कारणपरचिद्रूपा
काञ्चीपुरसीम्नि कामपीठगता |
काचन विहरति
करुणा काश्मीरस्तबककोमलाङ्गलता ||1||
कञ्चन
काञ्चीनिलयं करधृतकोदण्डबाणसृणिपाशम् |
कठिनस्तनभरनम्रं
कैवल्यानन्दकन्दमवलम्बे ||2||
चिन्तितफलपरिपोषणचिन्तामणिरेव
काञ्चिनिलया मे |
चिरतरसुचरितसुलभा
चित्तं शिशिरयतु चित्सुखाधारा ||3||
कुटिलकचं
कठिनकुचं कुन्दस्मितकान्ति कुङ्कुमच्छायम् |
कुरुते विहृतिं
काञ्च्यां कुलपर्वतसार्वभौमसर्वस्वम् ||4||
पञ्चशरशास्त्रबोधनपरमाचार्येण
दृष्टिपातेन |
काञ्चीसीम्नि
कुमारी काचन मोहयति कामजेतारम् ||5||
परया
काञ्चीपुरया पर्वतपर्यायपीनकुचभरया |
परतन्त्रा
वयमनया पङ्कजसब्रह्मचारिलोचनया ||6||
ऐश्वर्यमिन्दुमौलेरैकत्म्यप्रकृति
काञ्चिमध्यगतम् |
ऐन्दवकिशोरशेखरमैदम्पर्यं
चकास्ति निगमानाम् ||7||
श्रितकम्पसीमानं
शिथिलितपरमशिवधैर्यमहिमानम् |
कलये पटलिमानं
कञ्चन कञ्चुकितभुवनभूमानम् ||8||
आदृतकाञ्चीनिलयमाद्यामारूढयौवनाटोपाम्
|
आगमवतंसकलिकामानन्दाद्वैतकन्दलीं
वन्दे ||9||
तुङ्गाभिरामकुचभरशृङ्गारितमाश्रयामि
काञ्चिगतम् |
गङ्गाधरपरतन्त्रं
शृङ्गाराद्वैततन्त्रसिद्धान्तम् ||10||
काञ्चीरत्नविभूषां
कामपि कन्दर्पसूतिकापाङ्गीम् |
परमां कलामुपासे
परशिववामाङ्कपीठिकासीनाम् ||11||
कम्पातीचराणां
करुणाकोरकितदृष्टिपातानाम् |
केलीवनं मनो मे
केषाञ्चिद्भवतु चिद्विलासानाम् ||12||
आम्रतरुमूलवसतेरादिमपुरुषस्य
नयनपीयूषम् |
आरब्धयौवनोत्सवमाम्नायरहस्यमन्तरवलम्बे
||13||
अधिकाञ्चि
परमयोगिभिरादिमपरपीठसीम्नि दृश्येन |
अनुबद्धं मम
मानसमरुणिमसर्वस्वसम्प्रदायेन ||14||
अङ्कितशङ्करदेहामङ्कुरितोरोजकङ्कणाश्लेषैः
|
अधिकाञ्चि
नित्यतरुणीमद्राक्षं काञ्चिदद्भुतां बालाम् ||15||
मधुरधनुषा
महीधरजनुषा नन्दामि सुरभिबाणजुषा |
चिद्वपुषा
काञ्चिपुरे केलिजुषा बन्धुजीवकान्तिमुषा ||16||
मधुरस्मितेन
रमते मांसलकुचभारमन्दगमनेन |
मध्येकाञ्चि मनो
मे मनसिजसाम्राज्यगर्वबीजेन ||17||
धरणिमयीं
तरणिमयीं पवनमयीं गगनदहनहोतृमयीम् |
अम्बुमयीमिन्दुमयीमम्बामनुकम्पमादिमामीक्षे
||18||
लीनस्थिति मुनिहृदये
ध्यानस्तिमितं तपस्यदुपकम्पम् |
पीनस्तनभरमीडे
मीनध्वजतन्त्रपरमतात्पर्यम् ||19||
श्वेता
मन्थरहसिते शाता मध्ये च वाड्भनोऽतीता |
शीता लोचनपाते
स्फीता कुचसीम्नि शाश्वती माता ||20||
पुरतः कदा न
करवै पुरवैरिविमर्दपुलकिताङ्गलताम् |
पुनतीं
काञ्चीदेशं पुष्पायुधवीर्यसरसपरिपाटीम् ||21||
पुण्या काऽपि
पुरन्ध्री पुङ्खितकन्दर्पसम्पदा वपुषा |
पुलिनचरी
कम्पायाः पुरमथनं पुलकनिचुलितं कुरुते ||22||
तनिमाद्वैतवलग्नं
तरुणारुणसम्प्रदायतनुलेखम् |
तटसीमनि
कम्पायास्तरुणिमसर्वस्वमाद्यमद्राक्षम् ||23||
पौष्टिककर्मविपाकं
पौष्पशरं सविधसीम्नि कम्पायाः |
अद्राक्षमात्तयौवनमभ्युदयं
कञ्चिदर्धशशिमौलैः ||24||
संश्रितकाञ्चीदेशे
सरसिजदौर्भाग्यजाग्रदुत्तंसे |
संविन्मये
विलीये सारस्वतपुरुषकारसाम्राज्ये ||25||
मोदितमधुकरविशिखं
स्वादिमसमुदायसारकोदण्डम् |
आदृतकाञ्चीखेलनमादिममारुण्यभेदमाकलये
||26||
उररीकृतकाञ्चिपुरीमुपनिषदरविन्दकुहरमधुधाराम्
|
उन्नम्रस्तनकलशीमुत्सवलहरीमुपास्महे
शम्भोः ||27||
एणशिशुदीर्घलोचनमेनःपरिपन्थि
सन्ततं भजताम् |
एकाम्रनाथजीवितमेवम्पददूरमेकमवलम्बे
||28||
स्मयमानमुखं
काञ्चीभयमानं कमपि देवताभेदम् |
दयमानं वीक्ष्य
मुहुर्वयमानन्दामृताम्बुधौ मग्नाः ||29||
कुतुकजुषि
काञ्चिदेशे कुमुदतपोराशिपाकशेखरिते |
कुरुते
मनोविहारं कुलगिरिपरिबृढकुलैकमणिदीपे ||30||
वीक्षेमहि
काञ्चिपुरे विपुलस्तनकलशगरिमपरवशितम् |
विद्रुमसहचरदेहं
विभ्रमसमवायसारसन्नाहम् ||31||
कुरुविन्दगोत्रगात्रं
कूलचरं कमपि नौमि कम्पायाः |
कूलङ्कषकुचकुम्भं
कुसुमायुधवीर्यसारसंरम्भम् ||32||
कुडूमलितकुचकिशोरैः
कुर्वाणैः काञ्चिदेशसौहार्दम् |
कुङ्कुमशोणैर्निचितं
कुशलपथं शम्भुसुकृतसम्भारैः ||33||
अङ्कितकचेन
केनचिदन्धङ्करणौषधेन कमलानाम् |
अन्तःपुरेण
शम्भोरलङ्क्रिया काऽपि कल्प्यते काञ्च्याम् ||34||
ऊरीकरोमि
सन्ततमूष्मलफालेन ललितं पुंसा |
उपकम्पमुचितखेलनमुर्वीधरवंशसम्पदुन्मेषम्
||35||
अङ्कुरितस्तनकोरकमङ्कालङ्कारमेकचूतपतेः
|
आलोकेमहि
कोमलमागमसंलापसारयाथार्थ्यम् ||36||
पुञ्जितकरुणमुदञ्चितशिञ्जितमणिकाञ्चि
किमपि काञ्चिपुरे |
मञ्जरितमृदुलहासं
पिञ्जरतनुरुचि पिनाकिमूलधनम् ||37||
लोलहृदयोऽस्ति
शम्भोर्लोचनयुगलेन लेह्यमानायाम् |
ललितपरमशिवायां
लावण्यामृततरङ्गमालायाम् ||38||
मधुकरसहचरचिकुरैर्मदनागमसमयदीक्षितकटाक्षैः
|
मण्डितकम्पातीरैर्मङ्गलकन्दैर्ममास्तु
सारूप्यम् ||39||
वदनारविन्दवक्षोवामाङ्कतटीवशंवदीभूता
|
पूरुषत्रितये
त्रेधा पुरन्ध्रिरूपा त्वमेव कामाक्षि ||40||
बाधाकरीं
भवाब्धेराधाराद्यम्बुजेषु विचरन्तीम् |
आधारीकृतकाञ्ची
बोधामृतवीचिमेव विमृशामः ||41||
कलयाम्यन्तः
शशधरकलयाऽङ्कितमौलिममलचिद्वलयाम् |
अलयामागमपीठीनिलयां
वलयाङ्कसुन्दरीमम्बाम् ||42||
शर्वादिपरमसाधकगुर्वानीताय
कामपीठजुषे |
सर्वाकृतये
शोणिमगर्वायास्मै समर्प्यते हृदयम् ||43||
समया
सान्ध्यमयूखैः समया बुद्धया सदैव शीलितया |
उमया काञ्चीरतया
न मया लभ्यते किं नु तादात्म्यम् ||44||
जन्तोस्तव
पदपूजनसन्तोषतरङ्गितस्य कामाक्षि |
वन्धो यदि भवति
पुनः सिन्धोरम्भस्सु बम्भ्रमीति शिला ||45||
कुण्डलि कुमारि
कुटिले चण्डि चराचरसवित्रि चामुण्डे |
गुणिनि गुहारिणि
गुह्ये गुरुमूर्ते त्वां नमामि कामाक्षि ||46||
अभिदाकृतिर्भिदाकृतिरचिदाकृतिरपि
चिदाकृतिर्मातः |
अनहन्ता
त्वमहन्ता भ्रमयसि कामाक्षि शाश्वती विश्वम् ||47||
शिव शिव
पश्यन्ति समं श्रीकामाक्षीकटाक्षिताः पुरुषाः |
विपिनं
भवनममित्रं मित्रं लोष्टं च युवतिबिम्बोष्ठम् ||48||
कामपरिपन्थिकामिनि
कामेश्वरि कामपीठमध्यगते |
कामदुघा भव कमले
कामकले कामकोटि कामाक्षि ||49||
मध्येहृदयं
मध्येनिटिलं मध्येशिरोऽपि वास्तव्याम् |
चण्डकरशक्रकार्मुकचन्द्रसमाभां
नमामि कामाक्षीम् ||50||
अधिकाञ्चि
केलिलोलैरखिलागमयन्त्रतन्त्रमयैः |
अतिशीतं मम
मानसमसमशरद्रोहिजीवनोपायैः ||51||
नन्दति मम हृदि
काचन मन्दिरयन्ता निरन्तरं काञ्चीम् |
इन्दुरविमण्डलकुचा
बिन्दुवियन्नादपरिणता तरुणी ||52||
शम्पालतासवर्णं
सम्पादयितुं भवज्वरचिकित्साम् |
लिम्पामि मनसि
किञ्चन कम्पातटरोहि सिद्धभैषज्यम् ||53||
अनुमितकुचकाठिन्यामधिवक्षःपीठमङ्गजन्मरिपोः
|
आनन्ददां भजे
तामानङ्गब्रह्मतत्वबोधसिराम् ||54||
ऐक्षिषि
पाशाङ्कुशधरहस्तान्तं विस्मयार्हवृत्तान्तम् |
अधिकाञ्चि
निगमवाचां सिद्धान्तं शूलपाणिशुद्धान्तम् ||55||
आहितविलासभङ्गीमाब्रह्मस्तम्बशिल्पकल्पनया
|
आश्रितकाञ्चीमतुलामाद्यां
विस्फूर्तिमाद्रिये विद्याम् ||56||
मूकोऽपि
जटिलदुर्गतिशोकोऽपि स्मरति यः क्षणं भवतीम् |
एको भवति स
जन्तुर्लोकोत्तरकीर्तिरेव कामाक्षि ||57||
पञ्चदशवर्णरूपं
कञ्चन काञ्चीविहारधौरेयम् |
पञ्चशरीयं
शम्भोर्वञ्चनवैदग्ध्यमूलमवलम्बे ||58||
परिणतिमतीं
चतुर्धा पदवीं सुधियां समेत्य सौषुम्नीम् |
पञ्चाशदर्णकल्पितमदशिल्पां
त्वां नमामि कामाक्षि ||59||
आदिक्षन्मम
गुरुराडादिक्षान्ताक्षरात्मिकां विद्याम् |
स्वादिष्ठचापदण्डां
नेदिष्ठामेव कामपीठगताम् ||60||
तुष्यामि
हर्षितस्मरशासनया काञ्चिपुरकृतासनया |
स्वासनया
सकलजगद्भासनया कलितशम्बरासनया ||61||
प्रेमवती
कम्पायां स्थेमवती यतिमनस्सु भूमवती |
सामवती
नित्यगिरा सोमवती शिरसि भाति हैमवती ||62||
कौतुकिना
कम्पायां कौसुमचापेन कीलितेनान्तः |
कुलदैवतेन महता
कुड्मलमुद्रां धुनोतु नःप्रतिभा ||63||
यूना केनापि
मिलद्देहा स्वाहासहायतिलकेन |
सहकारमूलदेशे
संविद्रूपा कुटुम्बिनी रमते ||64||
कुसुमशरगर्वसम्पत्कोशगृहं
भाति काञ्चिदेशगतम् |
स्थापितमस्मिन्कथमपि
गोपितमन्तर्मया मनोरत्नम् ||65||
दग्धषडध्वारण्यं
दरदलितकुसुम्भसम्भृतारुण्यम् |
कलये नवतारुण्यं
कम्पातटसीम्नि किमपि कारुण्यम् ||66||
अधिकाञ्चि
वर्धमानामतुलां करवाणि पारणामक्ष्णोः |
आनन्दपाकभेदामरुणिमपरिणामगर्वपल्लविताम्
||67||
बाणसृणिपाशकार्मुकपाणिममुं
कमपि कामपीठगतम् |
एणधरकोणचूडं
शोणिमपरिपाकभेदमाकलये ||68||
किं वा फलति
ममान्यौर्बिम्बाधरचुम्बिमन्दहासमुखी |
सम्बाधकरी
तमसामम्बा जागर्ति मनसि कामाक्षी ||69||
मञ्चे सदाशिवमये
परिशिवमयललितपौष्पपर्यङ्के |
अधिचक्रमध्यमास्ते
कामाक्षी नाम किमपि मम भाग्यम् ||70||
रक्ष्योऽस्मि
कामपीठीलासिकया घनकृपाम्बुराशिकया |
श्रुतियुवतिकुन्तलीमणिमालिकया
तुहिनशैलबालिकया ||71||
लीये पुरहरजाये
माये तव तरुणपल्लवच्छाये |
चरणे
चन्द्राभरणे काञ्चीशरणे नतार्तिसंहरणे ||72||
मूर्तिमति
मुक्तिबीजे मूर्ध्नि स्तबकितचकोरसाम्राज्ये |
मोदितकम्पाकूले
मुहुर्मुहुर्मनसि मुमुदिषाऽस्माकम् ||73||
वेदमयीं नादमयीं
बिन्दुमयीं परपदोद्यदिन्दुमयीम् |
मन्त्रमयीं
तन्त्रमयीं प्रकृतिमयीं नौमि विश्वविकृतिमयीम् ||74||
पुरमथनपुण्यकोटी
पुञ्जितकविलोकसूक्तिरसधाटी |
मनसि मम कामकोटी
विहरतु करुणाविपाकपरिपाटी ||75||
कुटिलं चटुलं
पृथुलं मृदुलं कचनयनजघनचरणेषु |
अवलोकितमवलम्बितमधिकम्पातटममेयमस्माभिः
||76||
प्रत्यङ्मुख्या
दृष्टया प्रसाददीपाङ्कुरेण कामाक्ष्याः |
पश्यामि
निस्तुलमहो पचेलिमं कमपि परशिवोल्लासम् ||77||
विद्ये
विधातृविषये कात्यायनि कालि कामकोटिकले |
भारति भैरवि
भद्रे शाकिनि शाम्भवि शिवे स्तुवे भवतीम् ||78||
मालिनि
महेशचालिनि काञ्चीखेलिनि विपक्षकालिनि ते |
शूलिनि
विद्रुमशालिनि सुरजनपालिनि कपालिनि नमोऽस्तु ||79||
देशिक इति किं
शङ्के तत्तादृक्तव नु तरुणिमोन्मेषः |
कामाक्षि
शूलपाणेः कामागमसमयदीक्षायाम् ||80||
वेतण्डकुम्भडम्बरवैतण्डिककुचभरार्तमध्याय
|
कुङ्कुमरुचे
नमस्यां शङ्करनयनामृताय रचयामः ||81||
अधिकाञ्चितमणिकाञ्चनकाञ्चीमधिकाञ्चि
काञ्चिदद्राक्षम् |
अवनतजनानुकम्पामनुकम्पाकूलमस्मदनुकूलाम्
||82||
परिचितकम्पातीरं
पर्वतराजन्यसुकृतसन्नाहम् |
परगुरुकृपया
वीक्षे परमशिवोत्सङ्गमङ्गलाभरणम् ||83||
दग्धमदनस्य
शम्भोः प्रथीयसीं ब्रह्मचर्यवैदग्धीम् |
तव देवि
तरुणिमश्रीचतुरिमपाको न चक्षमे मातः ||84||
मदजलतमालपत्रा
वसनितपत्रा करादृतखानित्रा |
विहरति
पुलिन्दयोषा गुञ्जाभूषा फणीन्द्रकृतवेषा ||85||
अङ्के शुकिनी
गीते कौतुकिनी परिसरे च गायकिनी |
जयसि सविधेऽम्ब
भैरवमण्डलिनी श्रवसि शङ्खकुन्डलिनी ||86||
प्रणतजनतापवर्गा
कृतबहुसर्गा ससिंहसंसर्गा |
कामाक्षि
मुदितभर्गा हतरिपुवर्गा त्वमेव सा दुर्गा ||87||
श्रवणचलद्वेतण्डा
समरोद्दण्डा धुतासुरशिखण्डा |
देवि
कलितान्त्रषण्डा धृतनरमुण्डा त्वमेव चामुण्डा ||88||
उर्वीधरेन्द्रकन्ये
दर्वीभरितेन भक्तपूरेण |
गुर्वीमकिञ्चनार्ति
खर्वीकुरुषे त्वमेव कामाक्षि ||89||
ताडितरिपुपरिपीडनभयहरण
निपुणहलमुसला |
क्रोडपतिभीषणमुखी
क्रीडसि जगति त्वमेव कामाक्षि ||90||
स्मरमथनवरणलोला
मन्मथहेलाविलासमणिशाला |
कनकरुचिचौर्यशीला
त्वमम्ब बाला कराब्जधृतमाला ||91||
विमलपटी कमलकुटी
पुस्तकरुद्राक्षशस्तहस्तपुटी |
कामाक्षि
पक्ष्मलाक्षी कलितविपञ्ची विभासि वैरिञ्ची ||92||
कुङ्कुमरुचिपिङ्गमसृक्पङ्किलमुण्डालिमण्डितं
मातः |
श्रीकामाक्षि
तदीयसङ्गमकलामन्दीभवत्कौतुकः
जयति तव रूपधेयं
जपपटपुस्तकवराभयकराब्जम् ||93||
कनकमणिकलितभूषां
कालायसकलहशीलकान्तिकलाम् |
कामाक्षि शीलये
त्वां कपालशूलाभिरामकरकमलाम् ||94||
लोहितिमपुञ्जमध्ये
मोहितभुवने मुदा निरीक्षन्ते |
वदनं तव
कुवयुगलं काञ्चीसीमां च केऽपि कामाक्षि ||95||
जलधिद्विगुणितहुतबहदिशादिनेश्वरकलाश्विनेयदलैः
|
नलिनैर्महेशि
गच्छसि सर्वोत्तरकरकमलदलममलम् ||96||
सत्कृतदेशिकचरणाः
सबीजनिर्बीजयोगनिश्रेण्या |
अपवर्गसौधवलभीमारोहन्त्यम्ब
केऽपि तव कृपया ||97||
अन्तरपि बहिरपि
त्वं जन्तुततेरन्तकान्तकृदहन्ते |
चिन्तितसन्तानवतां
सन्ततमपि तन्तनीषि महिमानम् ||98||
कलमञ्जुलवागनुमितगलपञ्जरगतशुकग्रहौत्कण्ठ्यात्
|
अम्ब रदनाम्बरं
ते बिम्बफलं शम्बरारिणा न्यस्तम् ||99||
जय जय जगदम्ब
शिवे जय जय कामाक्षि जय जयाद्रिसुते |
जय जय महेशदयिते
जय जय चिद्गगनकौमुदीधारे ||100||
आर्याशतकं
भक्त्या पठतामार्याकटाक्षेण |
निस्सरति
वदनकमलाद्वाणी पीयूषधोरणी दिव्या ||101||
|| इति
आर्याशतकं सम्पूर्णम् ||
No comments:
Post a Comment
please do not enter any spam link