनं च तव देवि निरीक्षणं च
कामाक्षि साम्यसरणिं समुपैति कान्त्या |
निश्शेषनेत्रसुलभं जगतीषु पूर्व-
मन्यत्त्रिनेत्रसुलभं तुहिनाद्रिकन्ये ||36||

धूमाङ्कुरो मकरकेतनपावकस्य
कामाक्षि नेत्ररुचिनीलिमचातुरी ते |
अत्यन्तमद्भुतमिदं नयनत्रयस्य
हर्षोदयं जनयते हरुणाङ्कमौलेः ||37||

आरभ्भलेशसमये तव वीक्षणस्स
कामाक्षि मूकमपि वीक्षणमात्रनम्रम् |
सर्वज्ञता सकललोकसमक्षमेव
कीर्तिस्वयंवरणमाल्यवती वृणीते ||38||

कालाम्बुवाह उव ते परितापहारी
कामाक्षि पुष्करमधःकुरुते कटाख्क्ष्षः |
पूर्वः परं क्षणरुचा समुपैति मैत्री-
मन्यस्तु स।ततरुचिं प्रकटीकरोति ||39||

सूक्ष्मेऽपि दुर्गमतरेऽपि गुरुप्रसाद-
साहाय्यकेन विचरन्नपवर्गमार्गे |
संसारपङ्कनिचये न पतत्यमूं ते
कामाक्षि गाढमवलम्ब्य कटाक्षयष्टिम् ||40||

कामाक्षि सन्ततमसौ हरिनीलरत्न-
स्तम्भे कटाक्षरुचिपुञ्जमये भवत्याः |
बद्धोऽपि भक्तिनिगलैर्मम चित्तहस्ती
स्तम्भं च बन्धमपि मुञ्चति हन्त चित्रम् ||41||

कामाक्षि काष्णर्यमपि सन्ततमञ्जनं च
बिभ्रन्निसर्गतरलोऽपि भवत्कटाक्षः |
वैमल्यमन्वहमनञ्जनता च भूयः
स्थैर्यं च भक्तहृदयाय कथं ददाति ||42||

मन्दस्मितस्तबकितं मणिकुण्डलांशु-
स्तोमप्रवालरुचिरं शिशिरीकृताशम् |
कामाक्षि राजति कटाक्षरुचेः कदम्बम्
उद्यानमम्ब करुणाहरिणेक्षणायाः ||43||

कामाक्षि तावककटाक्षमहेन्द्रनील-
सिंहासनं श्रितवतो मकरध्वजस्य |
साम्राज्यमङ्गलविधौ मुणिकुण्डलश्रीः
नीराजनोत्सवतरङ्गितदीपमाला ||44||

मातः क्षणं स्नपय मां तव वीक्षितेन
मन्दाक्षितेन सुजनैरपरोक्षितेन |
कामाक्षि कर्मतिमिरोत्करभास्करेण
श्रेयस्करेण मधुपद्युतितस्करेण ||45||

प्रेमापगापयसि मज्जनमारचय्य
युक्तः स्मितांशुकृतभस्मविलेपनेन |
कामाक्षि कुण्डलमणिद्युतिभिर्जटालः
श्रीकण्ठमेव भजते तव दृष्टिपातः ||46||

कैवल्यदाय करुणारसकिङ्कराय
कामाक्षि कन्दलितविभ्रमशङ्कराय |
आलोकनाय तव भक्तशिवङ्कराय
मातर्नमोऽस्तु परतन्त्रितशङ्कराय ||47||

साम्राज्यमङ्गलविधौ मकरध्वजस्य
लोलालकालिकृततोरणमाल्यशोभे |
कामेश्वरि प्रचलदुत्पलवैजयन्ती-
चातुर्यमेति तव चञ्चलदृष्टिपातः ||48||

मार्गेण मञ्जुकचकान्तितमोवृतेन
मन्दायमानगमना मदनातुरासौ |
कामाक्षि दृष्टिरयते तव शङ्कराय
सङ्केतभूमिमचिरादभिसारिकेव ||49||

व्रीडनुवृत्तिरमणीकृतसाहचर्या
शैवालितां गलरुचा शशिशेखरस्य |
कामाक्षि कान्तिसरसीं त्वदपाङ्गलक्ष्मीः
मन्दं समाश्रयति मज्जनखेलनाय ||50||

काषायमंशुकमिव प्रकटं दधानो
माणिक्यकुण्डलरुचिं ममताविरोधी |
श्रुत्यन्तसीमनि रतः सुतरां चकास्ति
कामाक्षि तावककटाक्षयतीश्वरोऽसौ ||51||

पाषाण एव हरिनीलमणिर्दिनेषु
प्रम्लनतां कुवलयं प्रकटीकरोति |
नौमित्तिको जलदमेचकिमा ततस्ते
कामाक्षि शून्यमुपमनमपाङ्गलक्ष्म्याः ||52||

शृङ्गारविभ्रमवती सुतरां सलज्जा
नासाग्रमौक्तिकरुचा कृतमन्दहासा |
श्यामा कटाक्षसुषमा तव युक्तमेतत्
कामाक्षि चुम्बति दिगम्बरवक्त्रबिम्बम् ||53||

नीलोत्पलेन मधुपेन च दृष्टिपातः
कामाक्षि तुल्य इति ते कथमामनन्ति |
शैत्येन निन्दयति यदन्वहमिन्दुपादान्
पाथोरुहेण यदसौ कलहायते च ||54||

ओष्ठप्रभापटलविद्रुममुद्रिते ते
भ्रूवल्लिवीचिसुभगे मुखकान्तिसिन्धौ |
कामाक्षि वारिभरपूरणलम्बमान-
कालाम्बुवाहसरणिं लभते कटाक्षः ||55||

मन्दस्मितैर्धवलिता मणिकुण्डलांशु-
सम्पर्कलोहितरुचिस्त्वदपाङ्गधारा |
कामाक्षि मल्लिकुसुमैर्नवपल्लवैश्च
नीलोत्पलैश्च रचितेव विभाति माला ||56||

कामाक्षि शीतलकृपारसनिर्झराम्भः-
सम्पर्कपक्ष्मलरुचिस्त्वदपाङ्गमाला |
गोभिः सदा पुररिपोरभिलष्यमाणा
दूर्वाकदम्बकविडम्बनमातनोति ||57||

हृत्पङ्कजं मम विकासयतु प्रमुष्ण-
न्नुल्लासमुत्पलरुचेस्तमसां निरोद्धा |
दोषानुषङ्गजडतां जगतां धुनानः
कामाक्षि वीक्षणविलासदिनोदयस्ते ||58||

चक्षुर्विमोहयति चन्द्रविभूषणस्य
कामाक्षि तावककटाक्षतमःप्ररोहः |
प्रत्यङ्मुखं तु नयनं स्तिमितं मुनीनां
प्राकाश्यमेव नयतीति परं विचित्रम् ||59||

कामाक्षि वीक्षणरुचा युधि निर्जितं ते
नीलोत्पलं निरवशेषगताभिमानम् |
आगत्य तत्परिसरं श्रवणवतंस-
व्योजेन नूनमभयार्थनमातनोति ||60||

आश्चर्यमम्ब मदानाभ्युदयावलम्बः
कामाक्षि चञ्चलनिरीक्षणविभ्रमस्ते |
धैर्यं विधूय तनुते हृदि रागबन्धं
शम्भोस्तदेव विपरीततया मुनीनाम् ||61||

जन्तोः सकृत्प्रणमतो जगदीड्यतां च
तेजास्वितां च निशितां च मतिं सभायाम् |
कामाक्षि माक्षिकझरीमिव वैखरीं च
लक्ष्मीं च पक्ष्मलयति क्षणवीक्षणं ते ||62||

कादम्बिनी किमयते न जलानुषङ्गं
भृङ्गावली किमुररीकुरुते न पद्मम् |
किं वा कलिन्दतनया सहते न भङ्गं
कामाक्षि निश्चयपदं न तवाक्षिलक्ष्मीः ||63||

काकोलपावकतृणीकरणेऽपि दक्षः
कामाक्षि बालकसुधाकरशेखरस्य |
अत्यन्तशीतलतमोऽप्यनुपारतं ते
चित्तं विमोहयति चित्रमयं कटाक्षः ||64||

कार्पण्यपूरपरिवर्धितमम्ब मोह-
कन्दोद्गतं भवमयं विषपादपं मे |
तुङ्गं छिनत्तु तुहिनाद्रिसुते भवत्याः
काञ्चीपुरेश्वरि कटाक्षकुठारधारा ||65||

कामाक्षि घोरभवरोगचिकित्सनार्थ-
मभ्यर्थ्य देशिककटाक्षभिषक्प्रसादात् |
तत्रापि देवि लभते सुकृती कदाचि-
दन्यस्य दुर्लभमपाङ्गमहौषधं ते ||66||

कामाक्षि देशिककृपाङ्कुरमाश्रयन्तो
नानातपोनियमनाशितपाशबन्धाः |
वासालयं तव कटाक्षममुं महान्तो
लब्ध्वा सुखं समाधियो विचरन्ति लोके ||67||

साकूतसंलपितसम्भृतमुग्धहासं
व्रीडानुरागसहचारि विलोकनं ते |
कामाक्षि कामपरिपन्थिनि मारवीर-
साम्राज्यविभ्रमदशां सफलीकरोति ||68||

कामाक्षि विभ्रमबलैकनिधिर्विधाय
भ्रूवल्लिचापकुटिलीकृतिमेव चित्रम् |
स्वाधीनतां तव निनाय शशाङ्कमौले-
रङ्गार्धराज्यसुखलाभमपाङ्गवीरः ||69||

कामाङ्कुरैकनिलयस्तव दृष्टिपातः
कामाक्षि भक्तमनसां प्रददातु कामान् |
रागान्वितः स्वयमपि प्रकटीकरोति
वैराग्यमेव कथमेष महामुनीनाम् ||70||

कालाम्बुवाहनिवहैः कलहायते ते
कामाक्षि कालिममदेन सदा कटाक्षः |
चित्रं तथापि नितराममुमेव दृष्ट्वा
सोत्कण्ठ एव रमते किल नीलकण्ठः ||71||

कामाक्षि मन्मथरिपुं प्रति मारताप-
मोहान्धकारजलदागमनेन नृत्यन् |
दुष्कर्मकञ्चुकिकुलं कबलीकरोतु
व्यामिश्रमेचकरुचिस्त्वदपाङ्गकेकी ||72||

कामाक्षि मन्मथरिपोरवलोकनेषु
कान्तं पयोजमिव तावकमक्षिपातम् |
प्रेमागमो दिवसवद्विकचीकरोति
लज्जाभरो रजनिवन्मुकुलीकरोति ||73||

मूको विरिञ्चति परं पुरुषः कुरूपः
कन्दर्पति त्रिदशराजति किम्पचानः |
कामाक्षि केवलमुपक्रमकाल एव
लीलातरङ्गितकटाक्षरुचः क्षणं ते ||74||

नीलालका मधुकरन्ति मनोज्ञनासा-
मुक्तारुचः प्रकटकन्दबिसाङ्कुरन्ति |
कारुण्यमम्ब मकरन्दति कामकोटि
मन्ये ततः कमलमेव विलोचनं ते ||75||

आकाङ्क्ष्यमाणफलदानविचक्षणायाः |
कामाक्षि तावककटाक्षककामधेनोः |
सम्पर्क एव कथमम्ब विमुक्तपाश-
बन्धाः स्फुटं तनुभृतः पशुतां त्यजन्ति ||76||

संसारघर्मपरितापजुषां नराणां
कामाक्षि शीतलतराणि तवेक्षितानि |
चन्द्रातपन्ति घनचन्दनकर्दमन्ति
मुक्तागुणन्ति हिमवारिनिषेचनन्ति ||77||

प्रेमाम्बुराशिसततस्नपितानि चित्रं
कामाक्षि तावककटाक्षनिरीक्षणानि |
सन्धुक्षयन्ति मुहुरिन्धनराशिरीत्या
मारद्रुहो मनसि मन्मथचित्रभानुम् ||78||

कालाञ्जनप्रतिभटं कमनीयकान्त्या
कन्दर्पतन्त्रकलया कलितानुभावम् |
काञ्चीविहाररसिके कलुषार्तिचोरं
कल्लोलयस्व मयि ते करुणाकटाक्षम् ||79||

क्रान्तेन मन्मथदेन विमोह्यमान-
स्वान्तेन चूततरुमूलगतस्य पुंसः |
कान्तेन किञ्चिदवलोकय लोचनस्य
प्रान्तेन मां जननि काञ्चिपुरीविभूषे ||80||

कामाक्षि कोऽपि सुजनास्त्वदपाङ्गसङ्गे
कण्ठेन कन्दलितकालिमसम्प्रदायाः |
उत्तंसकल्पितचकोरकुटुम्बपोषा
नक्तन्दिवसप्रसवभूनयना भवन्ति ||81||

नीलोत्पलप्रसवकान्तिनिर्दशनेन
कारुण्यविभ्रमजुषा तव वीक्षणेन |
कामाक्षि कर्मजलधेः कलशीसुतेन
पाशत्रयाद्वयममी परिमोचनीयाः ||82||

अत्यन्तचञ्चलमकृत्रिममञ्जनं किं
झङ्कारभङ्गिरहिता किमु भृङ्गमाला |
धूमाङ्कुरः किमु हुताशनसङ्गहीनः
कामाक्षि नेत्ररुचिनीलिमकन्दली ते ||83||

कामाक्षि नित्यमयमञ्जलिरस्तु मुक्ति-
बीजाय विभ्रममदोदयघूर्णिताय |
कन्दर्पदर्पपुनरुद्भवसिद्धिदाय
कल्याणदाय तव देवि दृगञ्चलाय ||84||

दर्पाङ्कुरो मकरकेतनविभ्रमाणां
निन्दाङ्कुरो विदलितोत्पलचातुरीणाम् |
दीपाङ्कुरो भवतमिस्रकदम्बकानां
कामाक्षि पालयतु मां त्वदपाङ्गपातः ||85||

कैवल्यदिव्यमणिरोहणपर्वतेभ्यः
कारुण्यनिर्झरपयःकृतमञ्जनेभ्यः |
कामाक्षि किङ्करितशङ्करमानसेभ्य-
स्तेभ्यो नमोऽस्तु तव वीक्षणविभ्रमेभ्यः ||86||

अल्पीय एव नवमुत्पलमम्ब हीना
मीनस्य वा सरणिरम्बुरुहां च किं वा |
दूरे मृगीदृगसमञ्जसमञ्जनं च
कामाक्षि वीक्षणरुचौ तव तर्कयामः ||87||

मिश्रीभवद्गरलपङ्किलशङ्करोरस्-
सीमाङ्गणे किमपि रिङ्खणमादधानः |
हेलावधूतललितश्रवणोत्पलोऽसौ
कामाक्षि बाल इव राजति ते कटाक्षः ||88||

प्रौढिकरोति विदुषां नवसूक्तिधाटी-
चूताटवीषु बुधकोकिललाल्यमानम् |
माध्वीरसं परिमलं च निरर्गलं ते
कामाक्षि वीक्षणविलासवसन्तलक्ष्मीः ||89||

कूलङ्कषं वितनुते करुणाम्बुवर्षी
सारस्वतं सुकृतिनः सुलभं प्रवाहम् |
तुच्छीकरोति यमुनाम्बुतरङ्गभङ्गीं
कामाक्षि किं तव कटाक्षमहाम्बुवाहः ||90||

जगर्ति देवि करुणाशुकसुन्दरी ते
ताटङ्करत्नरुचिदाडिमखण्डशोणे |
कामाक्षि निर्भरकटाक्षमरीचिपुञ्ज-
माहेन्द्रनीलमणिपञ्जरमध्यभागे ||91||

कामाक्षि सत्कुवलयस्य सगोत्रभावा-
दाक्रामति श्रुतिमसौ तव दृष्टिपातः |
किञ्च स्फुटं कुटिलतां प्रकटीकरोति
भ्रूवल्लरीपरिचितस्य फलं किमेतत् ||92||

एषा तवाक्षिसुषमा विषमायुधस्य
नाराचवर्षलहरी नगराजकन्ये |
शङ्के करोति शतधा हृदि धैर्यमुद्रां
श्रीकामकोटि यदसौ शिशिरांशुमौलेः ||93||

बाणेन पुष्पधनुषः परिकल्प्यमान-
त्राणेन भक्तमनसां करुणाकरेण |
कोणेन कोमलदृशस्तव कामकोटि
शोणेन शोषय शिवे मम शोकसिन्धुम् ||94||

मारद्रुहा मुकुटसीमनि लाल्यमाने
मन्दाकिनीपयसि ते कुटिलं चरिष्णुः |
कामाक्षि कोपरभसाद्वलमानमीन-
सन्देहमङ्कुरयति क्षणमक्षिपातः ||95||

कामाक्षि संवलितमौक्तिककुण्डलांशु-
चञ्चत्सितश्रवणचामरचातुरीकः |
स्तम्भे निरन्तरमपाङ्गमये भवत्या
बद्धश्चकास्ति मकरध्वजमत्तहस्ती ||96||

यावत्कटाक्षरजनीसमयागमस्ते
कामाक्षि तावदचिरान्नमतां नराणाम् |
आविर्भवत्यमृतदीधितिबिम्बमम्ब
संविन्मयं हृदयपूर्वगिरीन्द्रशृङ्गे ||97||

कामाक्षि कल्पविटपीव भवत्कटाक्षो
दित्सुः समस्तविभवं नमतां नराणाम् |
भृङ्गस्य नीलनलिनस्य च कान्तिसम्प-
त्सर्वस्वमेव हरतीति परं विचित्रम् ||98||

अत्यन्तशीतलमनर्गलकर्मपाक-
काकोलहारि सुलभं सुमनोभिरेतत् |
पीयूषमेव तव वीक्षणमम्ब किन्तु
कामाक्षि नीलमिदमित्ययमेव भेदः ||99||

अज्ञातभक्तिरसमप्रसरद्विवेक-
मत्यन्तगर्वमनधीतसमस्तशास्त्रम् |
अप्राप्तसत्यमसमीपगतं च मुक्तेः
कामाक्षि नैव तव स्पृहयति दृष्टिपातः ||100||

(कामाक्षि मामवतु ते करुणाकटाक्षः)
पातेन लोचनरुचेस्तव कामकोटि
पोतेन पतकपयोधिभयातुराणाम् |
पूतेन तेन नवकाञ्चनकुण्डलांशु-
वीतेन शीतलय भूधरकन्यके माम् ||101||

|| इति कटाक्षशतकं सम्पूर्णम् ||

No comments:

Post a Comment

please do not enter any spam link

POPULAR POST